________________
षष्ठः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम् ।
२३५
मामापतन्तं सम्प्रेक्ष्य, ब्राह्मणी विलुलत्कच । सद्यो हा पुत्र ! हा पुत्रेत्याक्रन्दन्त्यपतद्भुवि ॥ ९९ ॥ ध्रुवं विपन्नो मे पुत्र, इति निश्चित्य चेतसा । अहमप्यपतं सद्यो, गतप्राण इवाश्वनौ ॥ १०० ॥ मूर्च्छाविरामे भूयोऽपि, प्रलपन् करुणस्वरम् । अपश्यं गृहमध्येऽहं सर्पदष्टमिमं सुतम् ॥ १०१ ॥ भोजनाद्यप्यकृत्वाऽस्थां, यावज्जाग्रदहं निशि । कुलदेवतया तावदिदमादेशि मे पुनः ॥ १०२ ॥ भोः ! किमेवं समुद्विग्नोऽस्यमुना पुत्रमृत्युना ? । सम्पादयामि ते पुत्रं, यद्यादेशं करोषि मे ॥ १०३ ॥ देव्याः प्रमाणमादेश, इत्यवोचमहं ततः । पुत्रार्थे शोकविधुरैः, किं वा न प्रतिपद्यते ? ॥ १०४ ॥ कुलदेवतयाऽथोक्तं, विपन्नो यत्र कोऽपि न । ततोऽग्निं मङ्गलगृहात् कुतोऽप्यानय सत्वरम् ॥ १०५ ॥ ततस्तनयलोभेन, प्रत्यहं प्रतिमन्दिरम् । तत् पृच्छन् हस्यमानोऽहं भ्रान्तोऽर्भक इवाऽभ्रमम् ॥ १०६ ॥ पृच्छयमानो जनः सर्वोऽप्याचष्टे स्म गृहे गृहे । सङ्ख्यातीतान् मृतान् वेश्म, नाऽमृतं किञ्चिदप्यभूत् ॥ १०७॥ तदप्राया च भग्नाशः, परासुरिव नष्टधीः । व्यजिज्ञपमहं दीनस्तत् सर्व कुलदेवताम् ॥ १०८ ॥ आदिशद् देवताऽप्येवं, न मङ्गलगृहं यदि । अमङ्गलं कथमहं तव रक्षितुमीश्वरी १ ॥ १०९ ॥ तया च देवतावाचा, तोत्रेणेवं प्रवर्तितः । प्रतिग्रामं प्रतिपुरं भ्रमन्नहमिहाऽऽगमम् ॥ ११० ॥ अपि धात्र्याः समस्तायास्त्राता त्वमसि विश्रुतः । न कोऽपि प्रतिमल्लोऽस्ति दोष्मदग्रेसरस्य ते ॥ १११ ॥ वैतान्यगिरिदुर्गस्थश्रेणिद्वयगतास्तव । विद्याधरा अपि दधत्याज्ञां शिरसि माल्यवत् ॥ ११२ ॥ देवा अपि तवाऽऽदेशं, सदा कुर्वन्ति भृत्यवत् । वाञ्छितार्थं प्रयच्छन्ति, निधयश्च तवाऽनिशम् ॥ ११३ ॥ 15 ततस्त्वां शरणं प्राप्तो, दीर्नत्राणैकसत्रिणम् । तदग्निं मङ्गलगृहात् कुतोऽप्यानय मत्कृते ॥ ११४ ॥ विपन्नमपि मे पुत्रं, सा यथा कुलदेवता । प्रत्यानयति येनाऽस्मि, दुःखितः पुत्रमृत्युना ॥ ११५ ॥ भवस्वरूपं नृपतिर्जानन्नपि कृपावशात् । तद्दुःखदुःखितः किञ्चिच्चिन्तयित्वैवमब्रवीत् ॥ ११६ ॥ एतस्यामवनौ तावद्, गृहेषु सकलेष्वपि । अस्माकं गृहमुत्कृष्टं, सुमेरुः पर्वतेष्विव ॥ ११७ ॥ आसीदस्मिन्नसामान्यस्त्रिजगन्मान्यशासनः । प्रथमस्तीर्थनाथानां प्रथमः पृथिवीभुजाम् ॥ ११८ ॥ लक्षयोजनमुत्सेधे, दण्डीकृत्यामराचलम् | दोर्दण्डेन समुत्क्षिप्य च्छत्रीकर्तुं क्षमः क्षमाम् ॥ ११९ ॥ चतुःषष्टीन्द्र मुकुटोत्तेजिताङ्गिनखावलिः । भगवानृषभस्वामी, विपन्नः सोऽपि कालतः ॥ १२० ॥ ॥ त्रिभिर्विशेषकम् ॥
20
तस्य च प्रथमः सूनुः, प्रथमश्चक्रवर्तिनाम् । सुरासुरैरपि सदा, शिरसोद्वाह्यशासनः ॥ १२१ ॥ भरतो नाम सौधर्मपुरुहूतासनार्धभाक् । कालेन गच्छता सोऽपि समाप्तिं प्रापदायुषः ॥ १२२ ॥ युग्मम् ॥ 25 तस्य चाऽवरजो धुर्यो, वर्यदोर्वीर्यशालिनाम् । अम्भोधीनामिवाऽम्भोधिः, स्वयम्भूरमणाभिधः ॥ १२३ ॥ कण्डूयद्भिः सैरिभेभँ-शरभाद्यैरकम्पितः । वज्रदण्ड इव न्यस्तो, वत्सरं प्रतिमाधरः ॥ १२४ ॥ महाबाहुर्बाहुबलिर्बाहुदन्तेयविक्रमः । नाऽधिकं किश्चिदप्यस्थात्, सम्पूर्ण पुरुषायुषे ॥ १२५ ॥
॥ त्रिभिर्विशेषकम् ॥ उग्रेण तेजसाऽऽदित्यो, नाम्नाऽऽदित्ययशा इति । समभूदोजसाऽनूनः सूनुर्भरत चक्रिणः ॥ १२६ ॥ 30 आदित्ययशसः सूनुरासीन्नाम्ना महायशाः । दिगन्तसङ्गीतयशाः, सर्वदोष्मच्छिरोमणिः ॥ १२७ ॥ तस्य चाऽतिबलो नाम, सूनुः समुदपद्यत । आखण्डल इवाऽखण्डशासनोऽवनिशासनः ॥ १२८ ॥ बभूव तस्य तनयो, बलभद्रोऽभिधानतः । जगन्मद्रङ्करः स्थाम्ना, धाम्ना दीधितिमानिव ॥ १२९ ॥ बलवीर्यो महावीर्यः, शौर्य- धैर्यभृदग्रणीः । ग्रामणीर्नरनाथानामभवत् तस्य चाऽऽत्मजः ॥ १३० ॥
१ विकीर्णकेशा। २ जीवयामि । * ऽथोचे, विप° ढं० ॥ ३ मृतः । ४ गतप्राणः । ५ गवादिताडनदण्डः । ६ दीनरक्षणकदीक्षितम् । ७ महिषगजाष्टापदप्रभृतिभिः । ८ इन्द्रसमपराक्रमः । ९ जगन्माङ्गल्यकारकः । १० सूर्य इव ।
Jain Education International
"
For Private & Personal Use Only
5
10
www.jainelibrary.org