________________
२३४ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ द्वितीयं पर्व द्वारपालोऽथ पप्रच्छ, विप्रं क्षिप्रमुपेत्य तम् । अनाकर्णितकं कुर्वन्, पूच्चकार तथैव सः॥६६ ॥ व्याजहार प्रतीहारः, पुनरेवमहो द्विज! । किं दुःखबधिरोऽसि त्वं?, निसर्गबधिरोऽसि वा ॥६७॥ अजितस्वामिनो भ्राता, खयमेष महीपतिः । दीना-ऽनाथपरित्राता, शरणं शरणार्थिनाम् ॥ ६८॥
सादरः सोदरमिव, त्वां पृच्छति विराविणम् । मुषितः केन ? कश्चाऽसि ?, कुतस्त्योऽसीति शंस नः॥६९॥ 5 यदि वा खयमागत्य, स्वकीयं दुःखकारणम् । वैद्यायेव रुगुत्थानं, निवेदय महीभुजे ॥ ७० ॥
इत्युक्तः प्रतिहारेण, स द्विजः साश्रुलोचनः । नीहारकणिकाकीर्णसरोरुह इव हृदः॥७१॥ अम्लानवदनेन्दुश्च, निशीथ इव हैमनः । अच्छभल्ल इवातुच्छप्रविकीर्णशिरोरुहः ॥ ७२ ॥ जरत्प्लवङ्गम इव, परिक्षामकपोलकः। मन्दमन्दपदन्यासं, प्राविशञ्चक्रिणः संदः॥७३॥ त्रिभिर्विशेषकम् ॥
__ स्वयं कृपालुना सोऽथ, चक्रिणैवमपृच्छयत । कच्चित् ते काञ्चनं किञ्चिजहे कुत्रापि केनचित् १ ॥७४॥ 10 किंवारमानि केनापि, हृतानि वसनानि वा । किंवाऽपालापि केनापि, न्यासो विश्वस्तघातिना ॥७५॥
ग्रामारक्षादिना किं वा, केनाऽप्यसि कदर्थितः ? । भाण्डसर्वखहरणात्, पीडितः शौल्किकेन वा ? ॥७६॥ दायादेनाऽथ केनापि, प्रापितोऽसि पराभवम् ? । उपदुद्राव कोऽपि त्वां, जायोविद्रवणेन वा ? ॥ ७७॥ बलवानथवा वैरी, त्वामास्कन्दति कश्चन ? । आधिर्वा बाधते कोऽपि, त्वां ? व्याधिरथवोत्कटः १ ॥७८॥
द्विजातिजातिसुलभं, दारिद्यं त्वां दुनोति वा । अन्यद्वा दुःखकृद् यत् ते, तदाख्याहि महाद्विज! ॥७९॥ 15 सद्यो नट इवाऽलीकं, मुश्चन्नधान्तमश्रु सः । ब्राह्मणो व्याजहारैवं, राजानं रचिताञ्जलिः॥ ८ ॥
द्यौरिवाऽमरराजेन, न्याय-विक्रमराजिना । त्वया राजन्वती राजन् !, षद्खण्डभरतावनिः॥८१॥ नाऽऽच्छिन्ते कस्यचित् कोऽपि, स्वर्ण-रत्नादि किञ्चन । आढ्याः स्वगृहवद् ग्रामान्तरालेऽपि हि शेरते ॥८२।। न्यासं नाऽपहृते कोऽपि, निजं कुलमिवोत्तमम् । वपुत्रमिव रक्षन्ति, ग्रामारक्षादयः प्रजाम् ॥ ८३ ॥
अर्थ लभ्येऽतिरिक्तेऽपि, शुल्कं भाण्डानुमानतः । गृह्णन्ति शौल्किका दण्डमिव मन्तुप्रमाणतः ॥ ८४ ॥ 20 दीयमादाय दायादा, विवदन्ते पुनर्न हि । अवाप्तोत्तमसिद्धान्ताः, शिष्या इव गुरुं प्रति ॥ ८५ ॥
भगिनीवद् दुहित्वत् , स्नुषावन्मावत् तथा । मन्यते परकीयाः स्त्रीया॑यनिष्ठोऽखिलो जनः ॥ ८६ ॥ नास्ति यत्याश्रम इव, त्वद्राज्ये वैरवागपि । सन्तोषशालिनि जने, नाऽऽधिः साऽम्भसि तापवत् ॥ ८७ ।। भुवि सर्वोषधीमय्यां, न व्याधिः प्रावृषीव तृट् । त्वयि कल्पद्रुम इव, दारियं च न कस्यचित् ॥ ८८॥ अस्ति दुःखाकर लोके, न किञ्चिदपि कस्यचित् । किन्तूपनतमस्त्येतन्ममैव हि तपस्विनः ॥ ८९ ॥
अवन्तिर्नाम देशोऽस्ति, स्वर्गदेश्यो महानिह । नगरोद्यान-नद्याद्यैरनवद्यैर्मनोहरः॥९०॥ महासर:-कूप-चापी-विचित्रारामबन्धुरः । तत्राऽश्वभद्रो नामाऽस्ति, ग्रामस्तिलकवद् भुवः ॥ ९१ ॥ तत्र ग्रामेऽसि वास्तव्यो, वेदाध्ययनतत्परः । अग्निहोत्ररतो नित्यं, शुद्धब्रह्मकुलोद्भवः ॥ ९२ ॥ पल्याः प्राणप्रियं पुत्रमर्पयित्वाऽहमन्यदा । विशेषविद्याध्ययनहेतोामान्तरं गतः ॥ ९३ ॥ पठतस्तत्र चाऽन्येचुरुदभूदरतिर्मम । अनिमित्तं महदेतदित्यक्षुभ्यमहं ततः ॥९४ ॥ भीतस्तेनानिमित्तेन, खं ग्रामं पुनरागमम् । अहं पूर्वाश्रितां जात्यतुरङ्ग इव मन्दुराम् ॥ ९५ ॥ दूरादहमपश्यं च, श्रीविमुक्तं निजं गृहम् । किमेतदिति चित्ते च, चिरं यावदचिन्तयम् ॥ ९६ ॥ अमन्दं स्पन्दितं तावद्, दक्षिणेतरचक्षुषा । शुष्कवृक्षे चटित्वोच्चै, रटितं कैरटेन च ॥ ९७ ॥ इत्यादिभिर्दुनिमित्तैर्विद्धो हृदि शरैरिव । विमनाः प्राविशमहं, चश्चापुरुषवद् गृहम् ॥ ९८ ॥
१ पूत्कारिणम् । २ रोगोत्पत्तिम् । ३ हेमन्ततौं रात्रिरिव । ४ यथा जीर्णकेशः भलूको भवति तादृशः। ५ सभाम् । ६ अपझुतः। विश्वासघातिना। शुरुकाध्यक्षेण । ९ जायाया अपहारेण । १.नापहरति । ११ यथापराधम् । २ भागम् । १३ प्रासम् । १४ दुःखम् । १५ स्वर्गसइशः। १६ अपशकुनम् । १७ अश्वशालाम् । १८ वामनेत्रेण । काकेन ।
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org