________________
5
२३० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीय पर्व अष्टापदं पुरमिव, परितः परिखाकृते । स मां खनितुमारेभे, दण्डरत्नेन सानुजः॥ १३६ ॥ सहस्रयोजनां चोले, परिखां सगरात्मजाः । चख्नुस्तेऽथ तया नागसपानि च बभञ्जिरे ॥ १३७ ॥ नागलोकोऽखिल उपद्रूयमाणेषु सद्मसु । चुक्षोभ यादसां चक्रं, मध्यमान इवाम्बुधौ ॥ १३८॥ परचक्र इवाऽऽयाते, प्रदीपन इवोद्यते । महावात इवोद्भूते, नागास्नेसुरितस्ततः ॥ १३९ ॥ आकुलं नागलोकं चाऽऽलोकयामास तं तथा । क्रुधा ज्वलन् ज्वलनवनागराड् ज्वलनप्रभः॥१४०॥ दारितां चाऽवनी प्रेक्ष्य, किमेतदिति सम्भ्रमात् । ततो निर्गत्य सगरकुमारानाजगाम सः ॥ १४१॥ उद्दामभ्रकुटीभीम, उत्तरङ्ग इवाऽर्णवः । प्रकोपस्फुरदधर, उदर्चिरिव पावकः ॥ १४२ ॥ तप्तायस्तोमरश्रेणीरिव ताम्रा दृशः क्षिपन् । स्फारयन् नासिकारन्ध्र, वनामिधमनीनिभे ॥ १४३॥
कृतान्त इव सङ्घद्धो, दुरीक्षः प्रलयार्कवत् । ज्वलनप्रभनागेन्द्र, इत्यूचे सगरात्मजान् ॥१४४ ॥ 10 आः! किमेतदुपक्रान्तमहो! विक्रान्तमानिभिः । दुर्मदैर्दण्डरत्नाप्या, दुर्गाप्या शबरैरिव १ ॥ १४५ ॥
शाश्वतानामप्यधुना, भवनाधिपवेश्मनाम् । अकार्युपद्रवः कोऽयमप्रेक्षापूर्वकारिभिः ॥ १४६ ॥ अजितस्वामिनो भ्रातुष्पुत्रैरपि किमीदृशम् । भवद्भिर्विदधे कर्म, पिशाचैरिव दारुणम् १ ॥ १४७ ॥ अथोचे जहना नागराजेदं युक्तमभ्यधाः । अमुना वेश्मभङ्गेनामदुपज्ञेन पीडितः ॥ १४८ ॥
वेश्मनां युष्मदीयानां, भङ्गोऽस्त्विति मनीषया । वसुन्धरा न खातेयममाभिर्दण्डपाणिमिः ॥ १४९ ॥ 15 किन्त्वष्टापदतीर्थस्याऽमुष्य रक्षणहेतवे । परिखारूपतोऽस्माभिरियं खाता वसुन्धरा ॥ १५०॥
अत्र ह्यसद्वंशकन्दश्चक्रे भरतचक्रभृत् । चैत्यं रत्नमयं रत्नप्रतिमाश्चाऽर्हतां शुभाः॥१५१ ॥ भविष्यत्कालदोषेण, लोकेभ्यस्तदुपद्रवम् । शङ्कमानः प्रयत्नोऽयममाभिर्विहितः खलु ॥ १५२ ॥ भङ्गो युष्मद्वेश्मनां तु, दूरत्वान्न हि शङ्कितः। दण्डशक्तिरमोघेयं, हन्त ! तत्राऽपराध्यति ॥ १५३॥
अविमृश्यविधायित्वेनार्हद्भक्त्या च यत् कृतम् । तत् सहखाऽतः परं तु, करिष्यामोन हीदृशम् ॥१५४॥ 20 एवं जहुकुमारेणाऽनुनीतो नागराडपि । शशाम सामवागम्भः, कोपाग्नेः शमनं सताम् ॥ १५५ ॥
मा स कृढं पुन!यमीगित्यभिधाय सः । नागलोकं ययौ नागराजः सिंहो गुहामिव ॥ १५६ ॥ नागराजे गते जहाजहे सोदरानिति । परिखा विहिता तावदष्टापदगिरेरियम् ॥ १५७ ॥ किन्तु पातालगम्भीराऽप्यम्भोरिक्ताँ न भात्यसौ । बुद्धिशून्या देहभाजो, महत्यप्याकृतिर्यथा ॥ १५८ ॥
किश्च सम्भाव्यतेऽमुष्या, रजोभिरपि पूरणम् । स्थलीभवन्त्येव गर्ता, अपि कालेन गच्छता ॥ १५९ ॥ 25 पूरणीया ततोऽवश्यमियं नीरेण भूरिणा । उत्तरङ्गां विना गङ्गा, तच्च कर्तुं न पार्यते ॥ १६० ॥
साधु साध्विति सोदर्यैाहतो जहुरग्रहीत् । अमोघं दण्डरत्नं तद्, यमदण्डमिवाऽपरम् ॥ १६१ ॥ दण्डरत्नेन तेनाऽथ, गङ्गातटमदारयत् । जलुर्वज्रीव वज्रेण, महाशिखरिणस्तटीम् ॥ १६२ ॥ दण्डदारणमार्गेण, चचालाऽथ सरिद्वरा । नीयते यत्र तत्राऽम्भो, गच्छत्यृजुपुमानिव ॥ १६३ ॥ उत्क्षिप्तशैलशिखरेवाऽभ्रंलिहमहोर्मिभिः । दृढास्फालिततूर्येव, तटास्फालननिखनैः ॥ १६४ ॥ द्विगुणं दण्डभेदं च, कुर्वाणा वाम्बुरंहसा । अष्टापदाद्रिपरिखां, गङ्गा प्राप समुद्रवत् ॥ १६५ ॥
॥ युग्मम् ॥ योजनसहस्रदनी, पातालमिव भीषणाम् । सा प्रवृत्ता पूरयितुं, परिखां परितोऽपि ताम् ॥ १६६ ॥ अष्टापदाद्रिपरिखापूरणार्थमकृष्यत । जहुना यत् ततो गङ्गा, ततः प्रभृति जाह्नवी ॥ १६७ ॥ परिखां पूरयित्वा च, भूरिभिर्विवरैर्जलम् । धारायचैरिवाऽविक्षनागानां भवनेष्वथ ॥ १६८॥ १ परित इत्यर्थः । २ जलजन्तूनाम् । ३ अग्निवत् । . अविचारितकारिभिः । ५ अमस्कृतेन । सावनगर्भा वाण्येव जलम् ।
•जकन्यायोजनसहलप्रमाणाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org