________________
चतुर्थः सर्गः ] त्रिषष्टिशलाकापुरुषचरितम् ।
२२१ सर्वधान्यानि शाकांश्च, फलादि च गृहाधिपः । प्रातरुत्वा ददौ सायं, रत्नमाहात्म्यमीदृशम् ।। २२८ ॥ अखण्डिताभिर्धाराभिर्वर्षति स निरन्तरम् । तथैव ते मेघमुखा, दुर्वाग्भिरिव दुर्मुखाः ॥ २२९ ॥ क एते मामुपद्रोतुं, प्रवृत्ता हन्त ! दुर्धियः । एवं सकोपः सगरश्चिन्तयामास चेतसि ॥ २३० ॥ सान्निध्यकारिदेवानां, सहस्राः षोडशापि ते । कुपिता वर्मिताः सास्त्रास्तानुपेत्यैवमभ्यधुः ॥ २३१ ॥ अरे वराकाः! किमिमं, सगरं चक्रवर्तिनम् । देवादीनामप्यजय्यं, न जानीथाऽल्पमेधसः ? ॥२३२॥ 5 अपसर्पत तत् तूर्णं, चेदात्मकुशलेच्छवः । अन्यथा खण्डयिष्यामो, युष्मान् कूष्माण्डवद् वयम् ॥ २३३॥ इत्युक्तास्तैर्मेघमुखा, मेघान् संहृत्य तत्क्षणम् । प्रस्तास्तिरोदधुः क्वापि, शंफरा इव वारिणि ॥ २३४ ॥ तदापातकिरातानां, गत्वा मेघमुखाः सुराः । आदिशंश्चक्रवर्येष, न जय्योऽस्मादृशामिति ॥२३५ ॥ ततः किरातास्ते भीताः, स्त्रीवत् परिहितांशुकाः । रत्नोपायनमादाय, सगरं शरणं ययुः ॥२३६॥ पतित्वा पादयोश्चक्रवर्तिनो वशवर्तिनः । आवद्धाञ्जलयो मूर्भि, ते किराता व्यजिज्ञपन् ॥ २३७॥ 10 खामिन्नसाभिरज्ञानात्, त्यां प्रतीदमनुष्ठितम् । शैरभैः प्रति पर्जन्यं, फालकमॆव दुर्मदैः ॥ २३८ ॥ अविमृश्यविधायित्वं, तत् तितिक्षख नः प्रभो। प्रणिपातावसानो हि, कोपाटोपो महात्मनाम् ॥२३९॥ कुटुम्बिनः पत्तयो वा, सामन्ता वा त्वदाज्ञया । अतः परं भविष्यामस्त्वदधीना हि नः स्थितिः ॥२४०॥ चत्र्यप्युवाच तानेवं, मदीयीभूय तिष्ठत । अपारभरतवर्षार्धसामन्ता इव दण्डदाः॥ २४१॥ एवमालप्य सत्कृत्य, किरातान् व्यसृजन्नृपः । सेनान्यं चाऽऽदिशजेतुं, सिन्धोः पश्चिमनिष्कुटम्॥२४२।। 15
चर्मणा पूर्ववत् सिन्धुमुत्तीर्य पृतनापतिः । गिरि-सागरमर्यादानजयत् सिन्धुनिष्कुटान् ॥ २४३ ॥ म्लेच्छानां दण्डमादाय, दण्डेशश्चण्डविक्रमः । आययौ सगरं वारिसम्पूर्ण इव वारिदः ॥ २४४ ॥ भोगान् विचित्रान् भुञ्जानः, सोऽय॑मानो महीश्वरैः। तत्रैवाऽस्थाचिरं नास्ति, विदेशः कोऽपि दोष्मताम् । __ अन्यदा चक्रिणश्चक्रं, निश्चक्रामाऽऽयुधौकसः । मार्गेणोत्तरपूर्वेण, ग्रीष्मे विम्बमिवोष्णगोः ॥ २४६ ॥ गच्छंश्चक्रानुगो राजा, क्षुद्रस्य हिमवद्गिरेः । नितम्ब दक्षिणं प्राप, दत्तावासोऽध्युवास च ॥ २४७ ॥20 उद्दिश्य क्षुद्रहिमवत्कुमारं तत्र सोऽकरोत् । तपोऽष्टमं पौषधं चोपाददे पौषधौकसि ॥ २४८॥ पौषधान्ते रथारूढोऽगात् क्षुद्रहिमवगिरिम् । जघान च रथाग्रेण, स त्रिर्दन्तेन दन्तिवत् ॥ २४९ ॥ नियम्य तुरगांस्तत्र, कृत्वाऽधिज्यं शरासनम् । निजनामाङ्कितं वाणं, विससर्ज नरेश्वरः ॥ २५०॥ द्वासप्ततिं योजनानि, गत्वा कोशमिव क्षणात् । सोऽपतत् क्षुद्रहिमवत्कुमारस्य पुरो भुवि ॥ २५१॥ क्षणं चुकोप बाणेन, बाणनामाक्षरैः पुनः । क्षणादशाम्यत् स क्षुद्रहिमाचलकुमारकः ॥ २५२ ॥ 25 गोशीर्षचन्दनं सर्वोषधीः पद्महदोदकम् । देवदूष्याणि तं वाणं, रत्नालङ्करणानि च ॥ २५३ ॥ देवेद्रुपुष्पमालाश्चोपनिन्ये सगराय सः । प्रत्यपद्यत सेवां च, जयेत्युक्त्वा नभःस्थितः ॥ २५४ ॥ तं विसृज्य ततो राजा, वालयित्वा निजं रथम् । ययावृषभकूटाद्रिं, त्रिर्जघान तथैव तम् ॥ २५५ ॥ अश्वान् नियम्य काकिण्या, प्राग्भागे तस्य भूभृतः। द्वितीयः सगरश्चक्रीत्यक्षराणि लिलेख सः ॥२५६॥ ततो रथं वालयित्वा, स्कन्धावारमुपेत्य च । विदधेष्टमभक्तान्तपारणं पृथिवीपतिः ॥ २५७॥ 30 हिमाचलकुमारस्य, चक्रेऽथाऽष्टाह्निकोत्सवम् । ऋद्ध्या महत्या सगरः, पूर्णदिग्जयसङ्गरः ॥ २५८॥ __ मार्गेणोत्तरपूर्वण, चक्ररत्नानुगस्ततः । गङ्गादेवीभवनाभिमुखं सुखमगानृपः॥ २५९ ॥ निदधे शिबिरं गङ्गासमनोऽनतिदूरतः । विदधेऽष्टमभक्तं च, गङ्गामुद्दिश्य भूपतिः ॥ २६० ॥ सिन्धुदेवीव गङ्गापि, विज्ञायाऽऽसनकम्पतः । उपतस्थेऽन्तरिक्षस्थाऽष्टमान्ते चक्रवर्तिनम् ॥ २६१॥ सहस्रं रत्नकुम्भानामष्टोत्तरमदत्त च । स्वर्ण-माणिक्यचित्रं च, रत्नसिंहासनद्वयम् ॥ २६२ ॥ 35
१ अस्त्रसहिताः। २ मत्स्याः । ३ अष्टापदैः। ४ सूर्यस्य। ५कल्पवृक्षपुष्पमालाः। ६ प्रतिज्ञा।
त्रिषष्टि. २९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org