________________
पचमः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम् ।
१७१ ॥
पयोभिः पूर्यमाणेषु, बिलवत् फणिवेश्मसु । फूत्कुर्वन्तः प्रतिदिशं, फणिनस्त्रेसुराकुलाः ॥ १६९ ॥ नागलोकस्य सङ्घोभं दृष्ट्वा भूयोऽपि सोऽहिराट् । अकुप्यद् विकटाकार, आरास्पृष्ट इव द्विपः ॥ १७० ॥ अवोचच्च सगरजाः, पितृवैभवदुर्मदाः । न सामयोग्यास्ते किन्तु, दण्डार्हा रासभा इव ॥ एकोऽपराधो भवनभ्रंशरूपो व्यपद्यत । मयाऽकारि न शिक्षा यत्, तैस्तन्मन्तूंयितं पुनः ॥ १७२ ॥ आरक्ष इव दस्यूनां तेषां शिक्षां करोम्यहो ! । अहमित्युद्भटं जल्पन्ननल्पाटोपभीषणः ॥ १७३ ॥ अकाल इव कालाग्निरूद्धान्तो दीप्तिदारुणः । जगद् दग्धुमना वाधेरौवैग्निरिव निर्गतः ॥ १७४ ॥ वज्रानल इवोज्वालः, स निर्गत्य रसातलात् । तत्राऽऽजगाम वेगेन, समं नागकुमारकैः ॥ १७५ ॥ ॥ त्रिभिर्विशेषकम् ॥ ईशाश्चक्रे च तान् मञ्जु, दृष्ट्या दृष्टिविषाधिपः । भस्मराशीबभ्रुवुस्ते, वह्निना तृणपूलवत् ॥ १७६ ॥ जज्ञे हाहारवस्तत्र, रोदः कुक्षिम्भरिर्महान् । लोके स्यादनुकम्पायै, सागसामपि निग्रहः ॥ १७७ ॥ षष्टिं सहस्रान् सगरात्मजानां स तान् कथाशेषतया विधाय । रसातलं नागपतिः सनागो, ययौ विवस्वानिव वासरान्ते ॥ १७८ ॥
इत्याचार्य श्री हेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये पर्वणि सगरपुत्रनिधनो नाम पश्चमः सर्गः ॥
१ शास्त्रविशेषः ।
Jain Education International
२ अपराखम् । ३ बढनाभिः ।
For Private & Personal Use Only
२३१
5
10
www.jainelibrary.org