________________
द्वितीयः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । 'श्रावकलक्षे षोडशसहस्रोने उभे पुनः । तिम्रो लक्षा: 'श्राविकाणां द्वासप्ततिसहस्यपि ॥३८१॥
आ केवलात्रिवर्षोनाब्दसहस्रकविंशतिम् । वसुन्धरां विहरत: परिवारोऽभवत् प्रभोः ॥३८२।। निर्वाणकालं ज्ञात्वा च स्वामी सम्मेतमभ्यगात् । समं मुनिसहस्रेणाऽनशनं प्रत्यपादि च॥३८३।। मासान्ते च मार्गशुद्धदशम्यां पौष्णगे विधौ। समं तैर्मुनिभिः स्वामी जगाम पदमव्ययम् ।।३८४॥ कौमार-राज्य-चक्रित्व-व्रतेषु समभागकम् । आयुश्चतुरशीत्यब्दसहस्राण्यभवत् प्रभोः ॥३८५।। वर्षकोटिसहस्रोने पल्यतुर्यांशके गते । श्रीकुन्थुमोक्षान् मोक्षोऽभूच्छीमतोऽरजिनेशितुः ॥३८६।।
तत्राऽरनाथस्य मुनीश्वरैस्तैः शिवं सहोपयुष एत्य भक्त्या। शरीरसंस्कारपुरस्सरं ते निर्वाणकल्याणमकार्षुरिन्द्राः ॥३८७।।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये षष्ठे पर्वणि श्रीअरनाथचरित
कीर्तनो नाम द्वितीय: सर्ग:॥
१. श्रावकाणां सङ्ख्या १लक्ष८४सहस्रमिता ।। २. श्राविकाणां सङ्ख्या ३लक्ष७२सहस्रमिता ।। ३. रेवतीं गते ।। ४. कौमारे २१सहस्रमितानि वर्षाणि, राज्ये २१सहस्रमितानि वर्षाणि, चक्रित्वे २१सहस्रमितानि वर्षाणि, व्रते २१सहस्रमितानि वर्षाणि ॥ ५. आयुर्वर्षाणि ८४सहस्रमितानि ।। ६. पल्योपमचतुर्भागे वर्षकोट्यूनिते गते । हे.॥७. पल्योपमस्य चतुर्थांशे गते सति ॥ ८. प्राप्तस्य ॥९. श्रीअरनाथवर्णनो मु.प्रभृतिषु ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org