________________
२२६ कलिकालसर्पज्ञश्रीहेमचन्द्राचार्यप्रणीतं
द्वितीय पर्व पञ्चमः सर्गः। अथ साकेतनगरोद्यानेऽजितजिनेश्वरः । भगवान् समवासार्षीत् , सेव्यमानः सुरा-ऽसुरैः॥१॥ वासवादिषु देवेषु, सगरादिषु राजसु । आसीनेषु यथास्थानं, विदधे देशनां विभुः ॥२॥ तदा च वैतात्यगिरौ, पूर्णमेचं सहस्रदृक् । सरन् पितृवधं क्रुद्धोऽवधीत् तार्क्ष्य इवोरगम् ॥३॥ पूर्णमेघात्मजस्तमानष्टोऽथ घनवाहनः । तत्राऽऽजगाम समवसरणे शरणेच्छया ॥४॥ स त्रिः प्रदक्षिणीकृत्य, भगवन्तं प्रणम्य च । उपपादमुपाविक्षदुपवृक्षमिवाऽध्वगः ॥५॥ समाकृष्यापि पातालाद्, भ्रंशयित्वा दिवोऽपि तम् । बलीयसो वा शरणाद, कृष्ट्वा हन्मीति विघुवन् ॥६॥ तखाऽनुपदमेवाऽथ, सहस्राक्ष उदायुधः । आगात् समवसरणेऽपश्यञ्च घनवाहनम् ॥७॥ प्रशान्तकोपस्त्यक्तास्त्रः, प्रभावात् परमेशितुः । नत्वा प्रदक्षिणापूर्व, यथास्थानमुपाविशत् ॥ ८॥ सगरश्चक्रभृदथ, पप्रच्छ परमेश्वरम् । किं वैरकारणं खामिन्!, पूर्णमेघ-सुनेत्रयोः॥९॥
आचख्यौ भगवानेवमादित्याभे पुरे पुरा । अभवद् भावनो नाम, द्रव्यकोटीश्वरो वणिक् ॥१०॥ खसूनोहरिदासस्य, सोऽर्पयित्वाऽखिलं धनम् । देशान्तरं वणिज्याय, जगाम श्रेष्ठिभावनः ॥११॥ विदेशेद्वादशाब्दानि, स्थित्वोपाज्ये महद् धनम् । आययो.भावनश्रेष्ठी, तस्थौ च नगराद् बहिः॥१२॥ तत्र मुक्त्वा परीवारमेकाक्यपि हि भावनः । निश्याययौ निजे समन्युत्कण्ठा हि बलीयसी ॥ १३ ॥ प्रविशन् हरिदासेन, चौरोऽसाविति शङ्कया । निहतः खड्गघातेन, विमर्शः काऽल्पमेधसाम् १ ॥१४॥ खस व्यापादकं ज्ञात्वा, तदानीमपि भावनः । तत्कालकलितद्वेषा, कालधर्ममुपाययौ ॥१५॥ स ज्ञात्वा पितरं पश्चात् , पश्चात्तापकदर्थितः । चकार प्रेतकार्याणि, सशैल्यस्तेन कर्मणा ॥ १६ ॥ विपेदे हरिदासोपि, गते काले कियत्यपि । दुःखदान् द्वावपि ततो, प्रेमतुः कतिचिद् भवान् ॥१७॥ किञ्चिच सुकृतं कृत्वा, जीवोऽभूद् भावनस्य तु । पूर्णमेघो हरिदासजीवस्त्वासीत् सुलोचनः॥१८॥ इति प्राग्जन्मसंसिद्धं, पूर्णमेघ-सुनेत्रयोः । वैरं प्राणान्तिकं राजनैहिकं त्वानुषङ्गिकम् ॥ १९ ॥
भूयोऽपि सगरोऽपृच्छत् , तत्सन्वोरनयोमिथः । को वैरहेतुः ? स्नेहश्च, सहस्राक्षे कुतो मम ॥२०॥ खम्यूिचे दानशीलस्त्वं, परिव्राइ रम्भकाभिधः । प्राग्भवेऽभूस्तवाऽभूतां, शिष्यौ शश्यावली विमौ ॥ अभूच्चाऽतिविनीतत्वादावलिस्तेऽतिवल्लभः । गोधेनुमेकामक्रीणादन्यदा द्रविणेन सः ॥ २२ ॥
मैदं गोखामिनः कृत्वा, कठोरहृदयः शशी । अन्तराले पतित्वैव, तां क्रीणाति स धेनुकाम् ॥ २३ ॥ 25 केशाकेशि मुष्टामुष्टि, दण्डादण्डि तयोस्ततः । युद्धं प्रववृते घोरं, शशिना चाऽऽवलिर्हतः ॥२४॥
शशी चिरं भवं प्रान्त्वा, जज्ञेऽसौ मेघवाहनः । आवलिस्तु सहस्राक्षस्तदिदं वैरकारणम् ॥२५॥ प्रान्त्वा दानप्रभावेण, रम्भकोऽपि गतीः शुभा'। चश्यभूस्त्वं सहस्राक्षे, स्नेहः प्राग्जन्मभूश्च ते॥२६॥ ___ अथ रक्षापतिीमो, निषण्णस्तत्र पर्षदि । उत्थायाऽऽलिङ्ग्य रमसान्मेघवाहनमब्रवीत् ॥ २७ ॥ पुष्करद्वीपभरतक्षेत्रे वैताव्यपर्वते । प्राग्भवे काश्चनपुरे, विद्युइंष्ट्रो नृपोऽभवम् ॥२८॥ सिन् भवे ममाऽभूस्त्वं, तनयो रतिवल्लभः । अत्यन्तवल्लभो वत्स, साधु दृष्टोऽसि सम्प्रति ॥ २९ ॥ तदेवं सम्प्रत्यपि मे, पुत्रोऽसि परिगृह्यताम् । सैन्यं मदीयं त्वदीयमथाऽन्यदपि यम्मम ॥३०॥ लवणोदे पयोराशी, दुर्जेयो घुसदामपि । योजनानां सप्तशती, दिक्षु सर्वासु विस्तुतः ॥ ३१ ॥ राक्षसदीप इत्यस्ति, सर्वद्वीपशिरोमणिः । तदन्तरे त्रिकूटाद्रि मिनाभौ सुमेरुवत् ॥ ३२ ॥ महविलयाकारो, योजनानि नवोन्नतः । पञ्चाशतं योजनानि, विस्तीर्णोऽस्त्यतिदुर्गमः ॥३३॥
समीपम् । २ विचारः। । दुखसहितः।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org