________________
२४० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीयं पर्व पाटितं व्रणपट्टाय, देवदूष्यमिवांऽशुकम् । उत्कीलितं देवकुलं, कीलिकार्थमिवोच्चकैः ॥ २६१ ॥ शुद्धस्फटिकसङ्काशः, परमार्थार्जनोचितः । अहो ! त्वयाऽपविद्यायै, कियदात्मा कदर्थितः ॥ २६२ ॥
॥ चतुर्भिः कलापकम् ॥ तवाऽपविद्यामीक्षामवलोकयतामपि । धीभ्रंशो जायते प्राप्तसन्निपातरुजामिव ॥ २६३ ॥ 5 याचकोऽसि गृहाणार्थमेवमेव यथेप्सितम् । आशाभङ्गो न कस्यापि, क्रियते मत्कुले यतः॥ २६४ ॥
___ एवं स राज्ञाभिहितः, परुपं पुरुषस्ततः । सदा पुरुषमानीति, गूढरोषमभाषत ॥ २६५ ॥ अन्धोऽसि बधिरो वाऽसि, पङ्गुरस्म्यस्मि वा कुणिः । क्लीबो वालि दयापात्रमपरः कश्चिदसि वा ॥२६६॥ अदर्शयित्वा स्वगुणमकृत्वा च चमत्कृतिम् । त्यागं ते त्यागकल्पद्रोरपि गृह्णाम्यहं कथम् ? ॥ २६७ ॥
खस्त्यस्तु तुभ्यं तुभ्यं च, नमस्कारो ममैषकः । अयमन्यत्र यास्यामीत्यभिधाय स उत्थितः ॥ २६८ ॥ 10 भूभुजा स्वस्य कार्पण्यदोषारोपणभीरुणा । पुरुषैर्यमाणोऽपि, निर्ययौ पुरुषोऽथ सः॥ २६९ ॥
खामिनाथ दीयमानमसौ नाऽऽदत्त कोपतः। दातैवाऽसीति राज्ञो हीरपजहे स्वपूरुषः॥ २७०॥
विप्रवेषमुपादाय, स एव पुरुषोऽन्यदा। उपायनकरस्तस्थौ, द्वारि तस्यैव भूपतेः ॥ २७१ ॥ तथैव राज्ञे विज्ञप्तः, स द्वाःस्थेन तथास्थितः । धर्मोऽसौ प्रतिहाराणां, द्वारागतनिवेदनम् ॥ २७२ ॥
आदेशाद् भूपतेस्तस्य, सभायां तत्र वेत्रभृत् । आयुक्तपुरुषैराशु, तं पुमांसमवीविशत् ॥ २७३ ॥ 15 स स्थित्वा भूपतेरग्रे, समुन्नमितँपाणिकः । आर्यवेदोदितान् मत्रानपठत् सपदक्रमम् ॥ २७४ ॥
मत्रपाठावसाने च, वेत्रिसन्दर्शितासने । निषसाद प्रसादादृशा राज्ञा निरीक्षितः ॥ २७५ ॥ कस्त्वं ? किमागतोऽसीति, पृष्टश्च पृथिवीभुजा । कृताञ्जलिरुवाचैवमग्रणीः सोऽग्रेजन्मनाम् ॥ २७६ ॥ ज्ञानानामिव मूर्तानां, सद्गुरूणामुपासनात् । अवाप्तसम्यगाम्नायो, राजन् ! नैमित्तिकोऽस्म्यहम् ॥२७७॥
अष्टाधिकरणीग्रन्थान् , फलग्रन्थानथाखिलान् । जातकं गणितग्रन्थान् , जानामि निजनामवत् ॥ २७८ ॥ 20 सन्तं भतं भविष्यन्तमर्थ सर्व नरेश्वर! । तपःसिद्धो मुनिरिवाऽव्याहतं कथयाम्यहम् ॥ २७९॥
अन्वयुङ्क ततो राजा, यदस्मिन् समये द्विज!। यद् भावि तत कथय भो,ज्ञानस्य प्रत्ययः फलम्॥२८॥ द्विजोऽपि कथयामास, वासरे सप्तमेऽर्णवः । जगदेकार्णवीकृत्य, प्रलयं प्रापयिष्यति ॥ २८१ ॥ तद्वाचा विस्मय-क्षोभौ, बिभ्राणो युगपन्नृपः । नैमित्तिकानामन्येषामीक्षाञ्चके मुखान्यथ ॥ २८२ ॥ राज्ञा भ्रूसंज्ञया पृष्टा, रुष्टा दुर्घटया तया । द्विजवाचा सोपहासमूचुनैमित्तिकास्तु ते ॥ २८३ ॥ असावभिनवः कोऽपि, जज्ञेज्योतिषिको यदि।ज्योति शास्त्राण्यपि स्वामिन् !, जज्ञिरे नूतनानि किम्? ॥२८४ एष येषां प्रमाणेन, विश्वमेकार्णवं जगत् । करिष्यत्यर्णव इति, ब्रूते श्रवणदुःश्रवम् ॥ २८५ ॥ बभूवुर्ग्रह-नक्षत्र-तारा अपि हि किं नवाः । येषां वक्रातिचारादिप्रमाणादेष वक्त्यदः ॥ २८६ ॥ सर्वज्ञशिष्यगणभृद्रथितद्वादशाङ्गतः । ज्योति शास्त्राणि यानीह, नैवं तदनुमानतः ॥ २८७ ॥ अमी तच्छास्त्रसंवादभाजो येऽर्कादयो ग्रहाः । तेषामप्यनुमानेन, मन्महे नेदृशं वयम् ॥ २८८ ॥ जम्बूद्वीपपरिक्षेपी, यथाऽयं लवणार्णवः । सोऽपि त्वमिव मर्यादां, जातुचिन्न हि लवते ॥ २८९॥ आकाशाद् भूमिमध्याद् वा, कश्चिदुत्पद्य नूतनः । करिष्यत्यर्णवो विश्वमिदमेकार्णवं यदि ॥ २९ ॥ अयं साहसिकः किं वा, पिशाचाधिष्ठितोऽथवा ? । मत्तो वा यदि वोन्मत्तो, वातूलो वा निसर्गतः ॥२९१॥ अकालं चाऽऽगमेऽधीती, किमपसारवानथ ? । यदीदृशमसम्बद्धमभिधत्ते निरर्गलः ॥२९२ ॥ युग्मम् ॥
स्थिरः मुमेरुवत् स्वामी, भूवत् सर्वसहश्च यत् । दुष्टैः प्रकटमीदृक्षं, स्वच्छन्दैस्तदुदीर्यते ॥ २९३ ॥ 35 सामान्यस्याऽपि पुरतो, नेदृशं वक्तुमीश्यते । कोप-प्रसादशक्तस्य, किं पुनः स्वामिनः पुरः? ॥ २९४ ॥
पापविद्याकृते । २ हस्तरहितः । ३ दानम् । ४ अर्ध्वबाहुः । ५ प्राह्मणानाम् । ६ अस्खलितम् । • कुशलः ।
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org