________________
२२७
पञ्चमः सर्गः]
त्रिषष्ठिशलाकापुरुषचरितम् । तस्योपरिष्टात् सौवर्णप्राकार-गृह-तोरणा । मया लङ्केति नाम्ना पूरघुनैवाऽस्ति कारिता ॥ ३४ ॥ षड् योजनानि भूमध्यमतिक्रम्य चिरन्तनी । शुद्धस्फटिकवप्राङ्का, नानारत्नमयालया ॥ ३५॥ सपादयोजनशतप्रमाणा प्रवरा पुरी । मम पाताललङ्केति, विद्यते चाऽतिदुर्गमा ॥ ३६॥ पुरीद्वयमिदं वत्साऽऽदत्व तन्नृपतिर्भव । भवत्वयैव ते तीर्थनाथदर्शनजं फलम् ॥ ३७॥ इत्युक्त्वा राक्षसपतिर्माणिक्यैवभिः कृतम् । ददौ तस्मै महाहारं, सद्यो विद्यां च राक्षसीम् ॥ ३८॥ 5 भगवन्तं नमस्कृत्य, तदैव घनवाहनः । आगत्य राक्षसद्वीपे, राजाऽभूल्लङ्कयोस्तयोः ॥ ३९॥ राक्षसद्वीपराज्येन, राक्षस्या विद्ययाऽपि च । तदादि तस्य वंशोऽपि, ययौ राक्षसवंशताम् ॥ ४०॥ एवं स्थिते च सर्वज्ञो, विहरनन्यतो ययौ । खं खं स्थानं ययुस्तेऽपि, सुरेन्द्र-सगरादयः ॥४१॥
इतः पुनश्चतुःषष्टिसहस्रस्त्रीभिरन्वितः । रंतिसागरनिमग्नो, नाकीवाऽरंस्त चक्रभृत् ॥ ४२ ॥ तस्याऽन्तःपुरसम्भोगजन्मा म्लानिरपास्यैत । स्त्रीरत्नभोगादध्वन्यश्रमोऽपाच्यनिलादिव ॥ ४३ ॥ 10 एवं सुखं वैषयिकं, तस्याऽनुभवतोऽनिशम् । जहुप्रभृतयः षष्टिसहस्रा जज्ञिरे सुताः॥ ४४ ॥ धात्रीभिः पाल्यमानास्ते, क्रमाद् ववृधिरे सुताः । उद्यानपालीभिरिवोद्यानजाता महीरुहाः ॥ ४५ ॥ ते कलाग्रहणं चक्रुः, शनै रेंजनिजानिवत् । वपुःश्रीवल्युपवनं, यौवनं च प्रपेदिरे ॥४६॥ ते निजं दर्शयामासुरस्त्रविद्यासु कौशलम् । ददृशुः परकीयं च, न्यूनाधिकदिदृक्षया ॥४७॥ वाह्याल्यां भ्रमिमानीय, समुद्रावर्त्तलीलया । दुर्दमानप्यदमयन् , शूकलांस्ते कलाविदः ॥४८॥ 15 दुपत्रस्याऽप्यसहनान् , स्कन्धदेशविवर्तिनः । व्यालानपि वशीचक्रुः, कुञ्जरांस्तेऽतिनिर्जराः ॥ ४९ ॥ उद्यानादिषु ते खैरं, रेमिरे सर्वयोवृताः । अवन्ध्यशक्तयो विन्ध्याटव्यां मदकला इव ॥५०॥
अथ चक्रिणमन्येद्युः, सगरं सदसि स्थितम् । इति विज्ञपयामासुस्ते कुमारा महौजसः ॥५१॥ अमरो मागधपतिः, प्राचीमुखविभूषणः । दक्षिणाशैकतिलको, वरदामपतिस्तथा ॥ ५२ ॥ पश्चिमाशाकिरीटश्रीः, प्रभासाधिपतिः स च । भुजे इव भुवो गङ्गा-सिन्धू अपि सरिद्वरे ॥ ५३ ॥ 20 वैताढ्याद्रिकुमारश्च, भरताम्भोजकर्णिका । कृतमालस्तमिस्राद्वा क्षेत्रपाल इवोचकैः ॥ ५४॥ भरतावधिभूस्तम्भो, हिमाचलकुमारकः । खण्डप्रपाताधिष्ठानो, नाट्यमालः स चोत्कटः ॥५५॥ नैसर्पप्रमुखास्ते च, नवाऽपि निधिदेवताः । दिवौकसोऽप्येवममी, नृवत् तातेन साधिताः ॥ ५६ ॥
॥ पञ्चभिः कुलकम् ॥ षट्खण्डमरिषड्वर्गवदिदं वसुधातलम् । स्वयमेव पराजिग्ये, तातेनाऽमिततेजसा ।। ५७ ॥ 25 कृत्यशेषं न ते किश्चिदस्ति दोर्विक्रमोचितम् । त्वत्पुत्रत्वं ज्ञापयामो, यत् कृत्वा देव ! सम्प्रति ॥५८ ॥ तातेन साधितेऽमुष्मिन् , भूतले सकलेऽपि तत् । स्वेच्छाविहरणेनैव, तात ! पुत्रत्वमस्तु नः ॥ ५९ ॥ ततस्तातप्रसादेन, भवनाङ्गणवद् भुवि । वयं विहर्तुमिच्छामः, स्वच्छन्दं वनहस्तिवत् ॥ ६ ॥ प्रणयप्रार्थनां तां च, स तेषां प्रत्यपद्यत । महत्सु याज्जाऽन्यस्यापि, न मुधा किं पुनस्तुकाम् ॥६१॥ अथ ते पितरं नत्वा, निजावासानुपेत्य च । दुन्दुभीस्ताडयामासुर्यात्रामङ्गलसूचकान् ॥ ६२॥ 30 धीराणामपि सङ्क्षोभदायीन्यशुभदानि च । उत्पाताशकुनान्येषां, तदानीमिति जज्ञिरे ॥ ६३ ॥
मार्तण्डमण्डलं केतुशताकुलमजायत । रसातलद्वारमिव, महोरगकुलाकुलम् ॥ ६४॥ सञ्जातमध्यच्छिद्रं च, रजनीकरमण्डलम् । अदृश्यत नवोत्कीर्णदन्तताडङ्कसन्निभम् ॥६५॥ वातान्दोलितवल्लीव, चकम्पे च वसुन्धरा । शिलाशकलवृष्ट्यामा, जाताः करकवृष्टयः ॥६६॥
कामकीडासकः। २ देवः। ३ननाश । दक्षिणपवनात् । ५ चन्द्रवत् । ६ दुष्टान् । ७ देवेभ्योऽप्यधिकाः । मित्रताः। ९मत्तगजाः। १० यत् कार्य कृत्वा वयं त्वत्पुना इति ज्ञापयामः । ११ अपत्यानाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org