________________
२३२
[द्वितीयं पर्व
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
षष्ठः सर्गः।
coccccccoo
-
-
क्रिसैन्येऽथ सैन्यानामाक्रन्द उदभून्महान् । महाजलाशय इव, रिक्तीभवति यादसाम् ॥१॥ केऽप्याखादितकिम्पाका, इव पीतविषा इव । सर्पदष्टा इवोन्मूर्छाः, पेतुर्वसुमतीतले ॥२॥
केचिदास्फालयामासुः, स्वशिरो नालिकेरवत् । केचिदाजगिरे वक्षः, कृतागस्कमिवाऽसकृत् ।। ३ ॥ 5 पादान् प्रसार्य केऽप्यस्थुः, कृत्यमूढाः पुरन्ध्रिवत् । भृगूण्यारुरुहुर्झम्पां, कपिवत् केऽपि दित्सवः ॥ ४ ॥
कूष्माण्डदारमुदराण्येके स्वानि दिदीर्षवः । चकृषुः क्षुरिका कोशाद्, यमजिह्वासहोदराम् ॥ ५ ॥ आत्मानं तरुशाखायामुद्भन्छुमनसोऽपरे । बबन्धुरुत्तरीयाणि, लीलादोलां यथा पुरा ॥ ६॥ शिरसोऽत्रोटयन् केऽपि, केशान् क्षेत्रात् कुशानिव । केऽप्यङ्गलग्नं नेपथ्य, चिक्षिपुः खेदबिन्दुवत् ॥ ७॥
हस्तन्यस्तकपोलाः केऽप्यस्थुश्चिन्तापरायणाः । प्रदत्तोत्तम्भनस्तम्भजर्जराकारकुड्यवत् ॥ ८॥ 10 असंवहन्तः केचिच्च, परिधानांशुकान्यापे । विशंस्थुलाङ्ग व्यलुठचुन्मत्ता इव भूतले ॥ ९॥
विलापोऽन्तःपुरस्त्रीणां, कुररीणामिवाऽम्बरे । हृदयाकम्पजनकः, पृथक् पृथगभूदिति ॥१॥ प्राणेशान् गृह्णताऽसाकं, प्राणानत्रैव मुञ्चता । किमर्धवैशंसमिदं, रे दैवाऽऽचरितं त्वया ? ॥ ११ ॥ प्रसीद विवरं देहि, स्फुटित्वा देवि काश्यपि! । अभ्रादपि पतितानां, शरणं धरणी खलु ॥ १२ ॥
अद्य चन्दनगोधानामिवाऽस्माकमुपयेहो।। विद्युद्दण्डमकाण्डेऽपि, देव! पातय निदेयम ॥१३॥ 15 प्राणाः! शिवा वः पन्थानः, सन्तु यात यथेप्सितम् । विमुश्चताऽमच्छरीरमवयकुटीमिव ॥१४॥
समायाहि महातन्द्रे, सर्वदुःखापनोदिनि! । मन्दाकिनि! त्वमुत्प्लुत्य, जलमृत्युं प्रयच्छ वा ॥ १५ ॥ अस्यां गिरितलाटव्यां, प्रादुर्भव दवानल! । अनुयामः पतिगति, तव साहाय्यकाद् यथा ॥ १६ ॥ हा केशपाश! मुश्चाऽद्य, सुमनोदामसौहृदम् । युवाभ्यां दीयतां नेत्रे , कजलाय जलाञ्जलिः ॥१७॥
पत्रलेखनकण्डूति, मा कृषाथां कपोलकौ! । अलक्तकव्यतिकरश्रद्धामधर! मा धर ॥१८॥ 20 गीताकर्णनवत् कौँ', त्यजतं रनकर्णिकाम् । हे कण्ठ! कण्ठिकोत्कण्ठां, मा कार्षीस्त्वमतः परम् ॥१९॥
वक्षोजावद्य वां हारो, नीहारोऽम्भोरुहामिव । सद्यो हृदय! भूयास्त्वं, पक्कैर्वारुकैवद् द्विधा ॥२०॥ पाहू! कङ्कण-केयूरै रवि कृतं च वाम् । नितम्ब! रसनां मुञ्च, प्रातश्चन्द्र इव प्रभाम् ॥ २१ ॥ अनाप्तैरिव पर्याप्तं, हे पादौ! पादभूषणैः । अलमङ्गोऽङ्गरागैस्तैः, कपिकच्छूमयैरिव ॥ २२॥
एवमन्तःपुरस्त्रीणां, रुदितैः करुणवरैः । वनान्यपि प्रतिरवै, रुरुदुः सह बन्धुवत् ॥ २३ ॥ 25 सेनाधिपति-सामन्त-मण्डलेशादयोऽपि हि । शोक-ही-क्रोध-शङ्कादिविचित्रं प्रालपनिति ॥२४॥
हा स्वामिपुत्राः! क गताः १, न हि संविद्महे वयम् । ब्रूताऽनुयामोऽद्य यथा, स्वामिशासनतत्पराः॥२५॥ किं तिरोधानविद्येह, भवतां काऽप्युपस्थिता । सा तु खेदाय भृत्यानां, प्रयोक्तुं न हि युज्यते ॥ २६ ॥ युष्मान् नष्टान् विनष्टान् वा, हित्वा गतवतां मुखम् । कथं द्रक्ष्यति नः स्वामी, ऋषिहत्याकृतामिव ? ॥२७॥
युष्मान् विना गतान् नोऽद्य, लोकोऽप्युपहसिष्यति । हृदय! स्फुट रे! सद्यः, पयःसिक्तामकुम्भवत्॥२८॥ 30 तिष्ठ तिष्ठाहिखेट! त्वं, छलेन श्वेव नः पतीन् । व्यग्रानष्टापदत्राणे, दग्ध्वाज्यासीः क रेऽधुना ॥२९॥
खगः खड्गो धन्य धन्व, शक्तिः शक्तिर्गदा ग़दा । युद्धाय सजीभव रे !, कियचंष्ट्वा गमिष्यसि ? ॥३०॥ अमी तावदिह त्यक्त्वा, ययुः स्वामिसूनवः । हहा! तत्र गतानद्य, त्यक्ष्यति खाम्यपि द्रुतम् ॥ ३१ ॥
कृतापराधम् । २ छिन्झटकानि अत्युचानि गिरिशिखराणि। ३ दातुमिच्छवः। - शिथिलावं यथा स्वात्तथा। * पुरे स्त्री सहरसा ३ संता० ॥ ५ अर्धमरणम् । ६ हे पृथ्वि । ७ भाटकगृहीतां कुटीमिव । ८ पुष्पमालामैत्रीम् । ९ सम्बन्धः। धिर संता० सा ॥ हिमम् । पधिर्भटकवत् । १२ हे शरीर ।। १५ अमान् । ४ अपकपडवत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org