________________
षष्ठः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
२३७ त्वमसि मापते ! विश्वमोहनिद्राविवस्वतः। ऋषभस्वामिनो वंश्यो, भ्राता चास्यजितप्रभोः॥१६४॥ इत्थं पृथग्जन इव, भवन् मोहवशंवदः । तयोः कलङ्कमाधत्सेऽधुना किं धरणीधव! ? ॥ १६५ ॥
राजाऽपि दध्यौ विप्रोऽयं, स्वपुत्रान्तापदेशतः । मत्पुत्रक्षयनाट्यस्य, जगौ प्रस्तावनामिमाम् ॥१६६॥ व्यक्तं च शंसत्यधुना, कुमाराणामसौ क्षयम् । कुमारवर्ज चाऽऽयाताः, प्रधानपुरुषा अमी ॥ १६७ ॥ कुतः सम्भाव्यते तेषां, क्षयश्च मनसापि हि । भुवि सञ्चरतां खैरं, वने केसरिणामिव ? ॥ १६८ ॥ 5 महारत्नपरीवारा, दुराः स्वौजसाऽपि हि । केन शक्या निहन्तुं ते, हन्ताऽस्खलितशक्तयः ? ॥ १६९ ॥ चिन्तयित्वेति किमिदमिति पृष्टाः क्षमाभुजा । ज्वलनप्रभवृत्तान्तं, शशंसुः सचिवादयः ॥ १७०॥ ताडितः कुलिशेनेव, तेनोर्दैन्तेन भूपतिः । पपात मूञ्छितः पृथ्व्यां, पृथिवीमपि कम्पयन् ॥ १७१॥ मातरश्च कुमाराणां, निपेतुर्मूर्च्छया क्षितौ । पितुर्मातुश्च तुल्यं हि, दुःखं सुतवियोगजम् ॥ १७२ ॥ । राजवेश्मनि लोकानामाक्रन्दोऽथ महानभूत् । समुद्रतटगर्तान्तर्गतानां यादसामिव ॥ १७३ ॥ 10 मन्यादयोऽपि ते स्वामिपुत्रव्यापत्तिसाक्षिणम् । आत्मानमतिनिन्दन्तो, रुरुदुः करुणवरम् ॥ १७४ ॥ तादृशीं स्वामिनोऽवस्थां, तां वीक्षितुमिवाऽक्षमाः । अञ्जलिच्छन्नवदनाः, पूचक्रुर्वेत्रपाणयः ॥ १७५ ॥ प्राणप्रियाण्यप्यस्त्राणि, त्यजन्तश्चाऽऽत्मरक्षकाः । प्रलपन्तोऽलुठन् भूमौ, वातभग्ना इव द्रुमाः ॥ १७६ ॥ खकञ्चकान् कञ्चुकिना, स्फाटयन्तोऽरटन् भृशम् । दवानलान्तः पतिता, इव तित्तिरिपक्षिणः ॥ १७७ ॥ हृदयं कुट्टयन्तः खं, चिरात् प्राप्तमिव द्विषम् । चेव्यश्चेटाश्च चक्रन्दुर्हताः स इति भाषिणः ॥ १७८ ॥ 15 तालवृन्तानिलेनाऽम्बुसेकेन च महीपतिः। राज्यश्च संज्ञामासेदुर्दुःखशल्यप्रतोदनीम् ॥ १७९ ॥ मलिनीभूतवासस्का, नेत्रास्रजलकजलैः । छाद्यमानकपोला-ऽक्ष्यो, लुलितालकवल्लिभिः ॥ १८० ॥ उरःस्थलकराधातप्रत्रुटद्धारयष्टयः । निर्भरं भूमिलठनस्फुटत्कङ्कणमौक्तिकाः ॥ १८१ ॥ धूमं शोकानलस्येवोज्झन्त्यो निःश्वासमुच्चकैः । शुष्यत्कण्ठा-ऽधरदला, राजपत्न्योऽरुदन्नथ ॥ १८२ ॥
॥त्रिभिर्विशेषकम् ॥ 20 धैर्य लां विवेकं च, विहायैकपदेऽपि हि । राजीवच्छोकविधुरो, विललापेति भूपतिः ॥ १८३ ॥ ___ हे कुमाराः! क यूयं स्थ?, निवर्तध्वं विहारतः। राज्यायाऽवसरो वोऽद्य, व्रताय सगरस्य तु ॥१८४॥ कथं न कोपि ब्रूते कः १, सत्यमुक्तं द्विजन्मना । दस्युनेव च्छलज्ञेन, देवेन मुषितोऽसि ही! ॥१८५।। अरे रे दैव! कुत्राऽसि ?, कुत्राऽसि ज्वलनप्रभ!? । अक्षत्रमिदमाचर्य, क्वाऽयासी गपांशन! १ ॥१८६॥ सेनापते ! क्व तेऽगच्छद्दण्डदोर्दण्डचण्डिमा ? । क्षेमङ्करत्वमगमत् , व पुरोहितरत्न ! ते ? ॥ १८७ ॥ 25 गलितं वर्धके किं ते, दुर्गनिर्माणकौशलम् । गृहिन् ! सञ्जीवनौषध्यः, किं ते कुत्रापि विस्मृताः? ॥१८८॥ गजरत्न ! किमाप्तस्त्वं, तदा गजनिमीलिकाम् ? । अश्वरत्न ! समुत्पन्नं, शूलं किं भवतस्तदा?॥ १८९ ॥ चक्र-दण्डा-ऽसयो! यूयं, किंतदानीं तिरोहिताः।अभूतां मणि-काकिण्यौ!, निष्प्रभौ किं दिनेन्दुवत्?१९० आतोद्यपुटवद् भिन्ने, किं युवां छत्र-चर्मणी !? । नवाऽपि निधयो! यूयं, ग्रस्ताः किमनया भुवा ? ॥१९१॥ युष्मद्विश्वासतोऽशक्, रममाणाः कुमारकाः । सर्वैरपि न यत् त्रातास्तस्मात् पन्नगपांसनात् ।। १९२ ॥ 30 करोम्येवं विनष्टे किमिदानीं ज्वलनप्रभम् ? । सगोत्रमपि चेद्धन्मि, न हि जीवन्ति मे सुताः॥१९३॥ ऋषभखामिनो वंशे, नैवं कोऽप्यासदन्मृतिम् । त्रपाकरमिमं मृत्यु, हा वत्साः! कथमामुत ? ॥१९४॥ पूर्वे मदीयाः सर्वेऽपि, पुरुषायुषजीविनः । दीक्षामाददिरे वर्गमपवर्ग च लेभिरे ॥ १९५ ॥ खेच्छाविहारश्रद्धापि, भवतां न ह्यपूर्यत । अरण्यानीसमुत्पन्नभूरुहामिव दोहदः ॥ १९६ ॥
साधारणजनः । २ ऋषभाजितस्वामिनोः । ३ स्वपुत्रमरणमिषात् । ४ वृत्तान्तेन । ५मरणम् । * नेत्राथुजल सा॥ ६ चौरेणेव । ७ खेदे। नागाधम!। ९गजवद् नेत्रनिमीलिकाम्। १० महदरण्यमरण्यानी।
त्रिषष्टि, ३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org