________________
२३८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
द्वितीयं पर्व उदियाय च पूर्णेन्दुर्दैवाद् ग्रस्तश्च राहुणा । फैलेग्रहिश्च सञ्जज्ञे, तरुर्भग्नश्च कुम्भिना ॥ १९७ ॥ आगता च तरी तीरं, भग्ना च तटभूभृता । उन्नतश्च नवाम्भोदो, विकीर्णश्च नभस्वता ॥ १९८ ॥ निष्पन्नं च व्रीहिवणं, दग्धं च दववह्निना । धर्मा-ऽर्थ-कामयोग्याश्च, जाता यूयं हताश्च हा ! ॥ १९९ ॥
॥ त्रिभिर्विशेषकम् ॥ प्राप्याऽपि मद्गृहं वत्सा!, अकृतार्था गता हहा! । आत्यस्य कृपणस्येव, वेश्मोपेत्य बनीपकाः॥२०० ॥ तदद्य किं मे चक्राद्यै, रनैनिधिभिरप्यलम् । युष्मान् विना विरहिणो, ज्योत्लोद्यानादिकैरिव ॥२०१॥ षट्खण्ड भरतक्षेत्रराज्येन यदि वाऽसुमिः । असुभ्योऽपि प्रियैः पुत्रैर्विनाभूतस्य किं मम ? ॥ २०२॥ ___ एवं विलापिनमथो, भूनाथं श्रावकद्विजः । स बोधयितुमित्यूचे, सुधामधुरया गिरा ॥ २०३ ॥
धान्याः परित्राणमिव, प्रबोधोऽपि तवाऽन्वये । मुख्याधिकारसम्प्राप्तो, सुधाऽन्यैर्देव! बोध्यसे ॥२०४ ॥ 10 जगन्मोहार्यमा यस्य, साक्षाद् भ्राताजितप्रभुः । अन्येन बोध्यमानस्य, तस्य लज्जा न किं तव ? ॥२०५॥
असावसारः संसारो, ज्ञाप्यतेऽन्यस्य ते पुनः । जन्म प्रभृति सर्वज्ञसेवकस्य किमुच्यते ? ॥२०६॥ पितरो मातरो जायास्तनयाः सुहृदोऽपि च । स्वप्नदृष्टोपमं राजन्!, संसारे सर्वमप्यदः ॥ २०७॥ यत् प्रातस्तन्न मध्याह्ने, यन्मध्याह्ने न तनिशि । निरीक्ष्यते भवेऽस्मिन् ही!, पदार्थानामनित्यता ॥२०८॥
तत्त्ववित् स्वयमेवाऽसि, खं धैर्ये स्थापय स्वयम् । रविणा द्योत्यते विश्वं, नाऽपरो द्योतको वः ॥२०९॥ 15 लवणोद इवाऽम्भोधिर्मणिभिर्लवणेन च । पक्षमध्यतमिस्रवाऽऽलोकेन तिमिरेण च ॥ २१०॥
राकानिशाकर इव, ज्योत्स्नया लाञ्छनेन च । हिमाद्रिरिव दिव्याभिरोषधीभिर्हिमेन च ॥ २११ ॥ तद् विप्रवचनं शृण्वन् , पुत्रान्तं च मुहुः स्मरन् । बोधेन च विमोहेन, चाऽऽनशे पृथिवीपतिः ॥२१२॥
॥त्रिभिर्विशेषकम् ॥ यथा नैसर्गिकं धैर्य, महत् तस्य महीपतेः । मोहोऽप्यागन्तुको जज्ञे, पुत्रक्षयभवस्तथा ॥ २१३ ॥ 20 एककोश इव खड्गावेकस्तम्भ इव द्विपौ । प्रबोध-मोहौ युगपत् , तदा राज्ञि बभूवतुः ॥ २१४ ॥
अथ बोधयितुं भूपं, सुबुद्धिर्नाम बुद्धिमान् । बाचा पीयूषसध्रीच्येत्युवाच सचिवाग्रणीः ॥ २१५ ॥ अम्भोधयोऽपि मर्यादां, लयेयुः कदाचन । आसादयेयुः कम्पं च, कदाचन कुलाचलाः ॥ २१६ ॥ अवाप्नुयात् तरलतां, कदाचिदपि मेदिनी । अपि जर्जरतां वज्रमश्रुवीत कदाचन ॥२१७ ॥ त्वादृशास्तु महात्मानो, व्यसनेषु महत्स्वपि । उपस्थितेषु वैधुर्य, न भजन्ते मनागपि ॥ २१८ ॥
॥ त्रिभिर्विशेषकम् ॥ क्षणाद् दृष्टं क्षणान्नष्टं, कुटुम्वाद्यखिलं भवे । विवेकिन इति ज्ञात्वा, न मुह्यन्ति यथा शृणु ॥ २१९ ॥
जम्बूद्वीप इह द्वीपे, क्षेत्रे भरतनामनि । कसिंश्चिन्नगरे कोऽपि, पुराऽभूत् पृथिवीपतिः ॥२२० । जिनधर्मसरोहंसः, सदाचारपथाध्वगः । प्रजामयूरीजलदो, मर्यादापालनाम्बुधिः ॥ २२१ ॥ सर्वव्यसनकक्षाग्निर्दयावयेकपादपः । कीर्तिकल्लोलिनीशैलः, शीलरत्नैकरोहणः ॥ २२२ ॥ स एकसिन् दिने स्वस्यामास्थान्यां सुखमास्थितः । यथाक्षणं विज्ञपयाम्बभूवे वेत्रपाणिना ॥ २२३ ॥ पुष्पदामकरो द्वारि, कलाविदिव कोऽपि ना । विज्ञीप्सुः किञ्चिदद्यैव, देवपादान दिदृक्षते ॥ २२४ ॥ पण्डितः किं कविः किंवा, गन्धर्वः किं नटोऽथ किम् । छान्दसो वा नीतिविद् वाऽस्त्रविद् वाऽथेन्द्रजालिकः ।। इति न ज्ञायते ज्ञातं, त्वाकृत्या गुणवानिति । यत्राऽऽकृतिस्तत्र गुणा, इत्यर्भा अप्यधीयते ॥ २२६ ॥ आदिदेश विशामीशोऽप्येनमानय सत्वरम् । यथा विज्ञपयत्येष, यथेच्छं स्वमभीप्सितम् ॥ २२७ ॥
फलवान् । २ गजेन । ३ नौः। ४ याचकाः। ५ प्राणैः। ६ जगतां मोहनाशने सूर्यसमः। ७ पूर्णिमाचन्द्रः ।
30
८ अमृतसमानया। ९सर्वव्यसनतृणवह्निः । १. सभायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org