________________
चतुर्थः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम् ।
वरदामकुमारस्य, सभायां तस्थुषः पुरः । निपपात शरोऽकाण्डमुद्गराघातसन्निभः ॥ ९७ ॥ अकाले कस्य कालेनोत्क्षिप्तं पत्रमिति ब्रुवन् । वरदामपतिर्बाणमुत्थाय स्वयमाददे ॥ ९८ ॥ दृष्ट्वा सगरराजस्य, तत्र नामाक्षराणि सः । शशाम नागदमनीमवलोक्येव पन्नगः ॥ ९९ ॥ आख्यच्च पर्षदे स्वस्यै, जम्बूद्वीपस्य भारते । चक्रभृत् सगरो नाम, द्वितीय उदपद्यत ॥ १०० ॥ वस्त्रैश्वित्रैर्महामूल्यै, रत्नालङ्करणैरपि । ततश्च पूजनीयोऽयं, देवतेव गृहागतः ।। १०१ ।। सोऽभिधायैवमुपदेामुपादाय च सत्वरम् । उपतस्थेऽन्तरिक्षस्थो, रथस्थं पृथिवीपतिम् ॥ १०२ ॥ किरीट- रत्न- मुक्तास्रकेयूर-कटकादि सः । कोशागारिकवद् राज्ञेऽर्पयामास शरं च तम् ॥ १०३ ॥ वरदामाधिपोऽथैवमूचे स्थास्याम्यतः परम् । तवाऽऽदेशकरः शक्रदेश्यदेशे निजेऽपि हि ॥ १०४ ॥ तत्प्राभृतमुपादाय तद्वचः प्रतिपद्य च । तं सत्कृत्य च कृत्यज्ञो, विससर्ज महीपतिः ।। १०५ ॥ ततश्च ववले चक्री, चक्रमार्गानुगस्तथा । हेषमाणस्यन्दनाश्रो, जलवाजिविलोकनात् ॥ १०६ ॥ स्कन्धावारमुपेत्याऽथ, स रथादवरुह्य च । स्नात्वा कृत्वा जिनाच च चकाराऽष्टमपारणम् ।। १०७ ॥ वरदामकुमारस्योद्दाममष्टाहिकोत्सवम् । चकार सगरो भक्तेष्वीशा हि प्रतिपत्तिदाः ॥ १०८ ॥
ततः प्रतस्थे पृथ्वीशचक्ररत्नपथानुगः । पश्चिमाभिमुखं मुष्णन्नुष्णांशुं सैन्यरेणुभिः ।। १०९ ।। पन्नगानिव पक्षीन्द्रो, द्रविडान् द्रावयन् द्रुतम् । तेजसाऽन्धान्धीकुर्वन्नुलूकानिव भास्करः ॥ ११० ॥ त्याजयन् राज्यलिङ्गानि, त्रिँकलिङ्गैरसनिव । कुर्वन् विदर्भान् निःसवान, दर्भसंस्तरणानिव ।। १११ ।। 15 त्यक्तराष्ट्रान् महाराष्ट्रान् कुर्वन् कर्पटिकानिव । कुर्वाणः कौङ्कणान् वाणैरङ्कितांस्तुरगानिव ॥ ११२ ॥ ललाटस्थाञ्जलींल्लादान्, घटयन् सातपानिव । विष्वक् सङ्कोचयन् कच्छानतुच्छान् कच्छपानिव ॥११३॥ सुराष्ट्रान् नांष्ट्रवत् क्रूरान् विदधानो वशंवदान् । पश्चिमाम्भोनिधे रोधः क्रमेण प्राप पार्थिवः ॥ ११४ ॥ ॥ पञ्चभिः कुलकम् ॥ स्कन्धावारमधिष्ठाय, प्रभासमधिकृत्य सः । कृताष्टमोऽथ जग्राह, पौषधं पौषधौकसि ॥ ११५ ॥ अष्टमान्ते रविरिवाऽऽरुह्य राजा महारथम् । नाभिदघ्नं जलं यावज्जगाहे लवणोदधिम् ॥ ११६ ॥ तत्राधिज्यं धनुः कृत्वा, ज्यानिर्घोषं ततान सः । बाणप्रयाणकल्याणजयातोद्यरवोपमम् ॥ ११७ ॥ अधिप्रभासतीर्थेशनिवासमथ सायकम् । खनामाङ्कं स सन्देशहरं दूतमिवाऽमुचत् ॥ ११८ ॥ अन्ते द्वादशयोजन्याः, प्रभाससुरसद्मनि । स तत्र न्यपतत् पंत्री, पतंत्रीव महाद्रुमे ॥ ११९ ॥ सोऽपि तं पत्रिणं प्रेक्ष्य, प्रेक्षापूर्वकृतां वरः । अवाचयत् तत्र नामवर्णान् सगरचक्रिणः ।। १२० ।। उपात्तोपायनः सोऽथ, तमुपादाय सायकम् । भक्त्याऽतिथिं गुरुमिवाऽभ्यागमत् सगरं नृपम् ॥ १२१ ॥ चूडामणि निष्कोरस्के, कटकान् कटिसूत्रकम् | केयूरे चाऽऽर्पयद् राज्ञे, तं चेषु स नभः स्थितः ॥ १२२ ॥ स विनीतो विनीतेशमित्यूचे विषयेऽत्र हि । चक्रवर्तिस्त्वदादेशवर्ती वत्स्याम्यतः परम् ॥ १२३ ॥ उपायनमुपादाय, समालप्य च सादरम् । विससर्जाऽऽयुक्तमिव, प्रभासं भूमिवासवः ॥ १२४ ॥ सगरः शिबिरं गत्वा, स्नात्वा कृतजिनार्चनः । चकाराऽष्टमभक्तान्ते, पारणं सपरिच्छदः ॥ १२५ ॥ प्रभासतीर्थाधिपतेर्वरदामपतेरिव । अष्टाह्निकोत्सवं चक्रे, प्रीतो वसुमतीपतिः ।। १२६ ॥
25
अनुचक्रं ततश्चक्री, सिन्धोर्दक्षिणरोधसा । प्रतीपगामिसिन्ध्वेव सेनया प्राङ्मुखो ययौ ॥ १२७ ॥ सिन्धुदेवसद्मनश्चाऽदूरतः शिविरं न्यधात् । सद्योऽवतीर्णगन्धर्वपुरोपममिलापतिः ॥ १२८ ॥ सिन्धुदेवीं च मनसि कृत्वाऽष्टमतपो नृपः । चकार सिन्धुदेव्याश्व, रत्नासनमकम्पत ॥ १२९ ॥
भिक्षुकानिव ।
७
१ ओषधिभेदः । २ प्राभृतम् । ३ इन्द्रददेशे । ४ गौरवकारिणः । ५ सूर्यम् । ६ देशविशेषैः । ८ राक्षसवत् । ९ शरः । १० पक्षीव । ११ भृत्यमिव ।
Jain Education International
For Private & Personal Use Only
२१७
5
10
20
30
www.jainelibrary.org