________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं
[ द्वितीयं पर्व
न्यत्कारकारिणं भानोः, सर्वतोऽप्यस्त्रदीप्तिभिः । भूरजोभिः खेचरीणां दृग्निमेषविशेषदम् ॥ १९६ ॥ सैन्यप्राग्भारभारेण, भूमिकम्पविधायिनम् । दिवस्पृथिव्योस्तुमुलध्वानैर्बाधिंर्यदायिनम् ॥ १९७ ॥ अप्यकाण्डे काण्डपटमध्यादिव विनिर्गतम् । नभस्तलादिवाऽऽयातं, पातालादिव चोत्थितम् ॥ १९८ ॥ अनन्तसैन्यगहनं, पुरवण भीषणम् । सगरं सागरमिवाऽऽपतन्तं प्रेक्ष्य तत्क्षणात् ॥ १९९ ॥ आपाता नाम दुष्पाताः किराता दोर्मदोद्धुराः । सक्रोधं सोपहासं चाऽन्योऽन्यमेवं बभाषिरे ||२००|| ॥ पञ्चभिः कुलकम् ॥ भो भोः सर्वेऽपि दोष्मन्तो, ब्रूत देशेऽत्र सम्प्रति । कोऽप्रार्थित प्रार्थकोऽयं, श्रीहीधीकीर्त्तिवर्जितः ॥ २०९ ॥ निर्लक्षणो वीरमानी, मानेनान्धम्भविष्णुकः । कासरो हा ! प्रविशति, चने केसर्यधिष्ठिते १ ॥ २०२ ॥ ॥ युग्मम् ॥
10 इत्युदीर्य महावीर्या, अग्रानीकमुपाद्रवन् । म्लेच्छराजाश्चक्रपाणेर्वज्रपाणेरिवाऽसुराः ॥ २०३ ॥ नष्टद्विपं हतयं, भग्नाशस्यन्दनं तथा । क्षणात् परावृत्तमिव तदनीकमजायत ॥ २०४ ॥ स्वसैन्यं चत्रिसेनानीः, किरातैः प्रेक्ष्य विद्रुतम् । वैवस्वत इव क्रुद्धोऽध्यारोहद् रत्नवाजिनम् ॥ २०५ ॥ असिरत्नं समाकृष्य, धूमकेतुमिवोद्गतम् । प्रभञ्जन इवौजस्वी, प्रति म्लेच्छमधावत ॥ २०६ ॥ कानप्युन्मूलयामास, निष्पिपेष च कानपि । कानप्यपातयन्म्लेच्छान् स वनेम इव द्रुमान् ॥ २०७ ॥ 15 तेन भग्नाः किरातास्ते, निःस्थामानोऽपचक्रमुः । बहूनि योजनान्याशु, पवनोद्धृततूलवत् ॥ २०८ ॥ दूरे गत्वाse सम्भूय, सिन्धुनद्यास्तटावनौ । वालुकास्त्रस्तरेष्वस्थुरुताना मुक्तवाससः ॥ २०९ ॥ देवान् मेघमुखान् नागकुमारान् कुलदेवताः । उद्दिश्याऽष्टमभक्तानि, जगृहुस्तेऽत्यमर्षणाः ।। २१० ॥ तदष्टमान्ते देवानामासनानि चकम्पिरे । दृशेवाऽवधिनाऽपश्यन्, किरातांस्ते तथास्थितान् ॥ २११ ॥ कृपया पितृवत् तेषामय जातार्त्तयोऽथ ते । तानुपेत्यान्तरिक्षस्थाः प्रोचुर्मेघमुखा इति ॥ २१२ ॥ हे वत्सा ! हेतुना केन, यूयमेवं हि तिष्ठथ : । अविलम्बेन तं श्रुत, यथा वः प्रतिकुर्महे ॥ २१३ ॥ ततः किराता इत्यूचुः कोऽप्यसौ विषयेऽत्र नः । प्राविशद् दुःप्रवेशेऽपि, पयोधाविव वाडवः ॥ २१४ ॥ वयं तेन पराभूता, युष्मान् शरणमाश्रिताः । स यथा याति भूयोऽपि नाऽऽयाति च तथाऽस्तु नः ॥२१५॥ तेऽप्यभ्यधुः सुरा एवं, कृशांनोः शलभा इव । यूयमस्याऽनभिज्ञाः स्थ, तेनेदमभिधत्थ भोः ! ॥ २१६ ॥
↑
20
5
25
30
२२०
अयं हि सगरो नाम, चक्रवर्ती महाभुजः । सुराणामसुराणां चाऽविजय्यः शक्रविक्रमः || २१७ ॥ शस्त्राऽग्नि- विष-मन्त्राऽम्बु-तत्र - विद्याद्यगोचरः । उपद्रोतुं वज्र इव, न हि केनाऽपि शक्यते ।। २१८ ।। तथापि वोऽनुरोधेन चक्रिणोऽस्य महौजसः । मशकाः कुञ्जरस्येव, करिष्याम उपद्रवम् ॥ २१९ ॥ इत्युदित्वा तिरोभूय, ते मेघवदनाः सुराः । स्कन्धावारोपरि स्थित्वा तेनिरे घोरदुर्दिनम् ॥ २२० ॥ नीरन्ध्रेणान्धकारेणाऽपूर्यन्त केकुभस्तथा । अनुषाऽन्धलवद् रूपं, नोपलेभे यथा जनः ॥ २२९ ॥ धाराभिस्तेऽथ मुसलमानाभिः शिबिरोपरि । सप्तरात्रं प्रववृपुरनिर्विण्णाः समीरवत् ॥ २२२ ॥ अरिष्टवृष्टिमेच्छिन्नां, प्रेक्ष्य तां चक्रवर्त्यपि । स्वयं पाणिसरोजेन, चर्मरत्नं परामृशत् ॥ २२३ ॥ स्कन्धावारप्रमाणेन, ववृधे तत् क्षणादपि । तच्च तिर्यक् समास्तीर्ण, ततार सलिलोपरि ।। २२४ ॥ महापोतमिवाऽऽरोहत्, ससैन्यस्तन्नरेश्वरः । छत्ररत्नं च संस्पृश्याsतनियच्चर्मरत्नवत् ॥ २२५ ॥ चक्रे चर्मोपरि च्छत्रं, सोऽभ्रं भुव इवोपरि । मणिरत्नं न्यधाच्छत्रदण्डान्ते द्योतहेतवे ।। २२६ ॥ छत्र-वर्मान्तरे तस्थौ, तद् राज्ञः शिबिरं सुखम् । असुर-व्यन्तरगण, इव रत्नप्रभान्तरे ।। २२७ ।।
१ तिरस्कारकारिणम् । २ बधिरत्वदायिनम् । ३ दुःखदः पातो येषां ते । ४ महिषः । ५ यमः । ६ वायुरिव । ७ पीडया । ८ भनेः । ९ दिशः । १० जन्मान्धवत् । ११ मुसलप्रमाणाभिः । १२ अखण्डाम् । १३ परस्पर्श । १४ विस्तारितम् । १५ विस्तारयामास ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org