________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं
[ द्वितीयं पर्व
भीतेव वेपथुमती, विवर्णा रोगभागिव । उदथुः शोकमग्नेव, योगिनीव लयस्थिता ॥ ३२९ ॥ क्षणादवस्थावैचित्र्यं, प्रपेदे तव दर्शनात् । तत् त्रायस्व जगत्रातर्न यावत् सा विपद्यते ॥ ३३० ॥ सौविदले वदत्येवं, सहस्रनयनोऽपि सः । आययौ नभसा तत्र, नमश्चक्रे च चक्रिणम् ॥ ३३१ ॥ सोऽनुमान्य निजावासेऽनैषीत् सगरचक्रिणम् । स्त्रीरत्नस्य सुकेशाया, दानाच्च तमतोषयत् ॥ ३३२ ॥ 5 ततश्च तौ विमानेन, सहस्रेक्षण - चक्रिणौ । वैताढ्यशैले ययतुः पुरं गगनवल्लभम् ॥ ३३३ ॥ निवेश्य पैतृके राज्ये, सहस्रनयनं ततः । सर्वविद्याधराधीशं व्यधत्त धरणीधवः ॥ ३३४ ॥
स्त्रीनं तदुपादाय, सगरचक्रवर्त्यथ । जगाम साकेतपुरं, पुरन्दरपराक्रमः ॥ ३३५ ॥ समुद्दिश्य विनीतां च, चक्रेऽष्टमतपो नृपः । पौषधं पौषधागारे, प्रपेदे च यथाविधि ॥ ३३६ ॥ अष्टमान्ते च निष्क्रम्य, पौषधागारतस्ततः । समं परिजनैश्चक्रे, पारणं धरणीधवः ॥ ३३७ ॥ 10 पदे पदे तोरणिनीं, भ्रूविकारवतीमिव । मुक्तास्वस्तिकसन्दोहकान्तिभिः सस्मितामिव ॥ ३३८ ॥ अट्टशोभापताकाभिर्नर्तनायोद्भुमिव । धूपघट्युत्थधूमाल्या, कृतपत्रलतामिव ॥ ३३९ ॥ मञ्चस्थरत्नपात्रीभिर्नेत्रविस्तारिणीमिव । मञ्चैर्विचित्रैरचितशयनीयामिवोच्चकैः ।। ३४० ॥ विमानकिङ्किणीक्काणैर्मङ्गलोद्वायनीमिव । पुरीं वासकसज्जां तां प्रविवेश विशांपतिः ॥ ३४१ ॥ ॥ चतुर्भिः कलापकम् ॥
15 उत्तोरणमुत्पताकमुद्वैतालिकमङ्गलम् । विमानमिव शक्रः स्वं गृहाङ्गणमगानृपः ॥ ३४२ ॥ सान्निध्यभाजां देवानां स सहस्राणि षोडश । द्वात्रिंशतं सहस्राणि तथा वसुमतीभुजाम् ॥ ३४३ ॥ महारत्नानि सेनानी - पुरोध - गृहि-वर्धकीन् । त्रीणि त्रिषष्टियुक्तानि, सूपकारशतानि च ॥ ३४४ ॥ श्रेणिप्रश्रेणिका अष्टादश चाऽन्यानपि क्रमात् । दुर्गपाल -श्रेष्ठि- सार्थवाहादीन् व्यसृजत् स्वयम् ॥ ३४५ ॥ ॥ त्रिमिर्विशेषकम् ॥ 20 सान्तःपुरपरीवारः, स्त्रीरत्नेन समन्वितः । सतां मन इवोदारं, राजा वेश्माविशन्निजम् ॥ ३४६ ॥ तत्र स्नानगृहे स्नात्वा, देवतावसरौकसि । कृतदेवार्चनो राजा, बुभुजे भोजनौकसि ॥ ३४७ ॥ सङ्गीतकैर्नाटकैश्च, विनोदैरपरैरपि । ततश्चाऽरंस्त सगरः, साम्राज्यश्रीलताफलैः ॥ ३४८ ॥
एत्याsपरेद्युः सगरं, देवाद्या एवमभ्यधुः । विदधे भारतं क्षेत्र, वशंवदमिदं त्वया ॥ ३४९ ॥ युष्माकं चक्रवर्तित्वाभिषेकमधुना वयम् । करिष्यामो ऽर्हतो जन्माभिषेकमिव वासवाः ॥ ३५० ॥ अनुजज्ञे च तांश्चक्री, लीलोन्नमितया भ्रुवा । महात्मानः प्रणयिनां प्रणयं खण्डयन्ति न ॥ ३५१ ॥ अथाऽऽभियोगिका देवाः पुर्या उत्तरपूर्वतः । विचक्रुरभिषेकाय, मण्डपं रत्नमण्डितम् ॥ ३५९ ॥ समुद्र-तीर्थ-हदिनी - हृदेभ्यः पावनीरपः । गिरिभ्यश्चौषधीर्दिव्यास्तत्राऽऽनिन्युर्दिवौकसः ॥ ३५३ ॥
अथ सान्तःपुरः सस्त्रीरत्नश्चक्रधरोऽविशत् । तं रत्नमण्डपं रम्यं, रत्नाचलगुहामिव ॥ ३५४ ॥ समृगेन्द्रासनं तत्र, स्नानपीठं मणीमयम् । नृपः प्रदक्षिणीकृत्याऽऽहिताग्निरिव पावकम् ।। ३५५ ।। सान्तः पुरस्तदारुह्य, पूर्वसोपानवर्त्मना । सिंहासनमलश्चक्रे, प्राङ्मुखः पृथिवीपतिः ॥ ३५६ ॥ द्वात्रिंशद्राजसहस्राण्युदक्सोपानवर्त्मना । आरुह्य तत्र न्यषदन्, हंसाः कमलपण्डवत् ॥ ३५७ ॥ स्वस्वभद्रासनासीना, बद्धाञ्जलिपुटाश्च ते । तस्थुः स्वामिनि दत्ताक्षाः शक्रे सामानिका इव ॥ ३५८ ॥ सेनापतिर्गृहपतिः, पुरोधा वर्धकिस्तथा । अपरे बहवः श्रेष्ठि- सार्थवाहादयोऽपि हि ।। ३५९ ।। स्नानपीठं तदारुह्याऽपाच्यसोपानवर्त्मना । निषेदुः स्वस्वस्थानेषु, ज्योतींषीव नभस्तले ॥ ३६० ॥ युग्मम् ॥ तस्मिन् शुभे दिने वारे, नक्षत्रे करणेऽपि च । योगे चन्द्रे च लग्ने च, सर्वग्रहबलान्विते ॥ ३६१ ॥ १ म्रियते । २ क्रचुकिनि । * 'नुशाप्य निजा' सङ्घ १ ॥ ३ प्रियसमागमवाखरे सज्जाम् ।
25
30
35
२२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org