________________
R२८ कलिकालसर्वबानीहेमचन्द्राचार्यप्रणीत
[द्वितीयं पर अजायत रजोवृष्टिः, शुष्काभ्रक्षोदसोदरा । सम्मुखो वायुरुद्दण्डो, रुष्टो रिपुरिवाऽभवत् ॥ ६७॥ अशिवाश्च शिवाः कामं, दक्षिणस्था ववाशिरे । तत्स्पर्द्धयेव तत्रस्थाश्चक्रुशुः कौशिका अपि ॥ ६८॥ चिल्लाश्च मण्डलीभूय, भ्रमुर्नभसि नीचकैः । उच्चकैरापतत्कालचक्रक्रीडापरिस्पृशः ॥ ६९॥
अजायन्त च तत्कालं, गन्धेमा अपि निर्मदाः । स्रोतविन्य इव ग्रीष्मकाले निर्जलताजुषः ॥७०॥ 5 हयानां हेषमाणानां, धूमलेखा मुखान्तरात् । निर्ययुभीषणतरा, बिलेभ्य इव पन्नगाः ॥७१ ॥
तान्यवाजीगणन् सर्वाण्युत्पाताशकुनानि ते । तज्ज्ञानामपि हि नृणां, प्रमाणं भवितव्यता ॥ ७२ ॥ कृतस्त्रानाः कृतप्रायश्चित्त-कौतुकमङ्गलाः । चक्रिणः सर्वसैन्येन, ते कुमाराः प्रतस्थिरे ॥७३॥ स्त्रीरत्नवर्ज रत्नानि, सर्वाण्यपि महीपतिः । प्रजिंघाय सुतैः सार्धमात्मैव हि सुतत्वभाक् ॥ ७४ ॥
केचिद् गजवरारूढा, दिक्पालाकारधारिणः । अश्वानधिष्ठिताः केचिदतिरेवन्तमूर्तयः ॥ ७५ ॥ 10 अध्यासीना स्थान् केचिदादित्याद्या इव ग्रहाः । किरीटधारिणः सर्वेऽप्यधीशा धुसदामिव ॥ ७६ ॥
वक्षःस्थललुलद्धाराः, ससरित्का इवाऽद्रयः । देवता इव भूप्राप्ता, विविधायुधपाणयः ॥ ७७ ॥ छत्रलाञ्छितमूर्धानो, द्रुमाङ्का व्यन्तरा इव । आत्मरक्षैः परिवृता, वेलाधारैरिवाऽब्धयः ॥ ७८ ॥ अविहस्तोदस्तहस्तैः, स्तूयमानाश्च मागधैः । वसुन्धरां दारयन्तस्तुरङ्गमखुरैः खरैः ॥ ७९ ॥
तूर्यप्रणादैर्बधिरीकुर्वाणाः सर्वतो दिशः । अन्धीकुर्वन्त उत्क्षिप्तैर्भूरजोभिश्च भूरिभिः ॥ ८॥ 15 उद्यानेषु विचित्रेषूद्यानानामिव देवताः । गिरिप्रस्थेषु च गिरिकुमारा इव हारिणः ॥ ८१॥
सरित्पुत्रा इव सरित्पुलिनेषु च चारुषु। स्वच्छन्दं रममाणास्ते, बभ्रमुर्भरतावनौ ॥८२॥ अष्टमिः कुलकम् ।। ग्रामा-ऽऽकर-पुर-द्रोणमुख-खेटादिषु व्यधुः । जिनाचा विचरन्तस्ते, माला विद्याधरा इव ॥ ८३ ॥ भुञ्जाना बहुधा भोगान्, ददाना बहुधा धनम् । सुहृजनान् प्रीणयन्तो, विनिघ्नन्तोऽसुहृजनान् ॥ ८४ ॥
दर्शयन्तः पथि चलल्लक्षपातनकौशलम् । भृशमन्यापतच्छत्रग्रहणस्य च नैपुणम् ॥ ८५ ॥ 20 शस्त्राशस्त्रिकथाचित्रास्तास्ता नर्मकथा अपि । यानाधिरूढैः कुर्वाणाः, सवयोभिः समं नृपैः ॥ ८६ ॥
अप्यालोकनमात्रेण, क्षुत्तृषाहरणौषधम् । तेऽन्यदाऽष्टापदं प्रापुरास्पदं पुण्यसम्पदाम् ॥ ८७॥ महासरोभिः पीयूषनिधानमिव नाकिनाम् । उपात्तनीलसंव्यानमिव सान्द्रार्द्रपादपैः॥८८॥ महापक्षधरमिव, पयोदैः पारिपार्श्विकैः । लम्बमानपताकाङ्कमिव निर्झरवारिभिः ॥ ८९ ॥
विद्याधरविलासौको, वैताब्यमिव नूतनम् । गायन्तमिव मुदितमयूरादिकलस्वनैः ॥ ९ ॥ 25 चैत्यं सशालभञ्जीकमिव खेचर्यधिष्ठितम् । किरीटमिव मेदिन्या, रत्नोपलविनिर्मितम् ॥९१॥
नन्दीश्वरद्वीपमिव, चैत्यवन्दनकाम्यया । अभीयमानं सततं, चारणश्रमणादिभिः ॥ ९२ ॥ . तं दृष्ट्वा नित्यपर्वाणं, पर्वतं स्फाटिकोपलम् । ते पप्रच्छुः स्वसचिवान्, सुबुद्धिप्रभृतीनिति ॥ ९३ ॥ वैमानिकानां स्वर्गस्थक्रीडाद्रिभ्य इवैककः । अवतीर्णो वसुमतीमयं को नाम पर्वतः ? ॥ ९४ ॥
केन चाऽभ्रंलिहमिह, विदधे चैत्यमद्भुतम् । इदं हिमवदद्रिस्थशाश्वतायतनोपमम् ? ॥ ९५ ॥ 30 अथ ते मत्रिणोऽप्यूचुः, पुराऽभूदृषभः प्रभुः । युष्मद्वंशस्याऽऽदिकरस्तीर्थस्थाऽप्यत्र भारते ॥९६॥
तत्सनुर्नवनवतेमा॑णामग्रजोऽभवत् । भरतो नाम पट्खण्डभरतक्षेत्रशासिता ॥ ९७ ॥ क्रीडागिरिरयं तस्य, चक्रिणोऽष्टापदाभिधः । अनेकाचर्यसदनं, सुमेरुरिव वज्रिणः ॥ ९८॥ साधूनां दशसाहरुया, सहेह च महीधरे । भगवानृषभखामी, जगाम पदमव्ययम् ॥ ९९ ॥ ऋषभखामिनिर्वाणानन्तरं भरतेश्वरः । चैत्यं सिंहनिषद्याख्यं, चक्रे रत्नोपलैरिह ॥१०॥
भशुभसूचकाः। अवगणयामक माहिणोत्। सूर्यपुत्राधिकरूपाः। ५ अव्याकुलोईकरैः। ६ कठोरैः। ७ मनोहराः । शत्रून् । हाखकथा।। १.उत्तरीपणस। अभिगम्यमानम् । १२ नित्योत्सवम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org