________________
पञ्चमः सर्गः
त्रिषष्टिशलाकापुरुषचरितम् ।
ऋषभस्वामिनो विम्यमर्हतां भाविनामपि । स त्रयोविंशते रत्नग्रावभिर्दोषवर्जितैः ॥ १०१ ॥ स्वस्वप्रमाणसंस्थानवर्णलाञ्छनभाञ्जि तु । बिम्बानि भक्त्या परया, व्यधत्तेह यथाविधि ॥ १०२ ॥ युग्मम् ॥ चारणभ्रमणैस्तानि, बिम्बानि प्रत्यतिष्ठिपत् । बाहुबल्यादिवन्धूनां स्तूपान् मूर्तीश्च सोऽकृत ॥ १०३ ॥ स्थितोऽत्र वृषभस्वामी, तीर्थकुच्चक्रि - केशवान् । प्रतिकेशव - रामांश्च, भाविनस्तमजिज्ञपत् ॥ १०४ ॥ सोपानभूतानि पदान्यष्टाऽमुं परितो व्यधात् । भरतो येन तेनाऽयमष्टापद उदीर्यते ॥ १०५ ॥
असावस्मत्पूर्वजानामिति प्रादुर्भवन्मुदः । तं तेऽथाऽऽरुरुदुः शैलं कुमाराः सपरिच्छदाः ॥ १०६ ॥ तत्र सिंहनिषद्यायां चैत्ये प्रविविशुश्च ते । दूरादालोकमात्रेऽपि, नेमुवाऽऽदिजिनेश्वरम् ॥ १०७ ॥ अजितस्वामिबिम्बं च, चिम्बान्यन्यार्हतामपि । तुल्यया श्रद्धया नेमुर्गर्भश्राद्धा हि ते खलु ॥ १०८ ॥ अथ गन्धोदकैः शुद्धैर्मत्राकृटैरिव क्षणात् । कुमाराः स्त्रपयामासुर्विम्बानि श्रीमदर्हताम् ॥ १०९ ॥ केऽप्यद्भिर्विभराञ्चक्रुः, कलसान् केचिदार्पयन् । केचिच्च लोठयामासुः, प्रतीषुः केऽपि रेचितान् ॥ ११० ॥ 10 केऽपि स्नात्रविधिं पेटुर्जगृहुः केऽपि चामरान् । सौवर्णधूपदहनान्युपाददत चापरे ।। १११ ॥ चिक्षिर्धपदहनेष्वपरे धूपमुत्तमम् । केऽपि शङ्खादितूर्याणि वादयामासुरुच्चकैः ॥ ११२ ॥ स्नानगन्धोदकैस्तैश्च, पतद्भिस्तत्र वेगतः । अष्टापदगिरिर्जज्ञे, तदा द्विगुणनिर्झरः ॥ ११३ ॥ पक्ष्मलैः कोमलै रूक्षैर्देवदूष्योपमैः पटैः । तेऽमार्जन् रत्नबिम्बानि तानि वैकैटिका इव ॥ ११४ ॥ गोशीर्षचन्दनरसैश्चक्रुस्तेषां विलेपनम् । तेऽतिसैरन्धयः खैरं निर्भरं भक्तिशालिनः ॥ ११५ ॥ अर्चयामासुरचस्ता, विचित्रैः पुष्पदामभिः । रत्नालङ्करणैर्दिव्यैर्वस्त्रैरपि मनोहरैः ।। ११६ ॥ पुरतः स्वामिबिम्बानामिन्दुरूपविडम्बिनः । अखण्डैस्तण्डुलैः पट्टेष्वालिखस्तेऽष्टमङ्गलीम् ॥ ११७ ॥ आरात्रिकमथो चक्रुर्दिव्यकर्पूरवर्तिभिः । तेऽर्चित्वोत्तारयामासुर्दिवाकरसहोदरम् ॥ ११८ ॥ शक्रस्तवेन वन्दित्वा, रचिताञ्जलयोऽथ ते । जिनेन्द्रान्नृषभस्वामिप्रभृतीनिति तुष्टुवुः ॥ ११९ ॥ अपारघोरसंसारपारावारतरीसमाः । । निर्वाणकारणीभूता, भगवन्तः ! पुनीत नः ॥ १२० ॥ स्याद्वादवादप्रासादप्रतिष्ठासूत्रधारताम् । नय-प्रमाणैर्विद्भयो, युष्मभ्यमनिशं नमः ॥ १२१ ॥ आयोजनं गामिनी भिर्वाणीसारणिभिर्भृशम् । अशेषजगदुद्यानाध्यायकेभ्यो नमोऽस्तु वः ॥ १२२ ॥ युष्मद्दर्शनतोऽस्माभिरपि सामान्यजीविदैः । अवाप्तमापञ्चमारजीवितव्यफलं परम् ॥ १२३ ॥ कल्याणकैर्गर्भ जन्म-प्रत्रज्या-ज्ञान- मुक्तिभिः । नारकाणामपि सुखप्रदेभ्यो वो नमो नमः ॥ १२४ ॥ मेघानामिव वायूनामिव चन्द्रमसामिव । अर्काणामिव भवतां, साधारण्यं श्रियेऽस्तु नः ।। १२५ ।। अष्टापदगिरावत्र, धन्यास्ते पक्षिणोऽपि हि । निरन्तरायाः पश्यन्ति, भवतो ये दिने दिने ॥ १२६ ॥ जीवितं चरितार्थं नः, कृतार्थो विभवश्च नः । युष्मदालोकना -ऽर्चाभिश्चिररात्रीय सम्प्रति ॥ १२७ ॥ इति स्तुत्वा नमस्कृत्य, भूयोऽपि श्रीमदर्हतः । प्रासादान्निर्ययुस्तस्मान्मुदिताः सगरात्मजाः ॥ १२८ ॥ ववन्दिरे ते भरत भ्रातृस्तूपांश्च पावनान् । किञ्चिद् ध्यात्वा ततो जह्रुरुवाचाऽवरजानिति ॥ १२९ ॥
25
अष्टापदसमं स्थानं, मन्ये क्वाऽपि न विद्यते । कारयामो वयमत्र, चैत्यमेतदिवाऽपरम् ।। १३० ॥ 30 मुक्तोऽपि भरतक्षेत्रं, भुङ्क्ते भरतचत्रयहो ! । गिरौ भरतसारेऽत्र, चैत्यव्याजादवस्थितः ॥ १३१ ॥ एतदेव कृतं चैत्यमस्माभिश्चेद् विधीयते । भाविभिर्लुप्यमानस्य चैत्यस्याऽमुष्य रक्षणम् ॥ १३२ ॥ प्रवृत्ते दुःषमाका, भविष्यन्ति नरा यतः । अर्थलुब्धा हीनसच्चाः, कृत्या कृत्या विचारकाः ।। १३३ ।। प्रत्यग्रधर्मस्थानस्य करणादधिकं ततः । चिरन्तनानां हि धर्मस्थानानां परिरक्षणम् ॥ १३४ ॥ आमित्युक्ते कनीयोभिर्दण्डरत्नमुपाददे । ततो जहुः सहस्रांशुरिव तेजोभिरुल्वणैः ॥ १३५ ॥
Jain Education International
२२९
For Private & Personal Use Only
5
15
35
१ जगृहुः । २ रिकान् । ३ मणिकारा इव । ४ प्रीणयन्त्रयः । ५ साम्यभावः । ६ निर्विज्ञाः । ७ चिरम् । ८ कक्षुभान् । त्रिषष्टि. ३०
20
www.jainelibrary.org