SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ तृतीय: सर्गः) त्रिषष्टिशलाकापुरुषचरितम्। 'एकोनत्रिंशिधन्वोच्चौ प्रापतुर्यौवनं क्रमात् । तावशेषकलाम्भोधिपारगौ च बभूवतुः ॥२५॥ उपेन्द्रसेनो राजेन्द्रपुरेशोऽथ स्वकन्यकाम् । ददौ पद्मावतीं नाम पुण्डरीकाय विष्णवे ॥२६।। पाश्रुत्वा रूपश्रिया दासीकृतानङ्गाङ्गनां च ताम् । प्रतिविष्णुबलि म हर्तुं तत्र समाययौ ॥२७।। बलिं भुजबलाध्मातमवज्ञातजगद्बलम् । आनन्द-पुण्डरीकावप्यभ्यषेणयतां ततः॥२८॥ शा:-लाङ्गलमुख्यानि तयोः शस्त्राणि नाकिभिः । अर्पयाञ्चक्रिरे शस्त्रागारायुक्तैरिव क्षणात् ।।२९।। बलेबलैर्बलीयोभिरभज्यत तयोर्बलम् । चक्रिरे सिंहनादांश्च स्वस्वामिजयशंसिनः ॥३०॥ आनन्दः पुण्डरीकश्च रथस्थौ रणकर्मणे। डुढौकाते प्रमुदितौ वीराणां हि रणो मुदे ॥३१।। पाञ्चजन्यं पुण्डरीकस्तारमापूरयत् ततः । यादश्चक्रमिवाऽम्भोधे रणान्नष्टं द्विषद्बलम् ॥३२॥ शार्ङ्ग चाऽऽस्फालयच्छाी शङ्खस्येवाऽनुवादकम् । हतशेषद्विषोऽनश्यंस्तन्निनादेन भूयसा॥३३।। उपतस्थे बलिर्योर्द्ध स्वयमुल्बणविक्रम: । निरन्तरैः शरैर्वर्षन् धारासारमिवाऽम्बुदैः ॥३४॥ चिच्छेद तदिषून् विष्णुर्विष्णो: सोऽपि तथाऽच्छिदत् । एवं भूय: शेरच्छेदक्रुद्धश्चक्रं बलिर्दधौ ।।३५।। अरे! न हि भवस्येष इति जल्पन् बलिर्बली। भ्रमयित्वाऽमुचच्चक्रं पुण्डरीकाय विष्णवे ॥३६।। चपेटालग्नतत्तुम्बप्रहारान् मूर्च्छित: क्षणम् । लब्धसञः क्षणाद्विष्णुस्तच्चक्रं स्वयमाददे॥३७|| अरे! न हि भवस्येष इति जल्पञ्जनार्दनः । भ्रमयित्वाऽमुचच्चक्रं चिच्छेद च बले: शिरः ॥३८|| पाततश्चाऽनन्दसहितो मथ्नन्नहितभूभुजः । विष्णुश्चकार दिग्यात्रामर्धचक्री बभूव च ॥३९॥ विष्णुरुत्पाटयामास मगधान्तरवस्थिताम् । महाशिलां कोटिशिलां तां तुलाकोटिलीलया ॥४०॥ पञ्चषष्टिसहस्राणि वर्षाणामायुरात्मनः । सोऽतिवाह्य ययौ षष्ठं नरकं स्वोग्रकर्मभिः ॥४१॥ पुण्डरीकस्य कौमारे सार्धं वर्षशतद्वयम् । तदेव मण्डलित्वेऽपि दिजये षष्टिवत्सरी ॥४२॥ रोज्ये संवत्सराणां च चतुःषष्टिसहस्यगात्। शतान्यपि च चत्वारि चत्वारिंशच्च वत्सरा: ।।४३।। पञ्चाशीतिवर्षसहस्रायरेकोऽनुज विना। आनन्दोऽथ निरानन्द: कथञ्चित कालमत्यगात ॥४४॥ सोऽथ स्वस्य भ्रातुरुच्चैर्वियोगात् वैराग्येणोपात्तदीक्ष: सुमित्रात्। आत्माराम: केवलज्ञानमाप्य प्राप स्थानं शाश्वतं शर्मधाम ॥४५॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि श्रीआनन्द-पुरुषपुण्डरीक बलिचरितकीर्तनो नाम तृतीय: सर्गः।। १.क्रमेण च प्रपेदाते यौवनं नेत्रपावनम् । खंता.ला. विना ।। २.एकोनत्रिंश०ला.; 'डिन्'(सि.७/१।१४७)इति सूत्रेण सिद्धोऽयं प्रयोगः ।। ३. दासीकृतानङ्गस्य कामस्य अङ्गना रतिर्यया ताम् ॥४. भुजबलोद्धतम् ॥ ५. तिरस्कृतं जगतो बलं येन तम् ।। ६. युद्धाय अभ्यगमताम् ।। ७. शस्त्रशालाधिकारिभिः ।। ८. बलवद्भिः सैन्यैः ।। ९. युद्धम् ।। १०. जलचरसमूहः ।। ११. प्रबलपराक्रमः ॥१२. स्वशराणां छेदेन क्रुद्धः ।।१३. अरेरेन भवस्येष खंता. हे. मु. विना॥ १४. बलवान् ।।१५. पुण्डरीकः ।। १६. पुण्डरीकः ।।१७. नुपूरलीलया ।। १८. कौमारे वर्षाणि २५०मितानि॥१९. मण्डलिकत्वे वर्षाणि २५०मितानि ।। २०. दिग्विजये वर्षाणि ६०मितानि ।। २१. राज्ये वर्षाणि ६४४४०मितानि ।। २२. आयुर्वर्षाणि ८५०००मितानि ।। २३. पुण्डरीकम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001457
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 5 6 7
Original Sutra AuthorHemchandracharya
AuthorRamnikvijay Gani
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2001
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy