________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(षष्ठं पर्व ततो विद्याधरश्चाऽऽगानामतो रतिवल्लभः । तं ददर्श च निन्येऽथ वैताढ्याद्रौ स्ववेश्मनि ॥३४८॥ अब्धेरुद्वृत्तमात्रोऽपि गुटिकां श्यामिकाकरीम् । अपकृष्याऽभवद् गौरस्ताम्रलिप्त्यामिव स्थितः ॥३४९।। स्वं च सिंहलवास्तव्यं बुद्धदासं च नामत: । पृष्टः शशंस स रतिवल्लभस्याऽतिवल्लभः ॥३५०॥ पुत्री रत्नप्रभाख्यां स तेनोक्त: परिणीतवान् । रमयंश्च सुखं तस्थौ विलासोपवनादिषु ॥३५१।। तया सह क्रीडितुं च सोऽन्यदाऽत्र समाययौ । मुक्त्वेह तामाचमनव्याजाच्चाऽगमदन्यतः ।।३५२।। यास्याम्यहमपीदानीमित्युक्त्वा स समुत्थितः । ऊचे च रत्नप्रभया बुद्धदास: क्व सोऽधुना ? ॥३५३।। आख्यास्याम्यपरं प्रातरित्युत्थाय जगाम सः । ताश्चैकपतिसंवादात् तिम्रोऽप्युच्चैरुदश्वसन् ।।३५४।। स एष तव जामाता वामनः श्रेष्ठिसागर! । रमणस्तिसणां तासां क्रीडया विरहं ददौ ॥३५५|| वामनोऽपि जगादैवं वन्दित्वा गणभृद्वरम् । युष्मज्ज्ञानदृशा दृष्टमेवमेतद्धि नाऽन्यथा ॥३५६॥ पूर्णद्वितीयपौरुष्यां कुम्भो गणधराग्रणी: । व्यसृजद्देशनां तेषां तावत्कालैव देशना ॥३५७।। नत्वा गणधरं कुम्भं वामनेन सहैव स: । श्रेष्ठी सागरदत्तोऽगान् मुदितस्तं प्रतिश्रयम् ॥३५८॥ पतास्तं वामनमायान्तं तिम्रोऽपि प्रेक्ष्य तत्क्षणम् । उपाजग्मुः प्रियोदन्ताहरः कस्य न वल्लभ: ? ॥३५९।। ऊचे सागरदत्तोऽपि पतिर्वस्तिसृणामसौ। ताभिश्च कथमित्युक्तस्तदाख्यदखिलं च सः॥३६०॥ तिम्रोऽपि विस्मयं प्रापुर्गणिन्या सममेव ताः । प्रविश्याऽन्तर्वामनोऽपि वामनत्वं मुमोच तत् ॥३६१।। यादृशोऽनङ्गसुन्दर्या दृष्टस्तादृगभूत् पुरः । पुन: श्यामत्वमुत्सृज्य गौरत्वं प्रत्यपद्यत ॥३६२।। सर्वाभिः प्रेत्यभिज्ञात: सोत्कण्ठाभिः समादृतः । गणिन्याऽभिदधे चैवं किमेतद्भवता कृतम् ? ॥३६३।। सोऽप्यभ्यधाद् भगवति! क्रीडया निरगां गृहात् । क्रीडयोपेक्षितस्तासामिहाऽपि विरहो मया ॥३६४॥ सुव्रतागणिनी चैवमवोचत् तात्त्विकं वचः । दूरे देशान्तरेऽरण्ये पर्वते वारिधावपि॥३६५।। अन्यत्र वा दुःखपदे यान्ति यत्राऽपि धर्मिणः । तत्राऽपि सौख्यमतुलं लभन्ते निजवेश्मवत् ॥३६६॥[युग्मम् ।। भोगा: सत्पात्रदानानुभावादित्यार्हतं वचः । कस्मै दत्तमनेनेति पृच्छामोऽरजिनेश्वरम् ॥३६७॥ गणिनी सागरदत्तो वीरभद्रः प्रियान्वित: । अरस्वामिनमभ्येयुः प्रणेमुश्च यथाविधि ॥३६८॥ कर्म भोगफलं वीरभद्रः किं प्राग्भवे व्यधात् ? । इति सुव्रतया पृष्टो जगाद परमेश्वरः ॥३६९॥ पाइतो भवे तृतीये मे प्राग्विदेहेषु पुष्कलम् । राज्यं त्यक्त्वा व्रतभृत: पृथ्व्यां विहरत: सत: ।।३७०।। चतुर्मासोपवासान्ते पुरे रत्नपुराभिधे। श्रेष्ठिसूर्जिनदासाख्यो भक्त्या भिक्षां ददावसौ ॥३७१॥[युग्मम्]। तेन पुण्येन देवोऽभूदु ब्रह्मलोके ततश्च्युतः । जम्बूद्वीपस्यैरवते काम्पील्येऽभून महेभ्यतुक् ॥३७२॥ तत्राऽपि परमर्द्धिः सन् श्रावकत्वं प्रपाल्य च। मृत्वाऽच्युतेऽभवद्देवस्ततश्च्युत्वा त्वभूदसौ ॥३७३।। पुण्यानुबन्धिना तेन पुण्येनेह भवेऽप्ययम् । भुङ्क्ते भोगान् यत्र तत्र पुण्यं ह्यनुचरं नृणाम् ।।३७४॥ भगवानेवमाख्याय प्रतिबोध्य बहून् जनान् । जगन्मोहमपहरन् विहरन्नन्यतो ययौ ॥३७५।। भुक्त्वा भोगांश्चिरं वीरभद्रः प्रव्रज्य च क्रमात् । दृढपुण्यरथारूढो देवलोकं जगाम सः ॥३७६।। पासहस्राण्यथ पञ्चाशच्छ्रमणानां महात्मनाम् । तीव्रव्रतानां साध्वीनां पुन: षष्टिसहस्यपि ॥३७७।। चतुर्दशपूर्वभृतां दशाग्राणि शतानि षट् । अवधिज्ञानभाजां तु द्वे सहस्रे सषट्शते ॥३७८।। सार्धे सहस्रे द्वे एकपञ्चाशच्च मनोविदाम् । द्वे सहस्रे साष्टशते केवलज्ञानधारिणाम् ॥३७९॥ जातवैक्रियलब्धीनां त्रिसप्ततिशती पनः । सञ्जातवादलब्धीनां सहसं षट शतानि च ॥३८०॥ १. प्रियस्य उदन्तं-वृत्तान्तं आहरति-आनयति ॥ २. अवलक्षितः, स एवाऽयमिति ज्ञातः ।। ३. व्रतं बिभर्ति, तस्य ॥४. महेभ्यभुक् मु.; महेभ्यस्य पुत्रः॥५. श्रमणानां सङ्ख्या ५०सहस्रमिता ।। ६. साध्वीनां सङ्ख्या ६०सहस्रमिता ।। ७. चतुर्दशपूर्विणां सङ्ख्या ६१०मिता ॥ ८. अवधिज्ञानिनां सङ्ख्या २६०० मिता ॥ ९. मन:पर्ययज्ञानिनां सङ्ख्या २५५१मिता ॥ १०. केवलज्ञानिनां सङ्ख्या २८००मिता ।। ११. वैक्रियलब्धीनां सङ्ख्या ७३००मिता ॥ १२. वादलब्धीनां सङ्ख्या १६००मिता।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org