________________
८४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(षष्ठं पर्व अब्धेरुत्तीर्णमात्रोऽपि गुटिकां श्यामकारिणीम् । सोऽपनीयाऽऽददे वर्णं सहजं गौरलक्षणम् ॥२८२॥ वज्रवेगवतीकुक्षिभवां दुहितरं निजाम् । रत्नप्रभाख्यां तेनोदवायद रतिवल्लभः ॥२८३।। बुद्धदास इति नामाऽऽत्मीयं तत्र शशंस सः । समं च रत्नप्रभयाऽन्वभूद्वैषयिकं सुखम् ।।२८४॥ सम्भूय गच्छतो विद्याधरान सोऽन्येधुरैक्षत । क्वैते वेगेन गच्छन्तीत्यपृच्छच्च निजां प्रियाम् ॥२८५।। आख्यद् रत्नप्रभाऽप्येवमत्राऽद्रौ शाश्वतार्हताम् । यात्रां का प्रयान्त्येते वेगाद्विद्याधरा: प्रिय! ।।२८६।। एवमाकर्ण्य स श्राद्धो बुद्धदासाभिध: सुधी: । वैताढ्यशैलशिखरमारुरोह तया सह ॥२८७।। ववन्दे तत्र चैत्यानि स भक्त्या शाश्वतार्हताम् । देवाग्रे गीत-नृत्तादि चक्रे रत्नप्रभाऽपि च ॥२८८।। सोऽथाऽब्रवीदपूर्वोऽयं देवो मम यत: प्रिये! । सिंहलद्वीपवास्यस्मि बुद्धोऽस्मत्कुलदेवता ।।२८९।। साऽप्यूचे नाथ! तेनैव हेतुना निगदस्यदः । अपूर्वो मम देवोऽयं देवदेवो ह्ययं प्रभुः ।।२९०।। सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः ॥२९१॥ देवा न बुद्ध-ब्रह्माद्याः संसारावर्तपातिनः । स्वस्य मोहादिपिशुनमक्षसूत्रादि बिभ्रतः ॥२९२।। ततो विचित्रक्रीडाभि: क्रीडतोरन्वहं तयोः। कियानपि ययौ काल: रतिसागरमग्नयोः ॥२९३॥ पासोऽन्यदोचे निशाशेषे प्रिये! रत्नप्रभेऽचिरात् । दक्षिणे भरतार्धेऽद्य गच्छामः क्रीडितुं सुखम् ।।२९४॥
आमेत्युक्तवती सा च स च द्वावपि विद्यया । जग्मतुः पद्मिनीखण्डे सुव्रताया: प्रतिश्रयम् ।।२९५॥ स्थित्वा प्रतिश्रयद्वारे वीरभद्रो जगाद ताम् । आचम्य यावदायामि तिष्ठेस्तावदिहैव हि ॥२९६।। इत्युक्त्वाऽल्पां भुवं गत्वा तद्रक्षणकृते पुनः । तस्थौ निलीय तत्रैव राजकीय इव स्पशः ॥२९७।। साऽप्येकिका क्षणादूर्ध्वं चक्रवाकीव निष्प्रिया। तारं रोदितुमारेभे स्त्रीस्वभावोऽयमीदृशः ॥२९८।। श्रुत्वा च करुणं शब्दं गणिनी करुणासरित् । स्वयमुद्घाटयामास.कपाटौ तां ददर्श च ॥२९९।। इत्यभ्यधाच्च गणिनी वत्से! का त्वं ? कुतोऽभ्यगा: ? । कथमेकाकिनी चाऽसि ? कुतो हेतोश्च रोदिषि ? ॥३००॥ नत्वा सोवाच वैताढ्यात् पत्या सममिहाऽऽगमम्। आचान्त्यै सो गतोऽद्याऽपि चिरयत्येव मे पतिः॥३०१।। मुहूर्तमपि स स्थातुं सहते मां विना न हि । आशङ्के कारणं तेन सुमहन् मातरीतुरा ॥३०२॥ मन्मानसमवेतप्तेनकुलस्थितवत् तत: । अस्मि धारयितुं प्राणानपि सम्प्रत्यलं न हि ॥३०॥ सानुकम्पं सुव्रतोचे मा स्म भैषी: पतिव्रते! । स्वस्था प्रतिश्रये तिष्ठ यावदायाति ते पतिः ॥३०४॥ गणिन्या बोधिता सैवं प्रविवेश प्रतिश्रयम् । जायां स्थाने गतां दृष्ट्वा वीरभद्रोऽप्यपासरत् ॥३०५॥ स्वेच्छावामनरूप: स क्रीडया पर्यटन् पुरे । मनो जहार पौराणां विचित्रा दर्शयन् कलाः ॥३०६।। बसोऽथ राजानमीशानचन्द्रमप्यत्यरञ्जयत् । एकाऽपि हि हरेच्चित्तं किं पुन: सकला: कला: ? ||३०७।। साऽपि चाऽनङ्गसन्दर्या प्रियदर्शनयाऽपि च । रत्नप्रभैवं जगदे कीदृशः कश्च ते पति: ? ||३०८।। साऽऽख्यत् सिंहलवास्तव्यो गौरोऽखिलकलानिधिः । बुद्धदासाभिधानश्च भर्ता रूपस्मरो मम ॥३०९।। प्रियदर्शनयाऽथोचे संवदत्येव मे पतिः। न तु सिंहलवासित्वं बुद्धदासाभिधा न च ॥३१०॥ ऊचे चाऽनङ्गसुन्दर्या वर्ण: सिंहलवासिता। बुद्धदासाभिधा चेति विसंर्वदति मत्पतेः ॥३११॥ भगिन्य इव तिम्रोऽपि तप:स्वाध्यायतत्पराः । पुंवार्तामप्यकुर्वन्त्य: सन्ति तास्तत्प्रतिश्रये ॥३१२॥ तिम्रोऽपि प्रेयसीस्तत्र स मायावामनोऽन्वहम् । निरीक्षते मोदते च तासां शीलेन हॉरिणा ॥३१३॥ नाअन्यदेशानचन्द्रस्य राज्ञः पर्षद्यभूत् कथा । पुरे यदस्मिन्नार्याया: सुव्रताया: प्रतिश्रये ॥३१४॥ १. बुद्धिदास इति हे. ला. ।। २. तत्राऽऽशशंस मु.॥ ३. चैत्यान्त: मु. पा. खंता. विना ।। ४. शाश्वतार्हत: मु. खंता. विना ।। ५. मोहादिसूचकम् ।। ६. जलपानं कृत्वा प्रक्षाल्य वा॥७. गूढचरः।। ८. एकैव एकिका ॥९. क्षणानन्तरम् ।। १०. आचमनाय॥११. विलम्ब करोति ।।१२. चिन्तिता ॥१३. अवतप्ते अत्युष्णे भाजने नकुलस्य स्थितं-स्थिति: इव ।।१४. साऽऽख्यात् खंता. ।। १५. रूपेण कामदेवः॥१६. एतावद्भिन्नत्वमन्यत् सर्वं कलादिकं समानमित्यर्थः ।। १७. मायया वामनरूपधर: इत्यर्थः ।। १८. मनोहारिणा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org