________________
॥चतुर्थः सर्गः॥ ॥सुभूमचक्रवर्तिचरित्रम्॥
अरतीर्थकृतस्तीर्थे सुभूमस्याऽथ चक्रिणः । अष्टमस्य क्रमायातं चरितं कीर्तयिष्यते ॥१॥ इहैव भरतक्षेत्रे विशालनगरेऽभवत् । भूपालो नाम भूपाल: पालयन् क्षत्रियव्रतम् ।।२।। सोऽन्यदैकत्र सङ्ग्रामे बहुभिः परिपन्थिभिः । एकीभूय पराजिग्ये वृन्दं हि बलवत्तरम् ॥३॥ स वैरिभिः पराभूतोऽपमानमलिनाननः । सम्भूतमुनिपादान्ते परिव्रज्यामुपाददे ॥४॥ प्रभुत्वभोगविषयं निदानं तपसोऽथ सः । कृत्वाऽवसानं चाऽऽसाद्य महाशुक्रे सुरोऽभवत् ॥५।। पाइंतश्चर्षभनाथस्य कुरुरित्यभवत् सुतः । यस्य नाम्ना कुरुदेशो हस्ती नाम्ना च तत्सुतः ॥६॥ यन्नाम्ना हास्तिनपुरं तीर्थकृच्चक्रिजन्मभूः । तद्वंश्योऽनन्तवीर्योऽभूत् तत्र राजा महाभुजः ॥७॥
इतश्च भरतक्षेत्रे वसन्तपुरपत्तने । उच्छिन्नवंश एकोऽभूदग्निको नाम दारकः ।।८।। सोऽन्यदा चलितस्तस्मात् स्थानाद्देशान्तरं प्रति। सार्थाद्धीन: परिभ्राम्यन्नगमत् तापसाश्रमम् ॥९॥ तमग्निं तनयत्वेनाऽग्रहीत् कुलपतिर्जमः । जमदग्निरिति ख्यातिं स लोकेषु ततोऽगमत् ॥१०॥ तप्यमानस्तपस्तीव्र प्रत्यक्ष इव पावकः । तेजसा दु:सहेनाऽसौ पप्रथे पृथिवीतले॥११॥ पातदा च श्राद्ध: प्राग्जन्मनाम्ना वैश्वानरः सुरः । धन्वन्तरिश्च तापसभक्तो व्यवदतामिति ॥१२।। एक आहाऽर्हतां धर्मः प्रमाणमितर: पुन: । तापसानां; विवादेऽस्मिन् व्यधातामिति निर्णयः ॥१३॥ आर्हतेषु जघन्यो य: प्रकृष्टस्तापसेषु यः । परीक्षणीयावावाभ्यां को गुणैरैतिरिच्यते ? ॥१४॥ पतदानीं मिथिलापुर्या नवधर्मपरिष्कृतः । श्रीमान् पद्मरथो नाम प्रस्थितो पृथिवीतले ॥१५॥ दीक्षां से वासुपूज्यान्ते ग्रहीतुं भावतो यतिः । गच्छंश्चम्पापुरीं ताभ्यां देवाभ्यां ददृशे पथि ॥१६।। परीक्षाकाङ्क्षया ताभ्यां पानान्ने ढौकिते नृपः । तषितः क्षुधितोऽप्यौज्झद्वीरा: सत्त्वाच्चलन्ति न ॥१७॥
कचैरिव चक्राते क्रूरैः कर्कर-कण्टकैः । पीडां देवौ नृदेवस्य मृदुनोः पादपद्मयोः ॥१८॥ पादाभ्यां प्रक्षरद्रक्तधाराभ्यां तादृशेऽध्वनि । तूंलिकातलवच्चारु सञ्चचार तथाऽपि सः ॥१९।। निर्ममे गीत-नृत्तादि ताभ्यां क्षोभाय भूपतेः । तन्मोघमभवत् तत्र दिव्यास्त्रमिव गोत्रजे॥२०॥ तौ सिद्धपुत्ररूपेण पुरोभूयेदमूचतुः । तवाऽद्याऽपि महाभाग! महदायुयुवाऽसि च ॥२१॥ स्वच्छन्दं भुक्ष्व तद्भोगान् का धीर्यद्यौवने तप: ? । निशीथकृत्यं कः प्रात: कुर्यादुद्योगवानपि ? ॥२२॥ यौवने तदतिक्रान्ते देहदौर्बल्यकारणम् । गृह्णीयास्त्वं तपस्तात! द्वितीयमिव वार्धकम् ॥२३॥ राजोचे यदि बह्वायुर्बहु पुण्यं भविष्यति। जैलमानेन नलिनीनालं हि परिवर्धते ॥२४॥ लोलेन्द्रिये यौवने हि यत् तपस्तत् तपो ननु । दारुणास्त्रे रणे यो हि शूर: शूर: स उच्यते ॥२५।। पातस्मिन्नचलिते सत्त्वात् साधु साध्विति वादिनौ। तौ गतौ तापसोत्कृष्टं जमदग्निं परीक्षितुम् ॥२६॥ १. पृथ्वीपालः॥२. शत्रुभिः ।। ३.६-७' इमौ द्वौ श्लोकौ लासझक-हेसज्ञकप्रत्योर्न स्तः॥४. हस्तिनाम्ना मु.॥५. तु खंता. ॥ ६. उच्छन्न० खंता. ।। ७. सार्थरहित: ॥ ८. कुलपतिर्जन: खंता. हे.विना ॥ ९. ०मानस्तपस्तीक्ष्णं मु.विना, खंता. ॥ १०. अग्निः ।। ११. पूर्वजन्मनोऽभिधानेन ।। १२. विवादमकुरुताम् ।।१३. अधिको भवति॥१४. नूतनधर्मेण संस्कृत: ॥१५. पृथिवीपतिः ला. हे. ॥१६. ०श्रीवासु० खंता. ॥ १७. ०प्यौज्झद्धीरा मु.;
औज्झत्-त्यक्तवान् ॥१८. करपत्रैः, करवत' ॥१९. कर्कराश्च(कांकरा) कण्टकाश्च तैः॥२०. ०तलसञ्चारं हे. । तूलिका-'तळाई' इति भाषायाम् ।। २१. क्रियाविशेषणमेतत्।।२२. समस्तृतीयया'(सि.३/३/३२) इति प्राप्तेऽप्यात्मनेपदे आत्मनेपदमनित्यम्'(न्यायसं०२/३७) इति न्यायमाहात्म्यादत्र परस्मैपदम् ।। २३. गोत्रीये जने यथा दिव्यमस्त्रं प्रयुक्तमपि न प्रभवति तद्वन्निष्फलम् ।। २४. बुद्धिः ।। २५. अर्धरात्रकृत्यम् ।। २६. वारिणः प्रमाणेन यावज्जलं तावन्नलिन्या नालं वर्धते इत्यर्थः।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org