________________
२१६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ द्वितीय पर्व जयश्रीनाटिकानान्दी, पाणिना ज्यामवीवदत् । निषङ्गाच्च चकर्षे, राजा रत्नं निधेरिव ॥ ६४ ॥ निदधे च धनुर्मध्ये, तमिपुं पृथिवीपतिः । धातकीखण्डमध्यस्थेष्वाकाराद्रिविडम्बकम् ॥ ६५ ॥ आचकर्षे तमाकर्ण, यान्तं कर्णावतंसताम् । काञ्चनं निजनामाई, भूपति णमुल्वणम् ॥ ६६ ॥
सूत्कारिपक्षमुखरं, नवं ताक्ष्यमिवाम्बरे । अधिमागधतीर्थेशं, विससर्ज शरं नृपः ॥ ६७॥ 5 योजनानि द्वादशाब्धेः, समुल्लङ्य निमेषतः । मागधतीर्थकुमारसभायां निपपात सः॥ ६८॥
तडिद्दण्डमिवाऽकाण्डे, काण्डं तं प्रेक्ष्य तत्क्षणात् । चुकोप मागधपतिर्भृकुटीमङ्गभीषणः ॥६९ ॥ किश्चिद् विमृश्य तं शरमुत्थाय स्वयमाददे । तत्रेक्षाश्चक्रे सगरचक्रिनामाक्षराणि च ॥ ७० ॥ आसाश्चक्रे धृतशरो, भूयः सिंहासने निजे । गिरा गम्भीरया स्वस्थां, पर्षयेवमुवाच च ॥ ७१ ॥
द्वीपस्य जम्बूद्वीपस्य, क्षेत्रे भरतनामनि । द्वितीयश्चक्रभृजज्ञे, सगरो नाम सम्प्रति ॥ ७२ ॥ 10 अवश्यकृत्यं भूतानां, भाविनां च संतां तथा । मागधाधिपतीनां हि, प्राभृतं चक्रवर्तिषु ॥७३॥
स इत्युदीर्य निभृतं, प्राभृतैर्भूतकायितः । उपतस्थे सविनयः, सगरं चक्रवर्तिनम् ॥ ७४ ॥ तं शरं हार-केयूर-ताडक-कटकादिकम् । नेपथ्यं देवदूष्याणि, राज्ञेऽदात् स नमःस्थितः॥७५ ॥ अम्भो मागधतीर्थीयं, स मागधकुमारकः । नरेन्द्रस्याऽर्पयामास, रसेन्द्रमिव वार्तिकः ॥ ७६ ॥
अञ्जलिं रचयित्वोच्चैः, पद्मकोशविडम्बकम् । उवाच मागधपतिर्वसुधाधिपतिं ततः ॥ ७७ ॥ 15 एतसिन् भरतक्षेत्रे, प्राच्यां दिशि तवाऽस्म्यहम् । प्रान्तव]कसामन्त, इवाऽऽदेशकरः सदा ॥ ७८ ॥
भृत्यत्वेन प्रतीयेष, ततस्तमवनीपतिः । विससर्ज च सत्कृत्य, दुर्गपालमिव स्वकम् ॥ ७९ ॥ उदयन्निव मार्तण्डः, सगरः सागराम्भसः । निर्जगाम निजेनोचै, रुन्धानस्तेजसा दिशः॥८॥ गत्वा च शिबिरं स्नान-देवार्चनपुरःसरम् । विदधे सपरीवारः, पारणं राजवारणः ॥ ८१ ॥
अथ मागधतीर्थाधिपतेरष्टाह्निकोत्सवम् । चक्रे चक्री स्वामिदत्तमाहात्म्याः खलु सेवकाः ॥ ८२ ॥ 20 सर्वदिग्विजयश्रीणामर्पणप्रतिभूसमम् । चक्ररत्नं चक्रिणोऽथ, प्रतस्थे दक्षिणां प्रति ॥ ८३॥
अपाक्पश्चिममार्गेण, चक्री चक्रानुगस्ततः । प्रचचालाऽचलां सैन्यैः, साचलां चलयन्निव ॥ ८४ ॥ कानप्युन्मूलयन् राज्ञस्तरूनिव समीरणः । शालिस्तम्बानिवोत्खाय, कानपि प्रतिरोपयन् ॥ ८५ ॥ नवानारोपयन् कांश्चित् , कीर्तिस्तम्भानिवोच्चकैः । कांश्चिन्मुञ्चन् नमयित्वा, नद्योघो वेतसानिव ॥ ८६ ॥ कुर्वन् कृत्ताङ्गुलीन् कांश्चित् , कांश्चिद् रत्नानि दण्डयन् । हस्त्यश्वं त्याजयन् कांश्चित,कांश्चिच्छत्राणि मोचयन्।। क्रमादासादयामास, रोधो दक्षिणवारिधः । सर्वदिग्जयनिर्माणे, सगरो दृढसङ्गरः ॥ ८८॥* अवतीर्य करिस्कन्धात् , स्कन्धावारे क्षणात् कृते । विमाने वज्रभृदिवोवास वेश्मनि चक्रभृत् ॥ ८९॥ तत्र पौषधशालायां, कृताष्टमतपा नृपः । उद्दिश्य वरदामानं, तस्थौ स्वीकृतपौषधः ॥९॥ सगरोऽष्टमभक्तस्य, प्रान्ते पारितपौषधः । आच्छिन्नमिव मार्तण्डादारुरोह महारथम् ॥ ९१ ॥
नाभिदनो रथो यावदगाहत महोदधिम् । रथेन सगरस्तेन, मथेव दधिमन्थनीम् ॥ ९२ ॥ 30 अधिरोप्य धनुर्मूर्ध्नि, ज्यां टङ्कारमकारयत् । आकर्ण्यमानं न्यत्कर्णैर्यादोभित्रासविह्वलैः ॥ ९३ ॥
अथेषुमिपुंधेर्मध्याद्, भीषणेभ्योऽपि भीषणम् । अग्रहीदवनीनाथो, वॉर्तिकोऽहिं बिलादिव ॥१४॥ विधाय लँस्तकन्यस्तं, तं कर्णाभ्यर्णमानयत् । विज्ञप्तिकार्थिनमिव, सेवकं सायकं नृपः ॥९५॥ वरदामपतेधाम, प्रतीषु विससजे तम् । चक्रभृद् वज्रभृदिव, वज्रं प्रति शिलोचयम् ॥ ९६ ॥
वादयामास । २ तूणीरात् । ३ वर्तमानानाम् । ४ भृत्य इवाचरितः। ५ सिद्धरसम् । ६ सिद्धपुरुषः। साक्षी। वसुधाम् । ९पर्वतसहिताम् । १० छिन्नाङ्गुलीन् । ११ दृढप्रतिज्ञः । * इतोऽने चतुर्भिः कलापकम् इति सङ्घ३॥१२ इन्द्रः। १३ गृहीतम् । १४ तूणीरस्य । १५ गारुडिकः। १६ धनुर्मध्यदेशः। १७ विज्ञापनाचिकीर्षुम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org