________________
15
२१८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीयं पर्व विदाकाराऽवधिना, सा च चक्रिणमागतम् । उपायनकरा भक्तिपराऽथ तमुपाययौ ॥ १३०॥ अष्टोत्तरं रत्नकुम्भसहस्रं निधिसोदरम् । मणि रत्नविचित्रं च, स्वर्णभद्रासनद्वयम् ॥ १३१ ॥ केयूर-कटकादीनि, रत्नालङ्करणानि च । देवदूष्याणि च ददौ, भूभुजे सा नभस्थिता ॥ १३२॥ युग्मम् ॥ इत्यभाषिष्ट सा देवी, नरदेववराऽधुना । भवद्विषयवास्तव्या, किङ्करीवाऽसि शाधि माम् ॥ १३३ ॥ अतिपीयूषगण्डूषैर्वचोभिः प्रतिभाष्य ताम् । विससर्ज महीनाथश्चक्रे चाऽष्टमपारणम् ॥ १३४ ॥ विदधे सिन्धुदेव्याच, प्राग्वदष्टाह्निकोत्सवम् । महात्मनां महीनामुत्सवा हि पदे पदे ॥ १३५ ॥
चक्रमायुधशालायाः, स्वशालाया इव द्विपः । निर्जगाम श्रियां धाम, ककुभोत्तरपूर्वया ॥ १३६ ॥ नृपस्तदनुगच्छंश्च, दिनैः कतिपयैरपि । नितम्ब दक्षिणं प्राप, वैताट्यस्य महागिरेः ॥१३७ ॥
निधाय तत्र शिबिरं, विद्याधरपुरोपमम् । अधिवैतात्यकुमारं, सोऽष्टमं विदधे तपः ॥ १३८ ॥ 10 महीपतेः परिणमत्यष्टमे च तपस्यथ । वैताठ्याद्रिकुमारस्य, सिंहासनमकम्पत ॥ १३९ ॥
वैताठ्याद्रिकुमारोऽपि, बुबुधेऽवधिना ततः। भरतार्धावधावभ्युपेतं सगरचक्रिणम् ॥ १४० ॥ सोऽभ्येत्य राज्ञे रत्नानि, दिव्यानि वसनानि च । ददौ नमास्थितो भद्रासन-वीरासनानि च ॥ १४१ ॥ चिरं जीव चिरं नन्द, चिरं जय जयेति च । सौवस्तिक इव माऽऽह, स हृष्टः पृथिवीपतिम् ॥१४२ ॥ खं बान्धवमिवाऽभीष्टं, तमाभाष्य सगौरवम् । सगरो विससर्जाऽथ, चकाराऽष्टमपारणम् ॥ १४३ ॥ वैताख्याद्रिकुमारस्य, चक्रे चाऽष्टाह्निकोत्सवम् । निजप्रसादप्रासादसुवर्णकलसोपमम् ॥ १४४ ॥
ततश्चक्रानुगो गत्वा, तमिस्रा निकषा गुहाम् । पञ्चानन इवोवास, निधाय शिबिरं नृपः ॥ १४५ ।। कृतमालाभिधं तत्र, देवं मनसिकृत्य सः । चक्रेऽष्टमतपः कृत्यं, महान्तो न त्यजन्ति हि ॥ १४६ ॥ राज्ञोऽष्टमे परिणमत्यकम्पत तदासनम् । तादृशामभियोगे हि, कम्पन्ते पर्वता अपि ॥ १४७ ॥
ज्ञात्वाऽवधिप्रयोगेण, कृतमालोऽपि चक्रिणम् । उपस्थितं प्रभुमिवोपतस्थे गगनस्थितः ॥ १४८ ॥ 20 स्त्रीरत्नयोग्यं तिलकचतुर्दशमदत्त सः । नेपथ्यजातं वस्त्राणि, गन्ध-चूर्ण-स्रगादि च ॥ १४९ ॥
देवो जय जयेत्युक्त्वा, स सेवा प्रत्यपद्यत । सेवनीयाश्चक्रिणो हि, देवैरपि नरैरिव ॥ १५०॥ प्रसादपूर्वमालप्य, नृपतिर्विससर्ज तम् । चक्रे च सपरीवारोऽष्टममक्तान्तपारणम् ॥ १५१ ॥ देवस्य कृतमालस्य, सादरः सगरस्ततः । अष्टाह्निकोत्सवं चक्रे, देवानां प्रीतिदं यदः ॥१५२ ॥
अष्टाह्निकान्ते सगरः, पश्चिमं सिन्धुनिष्कुटम् । *विजेतुमर्धसैन्येन, सैन्यनाथं समादिशत् ॥१५३॥ 25 अथ तन्मेदिनीभर्तुः, शासनं रचिताञ्जलिः। शिरसा प्रतिजग्राह, मालामिव चमूपतिः ॥ १५४ ॥
विख्यातो भारते वर्षे, महाबल-पराक्रमः । नभस्त्रानिव विवेवानिव चोग्रेण तेजसा ॥ १५५ ॥ समस्तम्लेच्छभाषाज्ञः, समस्तलिपिपण्डितः । विचित्रचारुभाषी च, सरखत्या इवाऽऽत्मजः ॥ १५६ ॥ निष्कुटानामशेषाणां, भरतक्षेत्रवर्तिनाम् । जल-स्थलजदुर्गाणां, विज्ञाताऽऽगम-निर्गमौ ॥ १५७ ॥ अत्रवेदः शरीरीव, सर्वायुधविचक्षणः । कृतस्नानः कृतप्रायश्चित्त-कौतुकमङ्गलः ॥ १५८॥ सितपक्ष इव स्वल्पनक्षत्रमणिभूषणः । शरासनधरो धीरः, सेन्द्रचाप इवाम्बुदः ॥१५९ ॥ सविद्रुमवितानोऽब्धिरिव चर्माख्यरत्नभृत् । सरोवत् पुण्डरीकेणोद्दण्डेनोपरि शोभितः ॥१६॥ भांश्चामराभ्यां श्रीखण्डस्थासकाम्यामिवांसयोः। तूर्यनादैनादयन् यां, स्तनितैरिव वारिदः॥ १६१ ॥ सैन्येन चतुरङ्गेण, सेनानीः परिवारितः । आरुह्येभवरं सिन्धुप्रवाहाभ्यर्णमाययौ ॥ १६२ ॥
॥ अष्टभिः कुलकम् ॥ त्वद्देशवासिनी । २ दिशया । ३ पूर्णे। ४ भरतार्धस्य सीमनि । ५ स्वस्तिवाचको द्विजः। ६ उद्योगे। ७ स्वीकृतवान् । * निर्जेतु सङ्घ २॥ ८ वायुः। ५ सूर्यः। १. धनुर्वेदः। ११ शुक्लपक्षः। १२ शोभमानः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org