________________
२३६
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
| द्वितीयं पर्व शोभितः कीर्ति-वीर्याभ्यां, कीर्तिवीर्यश्च विश्रुतः । उदभृदङ्गभूस्तस्माद् , दीपो दीपादिवोज्वलः ॥१३॥ दन्तिभिर्गन्धदन्तीव, वज्रदण्ड इवाऽऽयुधैः । परैरवार्यवीर्योऽभूजलवीर्यश्च तत्सुतः ॥ १३२ ॥ अखण्डदण्डशक्तिश्च, दण्डपाणिरिवाऽपरः । अभूदुद्दण्डदोर्दण्डो, दण्डवीर्यस्तदात्मजः ॥ १३३ ॥ अपाच्यभरतार्थस्य, शासितारो महौजसः । इन्द्रोपनीतभगवन्महामुकुटधारिणः ॥ १३४ ॥ सुरा-ऽसुरैरप्यजय्यास्तेऽपि लोकोत्तरौजसः । सर्वेऽपि कालधर्मेण, कालेधर्ममुपाययुः ॥ १३५ ॥ युग्मम् ॥ ततः प्रभृति चाऽन्येऽपि, सङ्ख्यातीता महीभुजः । महाभुजा व्यपद्यन्त, कालो हि दुरतिक्रमः ॥१३६॥ सर्वकषः पिशुनवत् , सर्वभक्षी हुताशवत् । सर्वभेदी सलिलवत् , कृतान्तस्तदहो द्विज! ॥ १३७ ॥ मदीयेऽपि गृहे कालान्नाऽवशिष्टोऽस्ति पूर्वजः । का वार्ताऽन्यगृहेष्वस्ति ?, तन्मङ्गलगृहं कुतः १ ॥१३८॥ त्वत्पुत्रश्चेन्नियेतैकस्तदेवमुचितं तव । सर्वसाधारणे मृत्यौ, किं नाम द्विज! शोचसि? ॥ १३९ ॥ अर्भके स्थविरे वाऽथ, दरिद्रे चक्रवर्तिनि । समं वर्तत इत्येष, कृतान्तः समवय॑हो! ॥१४॥ संसारस्य खभावोऽयं, न स्थिरः कश्चिदत्र यत् । तरङ्गवत् तरङ्गिण्यां, शरदभ्रवदम्बरे ॥ १४१ ॥ किञ्चाऽसौ मे पिता माता, भ्राता पुत्रः वसा स्नुषा । इत्यादिरपि सम्बन्धो, न भवे पारमार्थिकः ॥१४२॥ केऽपि केपि कुतोऽप्येत्य, मिलन्त्येकत्र वेश्मनि । यतः शरीरिणः सर्वे, ग्रामकुंट्यामिवाऽध्वगाः ॥१४३ ॥
पृथक् पृथक् पथेनैव, स्वकर्मपरिणामतः । तेषु गच्छत्सु को नाम, सुधीः शोचेन्मनागपि ? ॥ १४४ ॥ 15 मास शोकं कृथास्तेन, मोहचिह्न द्विजोत्तम । धेहि धैर्य महासत्व !, विवेके खं निधेहि च ॥१४५ ॥
अथावोचद् द्विजन्माऽपि,राजन् ! जानामि जन्मिनाम् । भवस्वरूपं किन्त्वद्य,व्यसाईं पुत्रशोकतः॥१४६॥ तावत् सर्वोऽपि जानाति, तावत् सर्वोऽपि धैर्यभाक । यावदिष्टवियोगं नाऽनुभवत्यात्मना भवी ॥१४७॥ सदाऽहंदादेशसुधापाननिधौंतचेतसः । विरलास्त्वादृशाः स्वामिन् !, धैर्यवन्तो विवेकिनः ॥ १४८ ॥
विवेकिन् ! भवता मुद्यन् , बोधितः साधु साध्वहम् । उपस्कार्यो विवेकोऽयमात्मनोऽपि कृते त्वया॥१४९॥ 20 नश्यन्नयं रक्षणीयो, व्यसने समुपस्थिते । यतो विधुरैवेलायै, ध्रियते ध्रुवमायुधम् ॥ १५० ॥
अयं च कालो रङ्के च, समश्चक्रधरेऽपि च । प्राणान् पुत्रादि वाऽऽच्छिन्दन , विभेति न कुतोऽपि हि ॥१५१॥ हन्त ! पुत्रादि यस्याल्पमल्पं तस्य विपद्यते । भूयिष्ठं यस्य तत् तस्य, भूयिष्ठं हि विपद्यते ॥ १५२ ॥ द्वयोरपि तयोः पीडा, तुल्यैव हि भवत्यहो! । अल्पा-ऽनल्पाहाराभ्यां, कुन्थु-कुञ्जरयोरिव ॥ १५३॥
नाशेनैकस्य पुत्रस्य, न शोचिष्याम्यतः परम् । मद्वत् त्वमपि मा शोचीः, सर्वपुत्रक्षयेऽपि हि ॥ १५४ ॥ 25 षष्टिसहस्रसङ्ख्यास्ते, दोर्विक्रमविराजिनः । राजन् ! विपन्नास्तनया, युगपत् कालयोगतः ॥ १५५ ॥
__अत्रान्तरे च सामन्ता-ऽमात्य-सेनाधिपादयः । अपरेऽपि कुमाराणां, जना आसन्नवर्तिनः ॥ १५६ ॥ उत्तरीयच्छन्नमुखाः, शालीना इव लज्जया । विवर्णदेहाः खेदेन, दवदग्धा इव द्रुमाः ॥ १५७ ॥ अत्यन्तशून्यमनसः, पिशाच-किन्नरा इव । उदश्रुलोचना दीना, मुषिताः कृपणा इव ॥ १५८ ॥ प्रस्खलचरणन्यासा, दष्टा इव भुजङ्गमैः । आस्थानं युगपद् राज्ञोऽविशन् सङ्केतिता इव ॥ १५९ ॥ राजानं ते नमस्कृत्य, यथास्थानमुपाविशन् । विविक्षव इव क्षोणी, ते च तस्थुरधोमुखाः॥१६०॥ तां विप्रवाचमाकये, दृष्ट्वा तांश्च तथाविधान् । कुमारवर्जमायाताननिषादिद्विपानिव ॥ १६१ ॥ लिखितो नूल्लिखितो नु, सुप्तो नूत्तम्भितो नु वा । शून्यो निष्पन्दनयनो, द्रागभूदवनीपतिः॥ १६२ ॥
॥ युग्मम् ॥ आतमूर्च्छमधैर्येण, धैर्येण च तथास्थितम् । पुनर्बोधयितुं विप्रः, प्रोवाच पृथिवीपतिम् ॥ १६३ ॥ .. अलौकिकपराक्रमवन्तः । २ मृत्युम् । ३ नद्याम् । धर्मशालायाम् । ५ विवेकः। ६ दुःखवेलायै । सभाम् । प्रवेष्टुमिच्छवः। ९ हतिपकरहितगजानिव । * यथा सा॥१.स्वस्थम् ।
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org