SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ २१३. तृतीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् । बदा हि देवता काऽपि, सम्यक्त्वैकप्रभाविका । सन्निधौ नाऽभविष्यचेत्, तदधक्ष्यत ते सुतः ॥९३०॥ जिनप्रणीतो धर्मोऽयं, न प्रमाणं तदा किमु । न प्रमाणमिति ब्रूयुस्ते तु पापा विशेषतः ॥ ९३१ ॥ वालिशोऽपीदृशं किंखित्, कुर्याद् यद् भवता कृतम् । ईदृग् नाऽतः परं कार्यमार्यपुत्राविचारितम्॥९३२॥ अभिधायेति सम्यक्त्वस्थिरीकरणहेतवे । इमं भर्तारमेषा स्वमनैपीदसदन्तिके ॥ ९३३ ॥ तदेतन्मनसिकृत्याऽनेन पृष्टं द्विजन्मना । सम्यक्त्वस्य प्रभावोऽयमित्यमाभिश्च कीर्तितम् ॥ ९३४ ॥ 5 आकर्ण्य तच्च भगवद्वचनं बहवोऽपरे । प्राणिनः प्रत्यबुध्यन्त, स्थिरधर्माश्च जज्ञिरे ॥ ९३५ ॥ शुद्धभट्टस्तु भट्टिन्या, समं भगवदन्तिके । परिव्रज्यामुपादत्त, क्रमेणाऽऽप च केवलम् ॥ ९३६ ॥ तां देशनां स भगवानपि पारयित्वा, स्थानात् ततो जगदनुग्रहणैकतानः । चक्रेण चक्रभृदिवाऽग्रचरेण धर्मचक्रेण भान् वसुमती विजहार नाथः ॥ ९३७ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये 10 पर्वणि अजितस्वामिदीक्षाकेवलज्ञानवर्णनो नाम तृतीयः सर्गः॥ १ शोभमानः। त्रिषष्टि. २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001456
Book TitleTrishashtishalakapurushcharitammahakavyam Parva 2 3 4
Original Sutra AuthorHemchandracharya
AuthorPunyavijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1990
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy