________________
षष्ठः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
२३९ नृपादेशादनुज्ञातो, वेत्रिणा स तदा पुमान् । बुधोऽर्कमण्डलमिव, नृपास्थानीमथाविशत् ॥ २२८ ॥ रिक्तहस्तो न कुर्वीत, स्वामिदर्शनमित्यसौ । भूभुजे सुमनोदाम, मालाकार इवाऽऽर्पयत् ॥ २२९ ॥ वेत्रिणा दर्शिते स्थाने, ततोऽसौ रचिताञ्जलिः । निषसादाऽऽसनायुक्तैर्दत्ते तदुचितासने ॥ २३० ॥ किञ्चिदुन्नमितैकभ्रूः, स्मितस्तबकिताधरः । सप्रसादमभाषिष्ट,तमेवं पृथिवीपतिः॥ २३१॥
विप्र-क्षत्रिय-विट्-शूद्रवर्णेभ्यः कतमोऽसि भोः! १ । अम्बष्ठ-मागधादिभ्यो, मिश्रेभ्यो वाऽसि कश्चन ?२३२ 5 तत्र किं श्रोत्रियोऽसि त्वमसि पौराणिकोऽथवा? । मार्तो वा ? मौहों वाऽसि ?, त्रिविद्याविदुरोऽसि वा ॥ चापाचार्योऽसि यदि वा ?,चर्मा-ऽसिचतुरोऽसि वा । किंवा प्रासे कृताभ्यासः?,शल्ये वा प्राप्तकौशलः १२३४ यद्वा गदायुधज्ञोऽसि ?, यदि वा दण्डपण्डितः? । प्रकृष्टशक्तिः शक्तौ वा?, मुसले कुशलोऽसि वा ? ॥२३५॥ निरर्गलो लाङ्गले वा?, चक्रे वा प्राप्तविक्रमः ? । कृपाण्यां निपुणो वाऽसि ?, वाहुयुद्धेऽथ वा पटुः? ॥२३६॥ यद्वाऽश्वहृदयज्ञोऽसि ?, गजशिक्षाक्षमोऽसि वा । किं व्यूहरचनाचार्यः?, किं वाऽसि व्यूहभेदकः? ॥२३७।। 10 किं वा स्थादिकर्ताऽसि ?, स्थादिप्राजकोऽसि वा ?। रजत-स्वर्ण-शुल्वादिधातूनां घटकोऽसि वा ?॥२३८॥ चैत्य-प्रासाद-हादिनिर्माणनिपुणोऽसि वा? । विचित्रयन्त्र-दुर्गादिरचनाचतुरोऽसि वा ? ॥ २३९ ॥ सांयात्रिककुमारः किं १, सार्थवाहसुतोऽथवा ? । किं वा सौवर्णिकोऽसि त्वमसि वैकटिकोऽथवा ? ॥२४०॥ किंवा वीणाप्रवीणोऽसि ?, किं वेणुनिपुणोऽसि वा ? । पटुः पटहवाद्ये वा?, मर्दले वाऽसि दुर्मदः॥२४१॥ यता वाग्गेयकारोऽसि ?.किंशिक्षागायनोऽसि वारङ्गाचार्योऽथवाऽसि त्वं १.किं नाटकनटोऽसि वा १॥15 अथ वैतालिकोऽसि त्वं ?, ननाचार्योऽथवाऽसि किम् । संशप्तकोऽसि यदि वा ?, चारणो यदि वाऽप्यसि ॥ लिपिज्ञलेखको वा किमसि ? चित्रकरोऽथवा । अथ पुस्तकरो वा त्वमन्यो वा कोऽपि शिल्प्यसि ॥२४४॥ नदी-नद-नदीनाथतरणे वा कृतश्रमः । मायेन्द्रजाल-कुहकप्रयोगचतुरोऽसि वा ? ॥ २४५ ॥
एवं वसुमतीनाथेनाऽनुयुक्तः स सादरम् । भूयोऽपि हि नमस्कृत्य, सप्रश्रयमदोऽवदत् ॥ २४६ ॥ पाथसामिव पाथोधिरादित्यस्तेजसामिव । सर्वेषां पात्रभूतानां, त्वमाधारो धराधव ! ॥ २४७॥ 20 वेदादिशास्त्रविज्ञेषु, सहाधीतीव तादृशः । धनुर्वेदादिविद्वत्सु, तदाचार्य इवाधिकः ॥ २४८ ॥ प्रत्यक्षो विश्वकर्मेव, विश्वसिन् शिल्पकर्मणि । सरस्वतीव पुंरूपा, गीतादिककलासु च ॥ २४९ ॥ रत्नादिव्यवहारेषु, पितेव व्यवहारिणाम् । बन्धादीनामुपाध्याय, इव वाग्मितयाऽसि च ॥ २५० ॥ नद्यादिवारितरणं, कलालेशः कियान् मम? । इन्द्रजालप्रयोगार्थ, किन्त्वमि त्वामुपागतः ॥ २५१॥ अहं हि सद्य उद्यानवीथिकां दर्शयामि ते । मध्वादीनां परावर्तमृतूनां कर्तुमीश्वरः ॥ २५२ ॥ 25 गन्धर्ववर्गसङ्गीतं, व्योमन्याविष्करोमि च । क्षणाददृश्यो दृश्यो वा, निमेषान्तर्भवाम्यहम् ॥ २५३ ॥ भक्षयाम्यहमङ्गारान् , खादिरानपि सक्तुवत् । चर्वयामि मुकवत् , तप्तायस्तोमरानपि ॥ २५४ ॥ अम्भश्चर-स्थलचर-खचराणां परेच्छया । भवामि रूपान्तरभृदेकधाज्नेकधाऽप्यहम् ॥ २५५ ॥ पदार्थमिष्टमाकृष्य, दूरादप्यानयामि च । सद्यो वर्णान्तराधानं, पदार्थानां करोमि च ॥ २५६ ॥ आश्चर्यभूतान्यन्यानि, सद्यो दर्शयितुं क्षमः । कलाभ्यासप्रयास मे, तद् दृष्ट्वा सफलीकुरु ॥ २५७॥ 30
एवमुच्चैः प्रतिज्ञाय, गर्जित्वेव बलाहकम् । तस्थिवांसं पुमांसं तं, व्याजहारेति भूपतिः॥ २५८ ॥ आखोराकर्षणकृते, मूलात् खात इवाञ्चलः । मत्स्यादिग्रहणायेव, शोषितं विपुलं सरः ॥ २५९ ॥ सहकारोद्यानमिव, च्छिन्नमिन्धनहेतवे । चन्द्रकान्तोपल इव, निर्दग्धश्चूर्णमुष्टये ॥ २६० ॥
१ शून्यहस्तः। २ आसनाधिकारिभिः । * विद्यविदु ढं०॥ ३ ऋग्-यजुः-सामवेदेषु निपुणः। ४ फलका-ऽसिविद्याप्रवीणः । ५ कुन्तविद्यायाम् । ६ सारथिः। ७ ताम्रम् । ८ पोतवणिक्पुत्रः । ९ मणिकारः। १० मुखेन गायकः। ११ स्तुतिपाठकः । १२ युद्धादनिवर्तनप्रतिज्ञाकारी। १३ मृण्मयरूपघटकः। १४ सहाध्यायी। १५ सर्वसिन्। १६ पूगफलवत्। १७ अस्त्रविशेषान् । १८ मेघम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org