________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीयं पर्व नाट्या-अट्टहास-सङ्गीताद्युपप्लवविसंस्थुलाः । लम्भयेयुः पदं शान्तं, प्रपन्नान् प्राणिनः कथम् १ ॥ ८९५ ॥ महाव्रतधरा धीरा, भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः॥ ८९६ ॥ सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥ ८९७ ॥ परिग्रहाऽऽरम्भमन्नास्तारयेयुः कथं परान् ? । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥ ८९८ ॥ दुर्गतिप्रपतत्प्राणिधारणाद् धर्म उच्यते । संयमादिर्दशविधः, सर्वज्ञोक्तो विमुक्तये ॥ ८९९ ॥ अपौरुषेयं वचनमसम्भवि भवेद् यदि । न प्रमाणं भवेद् वाचां, ह्याप्ताधीना प्रमाणता ।। ९००॥ मिथ्यादृष्टिभिराम्नातो, हिंसाद्यैः कलुषीकृतः । स धर्म इति वित्तोऽपि, भवभ्रमणकारणम् ॥ ९०१॥ सरागोऽपि हि देवश्चेद्, गुरुरब्रह्मचार्यपि । कृपाहीनोऽपि धर्मः स्यात् , कष्टं नष्टं हहा ! जगत् ॥९०२॥
शम-संवेग-निर्वेदा-ऽनुकम्पा-ऽऽस्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक्, सम्यक्त्वमुपलक्ष्यते ॥ ९०३ ॥ 10 स्थैर्य प्रभावना भक्तिः, कौशलं जिनशासने । तीर्थसेवा च पञ्चाऽस्य, भूषणानि प्रचक्षते ॥ ९०४ ॥
शङ्का काङ्क्षा विचिकित्सा, मिथ्यादृष्टिप्रशंसनम् । तत्संस्तवश्व पश्चापि, सम्यक्त्वं दृषयन्त्यलम् ॥९०५॥ __व्याजहार ब्राह्मणोऽपि, दयिते ! भाग्यवत्यसि । उपलब्धवती सम्यक्, सम्यक्त्वं यन्निधानवत् ॥९०६॥ शुद्धभट्टोऽपि तत्कालं, सम्यक्त्वं प्रत्यपद्यत । धर्मे धर्मोपदेष्टारः, साक्षिमात्रं शुभात्मनाम् ॥ ९०७॥
तौ सम्यक्त्वोपदेशेन, श्रावस्यभवतामुभौ । स्वीस्यातां सिद्धरसात् , सीसक-त्रपुणी अपि ॥ ९०८॥ 15 तत्र ह्यग्रहारे साधुसंसर्गाभावतस्तदा । लोकोऽश्रावकधर्मोऽभूमिथ्यादृष्टिः क्रमेण च ॥९०९ ॥
कुलक्रमागतं धर्ममिमौ सन्त्यज्य दुर्धियौ । श्रावक्यभूतामित्यासीदपवादो जने तयोः ॥ ९१० ॥ अपवादमवज्ञाय, श्राद्धत्वे तस्थुषोस्तयोः । जज्ञे कालक्रमात् पुत्रो, गाईमेध्यतरोः फलम् ॥ ९११ ॥ शिशिरे ब्राह्मणोऽन्येयुः, प्रातरादाय तं सुतम् । विप्रपर्षत्परिवृतां, धर्मार्थाग्निष्टिकां ययौ ॥ ९१२ ॥
श्रावकोऽसीति परतो, गच्छ गच्छेति सक्रुधः । प्रचण्डाश्चण्डालमिव, तं समाचुक्रुशुर्द्विजाः ॥ ९१३ ॥ 20 तां धर्माग्निष्टिका ते च, वेष्टयित्वा समन्ततः । तस्थुर्द्विजातयो जातिधर्मस्तेषां हि मत्सरः ॥ ९१४ ॥
ततो विलक्षः सङ्घद्धो, विलक्षैर्वचनैः स तैः । समक्षं पर्षदस्तस्याश्चक्रे सत्यापनामिति ॥ ९१५ ॥ जिनादिष्टो न चेद् धर्मः, संसाराम्भोधितारणः । आप्ता यदि न चाहन्तः, सर्वज्ञास्तीर्थकारिणः ॥९१६॥ ज्ञान-दर्शन-चारित्राण्यध्वा यदि न निवृतेः । सम्यक्त्वं भुवि चेन्नास्ति, तन्मे सूनुः प्रदह्यताम् ॥९१७॥
अथाऽस्ति सर्वमप्येतज्वलनः प्रज्वलन्नपि । जलवच्छीतलस्तर्हि, मत्पुत्रस्य भवत्वसौ ॥ ९१८ ॥ 25 इत्युदित्वा स रोषेण, ज्वलनोऽन्य इव ज्वलन् । ज्वलने तत्र चिक्षेप, पुत्रं राभैसिको द्विजः ॥ ९१९ ॥
अनार्येणाऽमुना बालो, दग्धो दग्धो हहा ! स्वकः । एवमाक्रोशिनी पर्षत, तमाचुक्रोश सा तदा ॥ ९२०॥ तत्रस्था देवता चैका, सम्यग्दर्शनशालिनी । सद्यश्चिक्षेप तं बालं, मध्येपनं द्विरेफवत् ॥ ९२१॥ ज्वालाजालकरालस्य, ज्वलतो ज्वलनस्य च । दाहशक्तिं जहाराऽऽशु, चित्रस्थमिव तं व्यधात् ॥ ९२२ ॥
पुरा विराद्धश्रामण्या, मृत्वा व्यन्तर्यभूद्धि सा । बोधिलाभं तया पृष्टो, व्याजहारेति केवली ॥ ९२३ ॥ 30 भवत्याः सुलभा बोधिर्भवितव्यं त्वयाऽनघे ! । सम्यक्त्वभावनोद्योगनिष्ठया सुष्टु तत्कृते ॥ ९२४ ॥
तद्वचो बिभ्रती नित्यं, हृदये हारयष्टिवत् । सम्यक्त्वमाहात्म्यकृते, सा जुगोप तमर्भकम् ॥ ९२५ ॥ प्रभावं तं तु सम्प्रेक्ष्य, विसयमेरचक्षुषः । जज्ञिरे ते द्विजन्मान, आजन्मादृष्टपूर्विणः ॥ ९२६ ॥
गत्वा वेश्मन्याचचक्षे, ब्राह्मण्यै ब्राह्मणः स तम् । जातप्रमोदः सम्यक्त्वानुभावानुभवं तदा ॥ ९२७॥ विपुलागणिनीगाढसंसर्गेण विवेकिनी । ब्राह्मणीत्यब्रवीद् धिग्धिक्, किमिदं विदधे त्वया ? ॥ ९२८॥ 35 सम्यक्त्वभाजः कस्याश्चिद्, देवताया हि सनिधेः । वक्रमप्य॒जुतां प्राप्तमिदं ते कोपचापलम् ॥९२९ ॥
हातोऽपि। २ श्रावको जातौ। ३ प्रतिज्ञाम् । ४ साहसिकः। ५ संयमविराधिनी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org