________________
द्वितीयः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । रूपवत्यो युवतयस्तिस्रः सन्ति महात्मिका: । तस्यास्त्रीणीव रत्नानि 'धात्रीपावित्र्यकारणम् ॥३१५॥ युग्मम्] संतीमतल्लिकास्ताश्च सती: पथि कुलोचिते। न हि कश्चिदलम्भूष्णुरपि भाषयितुं पुमान् ॥३१६॥ स मायावामनोऽथोचे भाषयिष्याम्यहं क्रमात् । मम पश्यत सामर्थ्य कर्मण्यत्राऽपि दुष्करे ॥३१७।। प्रधानै राजपुरुषैर्वृतः कतिपयैरपि । पौरैरन्वीयमानोऽगात् स गणिन्या: प्रतिश्रयम् ॥३१८॥ स्थित्वा प्रतिश्रयद्वारे सोऽशात् सहचरानिति । प्रष्टव्यं तत्र युष्माभिः कथां कथय कामपि ॥३१९।। स विविक्तपरीवार: प्राविशत् तं प्रतिश्रयम् । ववन्दे सुव्रतामन्या वतिनीश्चाऽमलव्रताः ॥३२०॥ निर्गत्योपाविशद् द्वारमण्डपे कूटवामनः । तिम्रोऽप्येयुः सवतिन्यस्तास्तद्दर्शनकौतुकात् ॥३२१॥ अथोचे वामनो यावद् राज्ञोऽनवसरः किल । स्थास्यामस्तावदत्रैव विनोदाक्षिप्तचेतसः ॥३२२॥ स्माऽऽह राजपुमान् काञ्चित् कथां शंस सकौतुकाम् । किं कथां वृत्तकमथ वच्मीत्यूचे च वामनः ॥३२३॥ कथा-वृत्तकभेदं तु पृष्टः प्रोवाच वामनः । वृत्तकं स्यादनुभूतं प्राक्पुंसां चरितं कथा॥३२४॥
वृत्तकं कथ्यतां तीत्युक्ते वामनकोऽवदत् । अस्तीह भरते नाम्ना ताम्रलिप्ती महापुरी ॥३२५।। तस्यामृषभदत्तोऽस्ति श्रेष्ठी श्रेष्ठतरो गुणैः । वाणिज्यया सोऽन्यदाऽगात् पद्मिनीखण्डपत्तनम् ॥३२६॥ तत्र सागरदत्तस्य कन्यका प्रियदर्शनाम् । दृष्ट्वोदवाहयत् स्वेन वीरभद्रेण सूनुना ॥३२७॥ सार्धं तया वीरभद्रोऽन्वभवैषयिकं सखम। निशीथेऽलीकसुप्तां तामदस्थापयदन्यदा॥३२८॥ मा कदर्थय मां जातशिरोऽतिमिति साऽवदत। किंदोषेणेति तेनोक्ते त्वद्दोषेणेति साऽवदत् ॥३२९॥ स्वं दोषं तेन सा पृष्टा जगाद प्रियदर्शना। किमीशेऽपि समये विदग्धोक्तिस्तव प्रिय! ? ॥३३०॥ भूयो नैव करिष्यामीत्युक्त्वा सोऽरमयच्च ताम् । सद्भावसुप्तां मुक्त्वाऽथ विदेशं तत्पतिर्ययौ ॥३३१।। आख्यायैवं वामनस्तु मम राजकुलेऽधुना । सेवाक्षणोऽतियातीति समुत्तस्थौ ससंभ्रमः ॥३३२।। प्रियदर्शनयोत्तिष्ठन् स भूयोऽभाषि सादरम् । क्व गतो वीरभद्रोऽस्ति ? ब्रूहि वेत्स्येव वामन! ॥३३३।। व्याहरद् वामनोऽप्येवं नाऽहं परमहेलया। सहाऽऽलपामि स्वकुलकलङ्कचकित: सदा ॥३३४।। साऽप्युवाच कुलाहँ हि तव शीलं किमुच्यते ? । दाक्षिण्याच्छंसतस्तद्धि कुलीनस्याऽऽदिमो गुणः ॥३३५।। तर्हि श्व: शंसिताऽस्मीति गदित्वा वामनो ययौ। स्वैराख्याते तदुदन्ते नरेन्द्रोऽपि विसिष्मिये ॥३३६॥ पाद्वितीयेऽह्नि तथैवाऽगात् स गणिन्या: प्रतिश्रयम् । अत्यादृतानां तासां च भूयोऽप्याख्यत् कथामिति ॥३३७॥ पुर्या निर्याय भूत्वा च कृष्णो गुटिकयाऽथ सः । पर्यटन विविधान् देशान् सिंहलद्वीपमासदत् ॥३३८।। तत्र रत्नपुरे श्रेष्ठिशङ्खहट्टे निषेदिवान् । श्रेष्ठिना ज्ञातवृत्तान्तो निन्ये च निजवेश्मनि ॥३३९।। पुत्रत्वेन प्रत्यपादि श्रेष्ठिश्रेष्ठेन तेन सः । सुखं चाऽस्थात् पुरे तत्र कलाभिः कृतविस्मयः॥३४०॥ समं विनयवत्या च श्रेष्ठिपुत्र्या जगाम स: । स्त्रीवेषोऽनङ्गसुन्दर्या राजपुत्र्या निकेतने ॥३४१।। कलाभिर्हतचित्तां तां ज्ञापितात्मा क्रमेण स: । पितृदत्तामुपायंस्त चिरं भोगानभुङ्क्त च ॥३४२।। तां गृहीत्वा गच्छतश्च ताम्रलिप्ती पुरीं प्रति । भग्नं प्रवहणं तस्य दैवौदाशेव वारिधौ ॥३४३॥ सम्प्रत्यहं व्रजिष्यामि राजसेवाक्षणो ह्ययम् । सेवकानां विना सेवां भज्यते खलु जीविका ।।३४४।। ततश्चाऽनङ्गसुन्दर्या सोपरोधमभाणि स: । भद्र! क्व वीरभद्रोऽस्ति सोऽधुनाऽऽख्याहि सर्वथा ॥३४५।। आख्याताऽस्मि श्व इत्युक्त्वा राजवेश्म जगाम स: । राज्ञे तमपि वृत्तान्तं शशंसू राजपूरुषाः ॥३४६।। बातृतीयेऽप्यह्नि तत्रैत्य शशंसेति स वामनः । वीरभद्रस्तत्र दैवादेकं फलकमासदत् ॥३४७॥ १. धात्री-पृथ्वी ॥२. पतिव्रतासु श्रेष्ठाः॥ ३. वर्तमानाः॥ ४. उपादिशत् ॥५. अल्पपरिवारः।। ६. ससाध्वीकास्तास्त० हे. ॥ ७. यावद्राज्ञो नावसरं मु., यावद्राज्ञोऽनवसरं पाता.ला.हे.प्रभृतिषु ।। ८. कस्य दोष: किंदोषस्तेन ॥९. परस्त्रिया; परमहिलया मु.॥१०. कथयतः॥११. आप्तपुरुषैः ॥१२. दैवादत्रैव पा. छा., दैवात्तत्रैव मु.प्रभृतिषु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org