________________
२२२ कलिकालसर्मनश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीय पर्व विसृज्य गङ्गां सगरो, विदधेऽष्टमपारणम् । अष्टाह्निकोत्सवं चाऽस्याः, प्रीतये प्रीतमानसः ॥ २६३ ॥
चक्रादिष्टेन मार्गेण, दिशा दक्षिणया ततः । सोऽखण्डविक्रमः खण्डप्रपाताभिमुखं ययौ ॥२६४॥ आरात् खण्डप्रपातायाः, स्कन्धावारं न्यधत्त सः । नाट्यमालकमुद्दिश्याष्टमभक्तं चकार च ॥२६५।। अष्टमान्ते नाव्यमालो, विज्ञायाऽऽसनकम्पतः। सोपायन उपागच्छद्, ग्रामेश इव भूपतिम् ॥ २६६ ॥ नानाविधानलङ्कारान्, स ददौ चक्रवर्तिनः । प्रत्यपद्यत सेवां च, विनीतो मण्डलेशवत् ॥ २६७ ॥ विसृज्य तं च सगरः, पारणानन्तरं मुदा । अष्टाह्निकां तस्य चक्रे, कृतप्रतिकृतोपमाम् ॥ २६८॥
अथ चक्रधरादेशात, सेनानीरर्धसेनया । सिन्धुनिष्कुटवद् गाङ्गं, प्राग्निष्कुटमसाधयत् ॥ २६९ ॥ वैताढ्यपर्वतश्रेणिद्वयविद्याधरानथ । पर्वतीयानिव नृपान्, सगरस्तरसाऽजयत् ॥ २७० ॥
रत्नालङ्कार-वासांसि, हस्तिनस्तुरगांश्च ते । चक्रनाथस्य ददिरे, सेवां च प्रतिपेदिरे ॥ २७१ ॥ 10 विद्याधरान् धराधीशः, सत्कृत्य विससर्ज तान् । तुष्यन्ति हि महीयांसः, सेवामय्या गिराऽपि हि ॥२७२॥
नृपादेशेन सेनानीरष्टमादिपुरःसरम् । तमिस्रावद् गुहां खण्डप्रपातामुदघाटयत् ॥ २७३ ॥ सगरो गजमारुह्य, तत्कुम्भे दक्षिणे मणिम् । मेस्मृङ्ग इवाऽदित्यं, न्यस्य तां प्राविशद् गुहाम् ॥२७४॥ मण्डलान्यालिखन् प्राग्वत्, काकिण्या पार्श्वयोर्द्वयोः । उत्तीर्य प्राग्वदुन्मना-निमग्ने निम्नगे अपि ॥२७५॥ गुहाया मध्यतस्तस्या, अपारद्वारेण भूपतिः । स्वयमुद्घाटितेनाऽथ, नद्योघ इव निर्ययौ ॥ २७६ ॥ गङ्गायाः पश्चिमे कूले, स्कन्धावारं न्यधान्नृपः । उद्दिश्य निधिरत्नानि, विदधे चाऽष्टमं तपः ॥ २७७ ॥ तदन्ते नैसर्प-पाण्डू, पिङ्गालः सर्वरत्नकः। महापद्मः काल-महाकालौ माणव-शङ्खको ॥२७८॥ इत्येते नव निधयः, कृतसन्निधयोऽमरैः । सहस्रसङ्ख्यैः प्रत्येकं, नरेन्द्रमुपतस्थिरे ॥ २७९ ॥ इत्यूचुस्ते वयं गङ्गामुखमागधवासिनः । आगतास्त्वां महाभाग, त्वद्भाग्येन वशीकृताः ॥२८॥
यथाकाममविश्रान्तमुपभुङ्ग प्रयच्छ च । अपि क्षीयेत पाथोऽब्धौ, न तु क्षीयामहे वयम् ॥ २८१ ॥ 20 नैवभिर्यक्षसहस्रैः, किङ्करैरिव तावकैः । आपूर्यमाणाः सततं, चक्राष्टकप्रतिष्ठिताः ॥ २८२ ॥ द्वादशयोजनायामा, नवयोजनविस्तृताः। भूमध्ये सञ्चरिष्यामो, देव ! त्वत्पारिपार्श्विकाः ॥ २८३ ॥
॥चतुर्भिः कलापकम् ॥ तद्वाचमनुमन्याऽथ, भूपतिः कृतपारणः । अष्टाह्निकोत्सवं तेषामकार्षीदातिथेयवत् ।। २८४ ॥
सेनानीः सगरादेशाद्, द्वितीयमपि निष्कुटम् । प्राचीनं जाह्नवीदेव्याः, साधयामास खेटवत् ॥२८५॥ 25 चतुर्भिनिष्कुटैगङ्गा-सिन्ध्वोर्मध्यस्थितेन च । खण्डद्वयेन षदखण्डं, भारतं वर्षमित्यदः ॥ २८६ ॥
द्वात्रिंशताऽब्दसहस्रैः, सगरस्तदशात् सुखम् । अनुत्सुकानां शक्तानां, लीलापूर्वाः प्रवृत्तयः ॥२८॥ चतुर्दशमहारत्नपतिर्नवनिधीश्वरः । द्वात्रिंशता सहस्रैश्च, सेव्यमानो महीभुजाम् ॥ २८८ ॥ जायानां राजपुत्रीणां, वैः सहस्रैः समन्वितः। सहस्रैर्जानपदीनां, स्त्रीणां तावद्भिरन्वितः॥ २८९ ॥
द्वात्रिंशतो जनपदसहस्राणामधीश्वरः । द्वासप्ततेः पुरवरसहस्राणां च शासिता ॥ २९० ॥ 30 एकसहस्रोनद्रोणमुखलक्षस्य चाऽधिपः । पत्तनाष्टचत्वारिंशत्सहस्राणामधीश्वरः ॥ २९१ ॥
कबेटानां मडम्बानां, चतुविशिसहस्रपः । चतुदेशसहरूयाश्च, सम्बाधानामपीश्वरः ॥ २९२ ॥ खेटकानां सहस्राणि, षोडशाऽपि च रक्षिता । तथाऽऽकरसहस्राणां, विंशतेरेक ईशिता ॥ २९३ ॥ पश्चाशतः कुराज्यानामेकोनायाश्च नायकः । अन्तरोदकषट्पञ्चाशतश्च परिपालकः ॥ २९४ ॥
प्राप्तः षण्णावतिघ्रामकोटीनां स्वामितां च ताम् । पत्तीनां षण्णवत्या च, कोटिभिः परिवारितः॥२९५॥ 35 कुञ्जराणां वाजिनां च, स्थानां च पृथक् पृथक् । लक्षाभिश्चतुरशीत्या, छादितावनिमण्डलः ॥ २९६ ॥
* सहस्रैर्नवमिर्यक्षैः, किङ्क सङ्घ ३ ॥ ३ क्षुद्रग्रामवत् । २ द्वात्रिंशता। ३ अन्तरद्वीपः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org