________________
चतुर्थः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
२१९ अथ पस्पर्श सेनानीश्चर्मरत्नं स्वपाणिना । तदन्तःसिन्धु ववृधे, नावाकारं बभूव च ॥ १६३॥ तेनोत्ततार तां सिन्धु, सह चम्वा चमूपतिः । अपारमिव संसार, योगीन्द्रो योगलीलया ।। १६४ ॥ सिन्धुतीरादथ स्तम्भादिव मत्तमतङ्गजः । प्रससार महासारोऽस्खलितं पृतनापतिः ॥ १६५ ॥ सिंहलकान् बर्बरकांष्टङ्कणानितरानपि । द्वीपं च यवनद्वीपमाचक्राम चमूपतिः ॥ १६६ ॥ कालमुखान् जोनकांच, तथा वैताव्यसंश्रिताः। नानाविधा म्लेच्छजातीः, स स्वच्छन्दमदण्डयत् ॥१६७ 5 समस्तदेशप्रवरं, कच्छदेशं च लीलया । महोक्ष इव सेनानीरुपदुद्राव विक्रमी ॥ १६८ ॥ तदन्तात् प्रतिनिवृत्य, तस्यैवोर्वीतले समे । अवतस्थे चमूनाथोऽम्भ क्रीडोत्तीर्णहस्तिवत् ॥ १६९ ॥ म्लेच्छा मडम्ब-नगर-ग्रामादीनामधीश्वराः । तं तत्रेयुः सर्वतोऽपि, पाशाकृष्टा इव द्रुतम् ॥ १७० ॥ भूषणानि विचित्राणि, रत्नानि वसनानि च । रजतं च सुवर्णं च, तुरङ्गान् कुञ्जरानपि ॥ १७१॥ स्पन्दनान्यन्यदपि यत्, प्रकृष्टं वस्तु किश्चन । सेनान्ये तदुपनिन्युासार्पितमिवाऽथ ते ॥ १७२ ॥ 10
॥युग्मम् ॥ कुटुम्बिका इव वयं, करदा वशगाश्च वः । स्थास्यामोत्रेति सेनान्यं, ते बद्धाञ्जलयोऽवदन् ॥ १७३ ।। तत्प्राभृतमुपादाय, व्यसृजत् तांश्चमूपतिः। एत्योत्ततार सिन्धुं च, चर्मरत्नेन पूर्ववत् ॥ १७४ ॥ गत्वोपनिन्ये तत्सर्व, सगराय स भूजे । कष्टावेव इवाऽऽयान्ति, शक्त्या शक्तिमतां श्रियः ॥ १७५॥ दूरदूरादेत्य भूपैः, सरिद्भिरिव सागरः । उपास्यमानः सगरस्तत्राऽस्थाच्छिबिरे चिरम् ॥ १७६ ॥ 15
तमिस्रादक्षिणद्वारकपाटोद्घाटनाय सः । सेनान्यमन्यदाऽऽदिक्षद्, बिभ्राणं दण्डकुश्चिकाम् ॥१७७॥ स गत्वोपतमिस्र च, कृतमालामरं प्रति । चक्रेऽष्टमतपः प्रायस्तपोग्राह्या हि देवताः ॥ १७८ ॥ अष्टमान्ते कृतस्नानः, शुचिवस्त्रविलेपनः । उपात्तधूपदहनोऽगाद् गुहां देवतामिव ॥ १७९ ॥ कृत्वा प्रणाममालोकमात्रेऽपि पृतनापतिः । तस्या द्वारे द्वाःस्थ इव, दण्डपाणिरवास्थित ॥ १८०॥ विधायाऽष्टाह्निका तस्या, लिखित्वा चाऽष्टमङ्गलीम् । दण्डरत्नेन सेनानीस्तत्कपाटावताडयत् ॥ १८१॥ 20 सैरत्सरिति संरावं, कुर्वाणौ तत्क्षणादथ । व्यघटेतां तत्कपाटौ, शुष्कशिम्बापुटाविव ॥ १८२ ॥ कपाटोद्घाटनं तच्च, शशंस सगराय सः । सरत्सरिति निर्घोषकथितं पुनरुक्तवत् ॥ १८३ ।। हस्तिरत्नं समारुह्य, चतुरङ्गचमूवृतः। दिक्पालानामेकतम, इव तत्राऽऽययौ नृपः ॥ १८४ ॥ निदधे दक्षिणे कुम्मे, कुम्भिरत्नस्य भूपतिः । मणिरत्नं मल्लिकायां, प्रदीपमिव भासुरम् ॥ १८५ ॥ ततश्चक्रानुगश्चक्री, केसरीवास्खलद्गतिः । पञ्चाशद्योजनायामां, तमिस्रां प्राविशद् गुहाम् ॥ १८६ ॥ 25 गोमूत्रिकाक्रमेणाऽथ, गुहाभित्योर्द्वयोरपि । पञ्चधन्वशतीभाञ्जि, विष्कम्भा-ऽऽयाममानयोः॥१८७ ॥ योजनान्तरितान्येकहीनां पञ्चाशतं नृपः । ध्वान्तनाशाय काकिण्या, मण्डलान्यालिखन् ययौ ॥ १८८ ॥ उद्घाटितं गुहाद्वारं, गुहान्तमण्डलानि च । तावत् तान्यपि तिष्ठन्ति, यावजीवति चक्रभृत् ॥ १८९ ॥ मानुषोत्तरसीमस्थचन्द्र-सूर्यपरम्पराम् । विडम्बयद्भिरुयोतो, गुहान्तस्तैरजायत ॥ १९० ॥ निर्यान्त्यौ गुहाप्राग्भित्तेः, प्रत्यग्भित्तेश्च मध्यतः। प्रापोन्मना-निमग्नाख्ये, निम्नंगे सोऽथ सिन्धुगे॥१९१॥30 उन्मनायां विनिक्षिप्ता, प्रोन्मजति शिलापि हि । निमग्नायां पुनः क्षिप्तमलाब्वपि निमजति ॥१९२॥ सद्यो वर्धकिरत्नेन, बद्धया पद्यया च ते । अलङ्घत गृहस्रोतोलीलया सवलो नृपः ॥ १९३ ॥ स क्रमेण तमिस्राया, उत्तरं द्वारमासदत् । व्यघटेतां तत्कपाटे, स्वयमेवाऽजकोशवत् ॥ १९४ ॥ निर्जगाम गुहामध्यादब्धिमध्यादिवाय॒मा । सगरः सपरीवारो, वारणस्कन्धमाश्रितः ॥ १९५ ॥
. सेनापतिः। २ दास्यः । * ° पाणिरिवास्थि सङ्घ १॥ ३ सर सर इतिरूपं शब्दम् । ४ दीपिकायाम् । ५ नयौ । वरति । ७ तुम्बिका । ८ नयौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org