________________
चतुर्थः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम् ।
२२५
३६४ ॥
अभिषेकं महीभर्तुश्चक्रुर्देवादयः क्रमात् । सौवर्णै राजतै रातैः, कलशैः कमलाननैः || ३६२ ॥ युग्मम् || वाससा देवदुष्येण राज्ञो ममृजुश्च ते । हस्तेन मृदुना सौधभित्ति चित्रकरा इव ॥ ३६३ ॥ दर्दर-मलयमषैरथ गन्धैः सुगन्धिभिः । राज्ञोऽङ्गं छुरयामासुर्ज्योत्स्नयेव नभस्तलम् ॥ दिव्यं च सुमनोदामोदामगन्धर्द्धिबन्धुरम् । खानुरागमिव दृढं बबन्धुर्मूर्ध्नि भूपतेः ॥ ३६५ ॥ वासांसि देवदूष्याणि, रत्नालङ्करणानि च । ततस्तदुपनीतानि, पर्यधाद् वसुधाधवः || ३६६ ॥ ततश्चक्रधरस्तत्र, मेघध्वनितधीरया । गिरा स्वनगराध्यक्षं समादिक्षदिति स्वयम् ॥ ३६७ ॥ अदण्ड-शुल्कामभटप्रवेशामकरामिमाम् । महोत्सवां कुरु पुरीं यावद् द्वादशवत्सरीम् ॥ ३६८ ॥ इत्याज्ञां नगराध्यक्षो, हस्त्यारूढैर्निजैर्नरैः । पुर्यामाघोषयामास, सद्यो डिण्डिमिकैरिव ॥ ३६९ ॥ इत्थं चत्रिपदाभिषेकपिशुनः षट्खण्डपृथ्वीपतेस्तस्य स्वर्नगरीविलासविभवस्तेयत्रतायां पुरि । प्रत्यङ्कं प्रतिमन्दिरं प्रतिपथं वाऽऽनन्दमुन्मुद्रयनुच्चैर्द्वादश वत्सराणि समभूत् तस्यां महानुत्सवः ॥ ३७० ॥ 10 इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये पर्वणि सगरदिग्जयचक्रवर्तित्वाभिषेकवर्णनो नाम चतुर्थः सर्गः ॥
Jain Education International
For Private & Personal Use Only
5
www.jainelibrary.org