________________
चतुर्थः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
२२३ ततो निववृते चक्री, चक्ररत्नपथानुगः । ऋद्ध्या महत्या सम्पूर्णः, पोतो द्वीपान्तरादिव ॥ २९७ ॥
॥दशभिः कुलकम् ।। ग्रामेशैर्दुर्गपालैश्च, मण्डलेशैश्च वर्त्मनि । क्रियमाणोचितार्थश्रीवितीयाचन्द्रमा इव ॥ २९८ ॥ प्रसारिभिरभिव्योम, पुरतः सैन्यरेणुभिः । शस्यमानागमो दूराद्, वर्धापकनरैरिव ॥ २९९ ॥ हेषितै हितैर्बन्दिघोषैस्तूर्यारवैरपि । स्पर्धयेव प्रसृमरैर्दिशो बधिरयन्निव ॥ ३०० ॥ दिने दिने योजनिकैः, प्रयाणैः सुखमापतन् । सगरो नगरी प्राप, विनीतां दयितामिव ॥ ३०१॥
॥ चतुर्भिः कलापकम् ॥ विनीतायाः परिसरे, सरित्पतिरिवावधौ । निवेश्य शिबिरं राजाऽवतस्थे स्थेमपर्वतः ॥ ३०२ ॥
तत्राऽपरेयुः सगरो, वाह्याल्यां वाहकेलये । एकं सूकलमारुह्य, ययौ सर्वकलानिधिः ॥ ३०३ ॥ तत्र विक्रमयामास, चतुरं तं तुरङ्गमम् । उत्तरोत्तरधारासु, क्रमेणाऽऽरोपयच्च सः ॥ ३०४ ॥ 10 आरूढः पञ्चमी धारामुत्पपात नभस्तले । वल्गादिसंज्ञानभिज्ञीभूतो भूतैरिवाश्रितः ॥ ३०५ ॥ सगरं सोऽपहृत्याऽश्वोऽश्वरूप इव राक्षसः । महारण्ये प्रचिक्षेप, कोलाक्षेपेण रंहसा ॥ ३०६ ॥ वलगां सामर्षमाकृष्योरुभ्यां चाऽऽक्रम्य पार्श्वयोः । दधार सगरोऽश्वं तं, झम्पां दत्त्वोत्ततार च ॥३०॥ विधुरस्तुरगः सोऽपि, पपात पृथिवीतले । पृथ्वीनाथोऽपि पादाभ्यामेव गन्तुं प्रचक्रमे ॥ ३०८ ॥ यावत् किञ्चिद् ययौ तावद्, ददशैकं महासरः । आदित्यकरपर्यस्तां, भूभ्रष्टामिव चन्द्रिकाम् ॥ ३०९ ॥ 15 तत्र श्रमापनोदाय, सत्रौ वन्य इव द्विपः । स्वादु स्वच्छं पद्मगन्धि, शीतं च स पयः पपौ ॥ ३१०॥ निर्ययौ सरसस्तस्मात् , स तस्थौ तीरसीमनि । ददर्श चैकां युवति, जलदेवीमिवाऽग्रतः ॥ ३११ ॥ तां नवाम्भोजवदनां, नीलोत्पलविलोचनाम् । तरङ्गायितलावण्यजलां चक्रयुगस्तनीम् ॥ ३१२ ॥ मेरकोकनदोद्दामपाणि-पादमनोरमाम् । शरीरिणी सरोलक्ष्मी, स पश्यन्नित्यचिन्तयत् ॥ ३१३ ।। अप्सराः किं ? व्यन्तरी किं?, किमथो नागकन्यका । विद्याधरी वा किमियं ?, न सामान्येदृशी भवेत् ।। 20 न तथा हृदयानन्दं, करोति सरसीजलम् । यथा दर्शनमतस्याः, सुधावृष्टिसहोदरम् ॥ ३१५ ॥ तयाऽपि ददृशे राजा, राजीवदलचक्षुषा । ततः संवरितेनेवाऽनुरागेण तदैव हि ॥ ३१६ ॥ सद्योऽपि कामविधुरा, सा सखीभिः कथञ्चन। संस्थाप्याऽऽनीयताऽऽवासे, म्लाना सायमिवाजिनी॥३१७॥ सगरोऽपि सरस्तीरे, शनैर्गच्छन् स्मरातुरः । एत्य कञ्चुकिना नत्वा, चैवमूचे कृताञ्जलिः ॥ ३१८॥
खामिनिहैव भरतक्षेत्रवैताठ्यपर्वते । वल्लभं सम्पदामस्ति, पुरं गगनवल्लभम् ॥ ३१९ ॥ 25 विद्याधरपतिस्तत्र, ख्यातो नाम्ना सुलोचनः । त्रिलोचनसखः पुर्यामलकायामिवाऽभवत् ॥ ३२० ॥ सहस्रनयनो नाम, तस्याऽस्ति तनयो नयी । सुकेशा दुहिता चेयं, विश्वस्त्रैणशिरोमणिः ॥ ३२१॥ नैमित्तिकेन चैकेन, जातमात्राऽपि वर्णिता । स्त्रीरत्नमेषा महिषी, भवित्री चक्रवर्तिनः ॥ ३२२ ॥
इतश्च पूर्णमेघेन, रथनूपुरभूभुजा । भूयो भूयो याचितेयमुद्वोढुमनुरागिणा ॥ ३२३ ॥ तां पितर्यददाने च, हतुकामो हठादपि । पूर्णमेघो मेघ इव, गर्जन् योद्धुमुपाययौ ॥ ३२४ ॥ 30 पूर्णमेघश्चिरतरं, योधयित्वा सुलोचनम् । चक्रे दीर्घभुजो दीर्घनिद्रामुद्रितलोचनम् ॥ ३२५ ॥ खधनं तद्धन इवोपादाय भगिनीमिमाम् । सहस्रनयनोत्राऽऽगान्महात्मन् ! सपरिच्छदः ॥३२६॥ सरोवरे तया चेह, क्रीडन्त्या त्वमसीक्षितः । शिक्षिता चाऽऽशु' कामेन, विकारं वेदनामयम् ॥ ३२७ ॥ - घाव स्वेदवती, स्तब्धा पाश्चालिकेव सा । शीतातेव सरोमाञ्चा, श्लेष्मलेव स्खलत्स्वरा ॥ ३२८॥
पराक्रमगिरिः । २ अश्वक्रीडाभूमौ । ३ अश्वक्रीडायै । ४ उद्धताश्चम् । ५ अविलम्बेन । * °स्तभू सङ्घ ३ ॥ ६ रक्तकमलम् । कमलपत्रनेत्रया। कामार्दिता। ९कुबेरः।१०खीणां समूहः बैणम् । श्रेष्मवतीव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org