________________
पष्टः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
२३३ अगतानपि नस्तत्र, जीवतोऽत्रैव तिष्ठतः । श्रुत्वा लञ्जिष्यते स्वामी, यदि वा निग्रहीष्यति ॥ ३२ ॥ ___ एवं रुदित्वा विविधं, भूयः सम्भूय ते मिथः । सहजं धैर्यमालम्ब्य, मन्त्रयामासुरित्यथ ॥ ३३ ॥ पूर्वोदितविधानेभ्यः, परोक्तविधिवद् विधिः । सर्वेभ्यो बलवांस्तसान कोऽपि बलवत्तरः ॥ ३४ ॥ तत्राऽशक्यप्रतीकारे, मुधा प्रतिचिकीर्षितम् । व्योम्नः प्रतिजिघांसेव, जिघृक्षेव नभवतः ॥ ३५ ॥ एभिः प्रलापैस्तदलं, हस्त्यश्वायखिलं प्रभोः । इदानीमर्पयामः खं, वयं न्यासधरा इव ॥ ३६॥ 5 उचितं रुचितं वाऽपि, यत्किञ्चन ततः परम् । विदधातु तदस्मासु, स्वामी किं नो विचिन्तया ? ॥३७॥ __एवमालोच्य ते सर्वे, सर्वमन्तःपुरादिकम् । आदाय दीनवदनाः, प्रत्ययोध्यं प्रतस्थिरे ॥ ३८॥ मन्दं मन्दमथोत्साहहीना म्लानाननेक्षणाः । अयोध्यासन्निधिभुवं, प्रापुः सुप्तोत्थिता इव ॥ ३९ ॥ विषण्णास्तत्र च स्थित्वा, नीता वध्यशिलामिव । उपविश्य महीपीठेऽन्योऽन्यमेवं बभाषिरे ॥४०॥ भक्ता बहुज्ञा दोष्मन्तो, दृष्टसाराः पुराऽपि च । इत्यादिष्टा वयं राज्ञा, सत्कृत्य तनयैः सह ॥४१॥ 10 विना कुमारानभ्येत्य, स्वामिनोऽग्रे वयं कथम् । वदनं धारयिष्यामो, नासिकारहिता इव ॥४२॥ कथं वा कथयिष्यामः, पुत्रवृत्तान्तमीदृशम् । अकाण्डाशनिसम्पातसदृशं वसुधापतेः १ ॥४३॥ अतः परमहो ! तत्राऽस्माकं गन्तुं न युज्यते । युज्यते किन्तु मरणं, शरणं सर्वदुःखिनाम् ॥ ४४ ॥ सम्भावनायाः प्रभुणा, कृताया भ्रंशभाजिनः । पुंसोऽशरीरिकस्येव, जीवितव्येन किं ननु ? ॥४५॥ किश्च पुत्रक्षयं श्रुत्वा, दुःश्रवं चक्रवर्त्यपि । चेद् विपद्येत तदपि, मृत्युरग्रेसरो हि नः ॥ ४६॥ 15 मत्रयित्वेति ते सर्वे, मरणे कृतनिश्चयाः । यावत् तस्थुस्तावदागादेकः काषायभृद्विजः ॥ ४७॥
ब्राह्मणग्रामणीः सोऽथ, प्रोरिक्षप्तकरपङ्कजः । जीवयंस्तानुवाचैवं, गिरा जीवातुकल्पया ॥४८॥ भोः कृत्यमूढाः ! किं यूयमेवं स्थाऽस्वस्थचेतसः ? । उपर्यापतिते व्याधे, पतित्वा शशका इव ॥ ४९ ॥ यदि षष्टिसहस्रा वः, स्वामिपुत्रा विपेदिरे । युगपद् युग्मिवत् तत्र, विषादेन कृतं ननु ॥५०॥ सहजाता अपि क्वाऽपि, विपद्यन्ते पृथक् पृथक् । पृथग्जाता अपि वापि, विपद्यन्ते सहैव हि ॥ ५१ ॥20 बहवोऽपि विपद्यन्ते, विपद्यन्तेऽल्पका अपि । सर्वेषामपि जीवानां, यन्मृत्युः पारिपार्श्विकः ॥ ५२ ॥ न हि केनापि कस्यापि, मृत्युः शक्यो निषेधितुम् । अपि यत्नशतं कृत्वा, स्वभाव इव देहिनाम् ॥५३॥ निषेधितुं शक्यते चेत्, स निषिद्धः कथं न हि । वज्रभृच्चक्रवक्थैः , स्वस वा स्वजनस्य वा ? ॥५४॥ मुष्टिना शक्यते धर्तुमपि वजं पतद् दिवः । सेतुनाऽवस्खलयितुमप्युद्धान्तः पयोनिधिः ॥ ५५ ॥ निर्वापयितुमुद्दामो, युगान्तज्वलनोऽपि वा । कल्पान्तोत्पातजातो वा, मन्दीकर्तुं समीरणः ॥५६॥ 25 उत्तम्भनेनादिरपि, समुत्तम्भयितुं पतन् । न तूपायशतेनापि, शक्यो मृत्युनिषेधितुम् ॥ ५७॥ ते नः सम्पश्यमानानां, विपन्नाः स्वामिसूनवः । इत्येवं मास खिद्यध्वं, धीरीभवत सम्प्रति ॥ ५८॥ युष्माकं स्वामिनमपि, मजन्तं शोकसागरे । हस्तेनेव धरिष्यामि, प्रबोधवचसाऽञ्जसा ॥ ५९॥
एवमाश्वास्य तान् सर्वान्, मृतं किश्चित् पथि स्थितम् । विप्रः सोऽनाथमादाय, विनीतां नगरीं ययौ ॥६॥ सगरस्य नरेन्द्रस्य, स गत्वा सदनाङ्गणे । ऊर्धीभूयोद्धदोर्दण्डः, पूच्चकारोच्चकैरिति ॥ ६१॥ 30 चक्रवर्तिन् ! न्यायवर्तिनखण्डभुजविक्रम!। अत्याहितमब्रह्मण्यमब्रह्मण्यमहो! इदम् ॥ ६२॥ खर्गे पुरन्दरेणेव, क्षेत्रे भरतनामनि । यत् त्वया रक्षितेऽप्यसिन्, मुषितो मुषितोऽस्म्यहम् ।। ६३ ॥
शब्दमश्रुतपूर्व तं, श्रुत्वा सगरचयपि । सङ्क्रान्ततदुःख इव, जगाद द्वारपालकम् ॥ ६४ ॥ केनैष मुषितः कोऽयं, कुतो वाऽयं समागतः । सर्व विज्ञायतामेतत्, स्वयं वात्र प्रवेश्यताम् ॥६५॥
पूर्वविभिभ्यः परो विधिलवानिति व्याकरणशास्ने न्यायः । २ दैवम् । ३ प्रतिहन्तुमिच्छा । ४ ग्रहीतुमिच्छा । ५. धनम् । सञ्जीवनौषधतुल्यया । ७ मृत्युः। ८ रोखुम् । ९ जीवितापहार्यनर्थसम्पातः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org