________________
चतुर्थः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
२१५ राजा मुहूर्ते मङ्गल्ये, पुरोधाकृतमङ्गलः । दिग्यात्रायै गजरत्नमालरोहाऽसिरत्नभृत् ॥ ३३ ॥ अश्वरतं समारुह्य, दण्डरत्नं च पाणिना । विभ्रत् सेनापती रत्नं, प्रतस्थे भूपतेः पुरः ॥ ३४ ॥ सर्वोपद्रवनीहारहरणे दिनरत्नवत् । पुरोधोरत्नमवनीनाथेन सह चाऽचलत् ।। ३५ ॥ भोज्यदानक्षमः सैन्ये, प्रत्यावासं गृहाधिपः । सहाञ्चलचित्ररसकल्पद्रुरिव जङ्गमः ॥ ३६ ॥ सद्यः पुरादिनिर्माणालङ्कर्मीणपराक्रमः । सहाऽगाद् विश्वकर्मेव, रत्नभूतोऽस्य वर्धकिः ॥ ३७॥ विस्तारिणी करस्पर्शाद्, रत्ने च च्छत्र-चर्मणी । अनुकूलानिलस्पर्शादभ्रवत् सह चेलतुः ॥३८॥ रले च मणि-काकिण्यौ, तमिस्रक्षपणक्षमे । सहेयतुर्लघूभूती, जम्बूद्वीपरवी इव ॥ ३९ ॥ बहुदासीपरीवारं, स्त्रीराज्यत इवाऽऽगतम् । अन्तःपुरं सहाऽचालीद्, देहच्छायेव चक्रिणः॥४०॥ ककुभो द्योतयद् दूरादूरीकृतककुब्जयम् । पुरोगात् प्रामुखं चक्रं, प्रताप इव भूपतेः ॥४१॥ पुष्करावर्तकाम्भोदघटानिनदसोदरैः । यात्रातूर्यनिनादैदिग्गजानुत्कर्णतालयन् ॥ ४२॥ चक्र विक्रममाणाश्वखुरोत्खातैश्च पांसुभिः । एकीकुर्वन् द्यावा-भूमी, द्राक् सम्पुटपुटाविव ॥४३॥ स्थ-द्विप-ध्वजाग्रस्थपाठीन-मकरादिभिः । विदधानः सयादस्कमिव व्योममहार्णवम् ॥ ४४ ॥ सप्तधाप्रक्षरदानजलासारविराजिभिः । मतङ्गजघटास्तोमैर्दुर्दिनं दर्शयन्निव ॥ ४५ ॥ उत्साहादुत्प्लवमानामिवाऽध्यारुरुक्षुभिः । पदातिभिः कोटिसङ्घयैस्तिरयन्नमितो भुवम् ॥ ४६॥ अविषयप्रतापेन, सर्वत्राऽकुण्ठशक्तिना । सेनान्येव पुरोगेण, चक्ररत्नेन राजितः॥४७॥
15 सेनान्या दण्डरत्नेन, स्थलादिस्थपुटोमपि । मतेनेव क्षेत्रमहीं, वसुधां कारयन् समाम् ॥४८॥ एकयोजनमानेन, प्रयाणेन दिने दिने । भद्रद्विप इवाऽध्वानमात्रामन् गतिलीलया ॥४९॥ दिनैः कतिपयैः प्राच्या, तुल्यः प्राचीनबर्हिषा । गङ्गामुखैकतिलकं, मागधक्षेत्रमासदत् ॥५०॥
॥ नवभिः कुलकम् ॥ अभ्रंलिहेमशालाभिर्विशालाभिरनेकशः। महागुहासोदराभिर्मन्दुराभिः सहस्रशः॥५१॥
20 विमानमानिभिर्हम्घ मन्यैश्च मण्डपैः । अझैः समानसंस्थानैरेकविम्बकृतैरिव ॥५२॥ शृङ्गाटकादिरचनाराजिराजपथस्थितिम् । नवयोजनविस्तार, दैर्य द्वादशयोजनम् ॥ ५३॥ स्कन्धावारं चक्रभृतः, सगरस्याऽऽज्ञया ततः । चकार वर्धकीरनं, विनीताया इवाऽनुजम् ॥ ५४ ॥
॥ चतुर्मिः कलापकम् ॥ तत्र पौषधशालायां, चक्रेऽष्टमतपस्ततः । मागधतीर्थकुमार, कृत्वा मनसि भूपतिः ॥ ५५॥ स मुक्ताशेषनेपथ्यः, कुशसंस्तरसंश्रयः । मुक्तशस्त्रो ब्रह्मचारी, प्रतिजाग्रदवास्थित ॥५६॥ महीपतिः परिणमत्यष्टमे च तपस्यथ । निर्गत्य पौषधगृहात् , सनौ पुण्येन वारिणा ॥ ५७ ॥ सपाण्डुरध्वज-च्छत्रं, नानाप्रहरणाकुलम् । सहडिण्डीर-यादस्कमधिपं सरितामिव ॥ ५८॥ दिव्यघण्टाचतुष्केण, लम्बमानेन पार्श्वतः । चन्द्रा-ऽऽदित्यचतुष्केण, सुमेरुमिव शोभितम् ।। ५९ ॥ उच्चैरुच्चैःश्रवकल्पैरश्वैरुद्धरकन्धरैः । सनाथं पृथिवीनाथोऽध्यारोह महारथम् ॥६०॥
30
॥ त्रिभिर्विशेषकम् ॥ सेनया हस्त्यश्व-रथ-पदातिचतुरङ्गया। विराजमानो नीत्येव, खया चतुरुपायया ॥६१॥ राजश्छत्रेण शिरसि, चामराभ्यां च पार्श्वतः । जगत्रयव्यापियशोवल्लीकन्दैरिव त्रिभिः ॥१२॥ आततज्यधनुःपाणिः, सगरः सागरं ततः । रथचक्रनाभिदनं,जलं यावदगाहत ॥ ६३॥
हिमम् । २ सूर्यवत्। * ०र्णतां नयन् सझ३ मत्स्यविशेषः । ४ छादयन् । ५ विषमाम् । इन्ग्रेण । अबशालाभिः। समानाकृतिभिः। ९ पूर्णे सति । १०समुद्रफेनजलचरजन्तुसहितम् । राजनीत्या सामदामदण्डमेदरूपवारा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org