________________
.
२१४
[द्वितीयं पर्व
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
चतुर्थः सर्गः
15
इतश्च सगरस्याऽस्नमन्दिरे मेदिनीभुजः । सुवर्णमयनेमीकं, लोहिताक्षमयारकम् ॥१॥ विचित्र-स्वर्णमाणिक्यघण्टिकाजालमालितम् । सनान्दीघोपैममलमणि-मौक्तिकमण्डितम् ॥ २ ॥ वज्रनिर्मितनामीकं, किङ्किणीश्रेणिशोभितम् । सर्वर्तुकुसुमस्रग्भिरर्चितं सविलेपनम् ॥३॥ अन्तरिक्षस्थितं यक्षसहस्रसमधिष्ठितम् । नाम्ना सुदर्शन चक्ररत्नं समुदपद्यत ॥ ४॥ चतुर्भिः कलापकम् ॥ ज्वालामालाकरालं तच्चण्डांशोरिव मण्डलम् । आविर्भूतं प्रेक्ष्य चक्रमायुधागारिकोऽनमत् ॥ ५ ॥ अथ तचक्रमर्चित्वा, विचित्रैः पुष्पदामभिः । शशंस मुदितो गत्वा, सत्वरं सगराय सः॥६॥ सिंहासनं पादपीठं, पादुके अपि तत्क्षणम् । उज्झाञ्चकार सगरो, गुरुसन्दर्शनादिव ॥ ७ ॥
पदानि कतिचिद् दत्त्वा, चक्र मनसिकृत्य सः । ननाम देवतीयन्ति, यदस्त्राण्यस्त्रजीविनः ॥ ८॥ 10 सिंहासने स आसित्वा, चक्रोत्पत्तिनिवेदिने । सर्वं ददौ खाङ्गलग्नं, भूषणं पारितोषिकम् ॥९॥
ततश्च पावनै रौबंधाय स्नानमङ्गलम् । दिव्यालङ्कार-वस्त्राणि, पर्यधत्त महीपतिः ॥१०॥ पद्भयां चचाल भूपालश्चक्ररत्नमथाऽर्चितुम् । पादचारेणोपस्थानं, पूजातोऽप्यतिरिच्यते ॥ ११ ॥ धावद्भिः प्रस्खलद्भिश्च, पतद्भिश्चाऽतिसम्भ्रमात् । सोऽन्वगामिनृपैः पादचारिभिः किङ्करिव ॥ १२ ॥ सोऽनुसरोऽप्यनाहूतैः, पूजाद्रव्यकरैर्नरैः । स्वाधिकारप्रमादित्वं, भीतये ह्यधिकारिणाम् ॥ १३ ॥ विमानमिव देवेन, दीव्यदुद्दामतेजसा । सनाथं तेन चक्रेणाऽस्त्रागारं सगरो ययौ ॥ १४ ॥ ननामाऽऽलोकमात्रेऽपि, पञ्चाङ्गस्पृष्टभूतलः । चक्ररत्नं नभोरत्नतुल्यं वसुमतीपतिः ॥ १५ ॥ सोऽमार्जद्धस्तविन्यस्तरोमहस्तस्तदञ्जसा । हँस्त्यारोहो हस्तिवरमिव तल्पसमुत्थितम् ॥ १६ ॥ आनीयाऽऽनीय पानीयकुम्भैः पुम्भिः समर्पितैः । स चक्रं नपयामास, देवताप्रतिमामिव ॥ १७ ॥
चन्दनस्थासकांस्तत्र, स्थापयामास पार्थिवः । तदूरीकारदत्तस्वहस्तलक्ष्मीविडम्बिनः ॥ १८ ॥ 20 नृपतिश्चक्ररत्नस्य, विचित्रैः पुष्पदामभिः । जयलक्ष्मीपुष्पगृहोपमा पूजां चकार च ॥ १९ ॥
गन्धांश्च चूर्णवासांश्च, चक्रे चिक्षेप चक्रभृत् । प्रतिमायामिवाऽऽचार्यः, प्रतिष्ठासमये स्वयम् ॥ २० ॥ देवताहमहामूल्यैर्वस्त्रालङ्करणैरपि । अलञ्चके चक्ररत्नमात्मानमिव पार्थिवः ॥ २१ ॥ लिलेखाऽष्टौ मङ्गलानि, पुरोऽष्टाशाजयश्रियाम् । आकर्षणायाऽभिचारमण्डलानीव भूपतिः ॥ २२ ॥
अकरोदग्रतस्तस्य, कुसुमैः पञ्चवर्णकैः । सारगन्धैरुपहारं, राजर्तुरिव सप्तमः ॥ २३ ॥ 25 घनसारा-गुरुसारं, धूपं तस्याऽग्रतोऽदहत् । धूमैर्नरेन्द्रः कस्तूरी विलेपनमिवाऽऽदधत् ॥ २४ ॥
तत्रिः प्रदक्षिणीकृत्य, सोऽपसृत्य च किञ्चन । चक्रं चक्री नमश्चक्रे, जयश्रीजन्मसागरम् ॥ २५ ॥ विदधेष्टाह्निकां तस्य, चक्ररत्नस्य तत्र सः । देवताया इव नवप्रतिष्ठाया महीपतिः ॥ २६ ॥ ऋद्ध्या महत्या चक्रस्य, चक्रे पूजामहोत्सवः । पौरैरपि पुरीपद्रदेवताया इवाऽखिलैः ॥ २७ ॥
ततो वसुमतीनाथः, स्खं जगाम निकेतनम् । चक्रेणाऽऽमत्रित इव, दिग्यात्रायै समुत्सुकः ॥ २८ ॥ 30 गत्वा स्नानगृहे स्नानं, पानीयैः पावनैरथ । चकार सगरो गङ्गास्रोतसीवेन्द्रकुञ्जरः ॥ २९ ॥
रत्नस्तम्भ इवोन्मुष्टदेहो दिव्येन वाससा । पर्यधाद् वसुधाधीशो, विशदे दिव्यवाससी ॥ ३० ॥ गोशीर्षचन्दनरसैरच्छर्योत्स्नारसैरिव । अङ्गरागं नरपतेर्विदधुर्गन्धकारिकाः ॥ ३१ ॥ अलङ्कारानलञ्चक्रे, स्वाङ्गसङ्गेन भूपतिः । प्रयान्ति ह्युत्तमस्थाने, भूषणान्यपि भूष्यताम् ॥ ३२ ॥
१ सुवर्णमयधारम् । २ रनविशेषः । ३ द्वादशतूर्यशब्दोपेतम् । ४ सम्मुखगमनम् । ५ सूर्यतुल्यम् । ६ हस्तशृतमयूरपिच्छमार्जनिकः । ७ हस्तिपकः। ८ सुप्तोत्थितम् । ५ अष्टदिन्जयलक्ष्मीणाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org