________________
तृतीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
२११ किमनेन प्रभो ! पृष्टं ?, प्रभुणा कथितं च किम् ? । सङ्केतवार्तासदृशमिदं बोधय नः स्फुटम् ॥ ८६०॥ ___ आचख्यौ प्रभुरप्यस्याः, पुर्या अनतिदूरतः । अग्रहारो महानस्ति, शालिग्रामाभिधानकः ॥८६१ ॥ तत्र दामोदरो नाम, वसति ब्राह्मणाग्रणीः । सधर्मचारिणी चाऽस्ति, तस्य सोमेति नामतः ॥ ८६२॥ शुद्धभट्टोऽभिधानेन, तयोश्च तनयोऽभवत् । दुहिता सिद्धभट्टस्य, तेन वोढा सुलक्षणा ॥ ८६३ ॥ सुलक्षणा-शुद्धभदौ, प्रतिपद्य च यौवनम् । बुभुजाते यथाकामं, भोगान् खविभयोचितान् ॥८६४॥ 5 कालक्रमेण पितरौ, विपेदाते तयोरथ । परिक्षयमुपेयाय, विभवः सोऽपि पैतृकः ॥ ८६५ ॥ क्षपायां क्षुधितोऽशेत, सुभिक्षेऽपि कदाऽप्यसौ । निर्धनस्य सुभिक्षेपि, दुर्भिक्षं पारिपार्श्विकम् ॥ ८६६ ॥ जीर्णवासःखण्डधारी, पर्याट च कदाचन । पुरि राजपथे देशान्तरकेपटिकोपमः ॥ ८६७ ॥ कदाचिच्चातक इव, चिरं तस्थौ पिपासितः । कदाचिन्मलमलिनः, पिशाच इव दुर्वपुः ॥ ८६८॥ लजितः सहवासिभ्योऽपीदृशेनाऽऽत्मना च सः । भार्याया अप्यनाख्याय, दूरं देशान्तरं ययौ ॥८६९॥ 10 देशान्तरगतिं तस्य, भार्या कतिपयैर्दिनैः । वज्रपातसोदरया, जनश्रुत्याऽशृणोत् ततः ॥ ८७० ॥ पितृक्षया-ऽर्थक्षयाभ्यां, पत्युर्विगमनेन च । चिरं निर्लक्षणम्मन्या, ताम्यति स्म सुलक्षणा ॥ ८७१॥ उद्विग्ना यावदस्थात् सा, तावदागात् तपात्यये । गणिनी विपुला नाम, तद्गृहे वसतीच्छया ॥ ८७२ ॥ अर्पयामास वसति, विपुलायाः सुलक्षणा । शुश्राव च प्रतिदिनं, तन्मुखाद् धर्मदेशनाम् ॥ ८७३ ॥ ययौ तस्याश्च मिथ्यात्वं, धर्मदेशनया तया । अम्लस्य मधुरद्रव्यसम्बन्धेनाऽम्लता यथा ॥ ८७४॥ 15 ततः परं साऽनवद्यं, सम्यक्त्वं प्रत्यपद्यत । कृष्णपक्षमतिक्रम्य, नैर्मल्यमिव शर्वरी ।। ८७५ ॥ जीवा-ऽजीवादिपदार्थान्, सर्वानपि यथास्थितान् । वैद्यो दोषानिवाङ्गोत्थान्, यथावत् प्रत्यपद्यत ॥८७६॥ धर्म जैनं च जग्राह, संसारोल्लञ्चनक्षमम् । सांयात्रिकः पोतमिव, सागरोत्तारणोचितम् ॥ ८७७ ॥ तस्या विषयवैराग्यमुपशान्तकपायता । निवेदो जन्म-मरणेष्वविच्छिन्नेषु चाऽभवत् ॥ ८७८ ।। साध्वीशुश्रूषया सैवं, वर्षाकालमजीगमत् । रसाढ्यया जागरूकः, कथया रजनीमिव ॥ ८७९ ॥ 20 तस्या दत्त्वाऽणुव्रतानि, गणिनी साऽन्यतो ययौ । प्रायः प्रावृष ऊर्द्ध न, तिष्ठन्त्येकत्र संयताः ॥ ८८०॥ अर्जितद्रविणः सोऽपि, शुद्धभद्दो दिगन्तरात् । प्रियाप्रेमसमाकृष्टः, पारापत इवाऽऽययौ ॥ ८८१॥ ___ ऊचे विप्रः प्रियामेवमसहिष्ठाः कथं प्रिये ! । असोढपूर्विणी मद्वियोगं हिममिवाऽजिनी १ ॥८८२॥ सुलक्षणाऽप्याचचक्षे, श्रूयतां जीवितेश्वर ! । मरुस्थले मरालीव, शफरीवाऽल्पवारिणि ॥ ८८३ ॥ राहुवके चन्द्रलेखेवैणिकेव दवानले । मृत्युद्वारे त्वद्विरहे, दुःसहे पतिताऽस्म्यहम् ॥ ८८४ ॥ 25 अन्धकारे दीपिकेव, नौरिवाऽपारवारिणि । मरुस्थले वृष्टिरिव, दृष्टिरान्ध्य इवाऽनघा ।। ८८५ ॥ मम त्वद्विरहे तस्मिन्, पतितायाः समाययौ । गणिनी विपुला नाम, विपुलैकदयानिधिः ॥ ८८६ ॥ तदर्शनेन मे दुःखं, भवद्विरहजं ययौ । मया प्राप्तं च सम्यक्त्वं, फलं मानुषजन्मनः ॥ ८८७ ॥ शुद्धभट्टोऽप्यभाषिष्ट, सम्यक्त्वं किं नु भट्टिनि ! । जन्मनो मानुषस्याऽस्य, फलभूतं यदुच्यते ? ॥८८८॥ सुलक्षणाऽप्युवाचैवमार्यपुत्र ! निशम्यताम् । कथनीयं तदिष्टानामभीष्टः प्राणतोऽप्यसि ॥ ८८९ ॥ 30 या देवे देवताबुद्धिमुरौ च गुरुतामतिः । धर्मे च धर्मधीः शुद्धा, सम्यक्त्वमिदमुच्यते ।। ८९० ॥ अदेवे देवबुद्धिर्या, गुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिश्च, मिथ्यात्वं तद्विपर्ययात् ॥ ८९१ ॥ सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च, देवोऽर्हन् परमेश्वरः ॥ ८९२ ॥ ध्यातव्योऽयमुपास्योऽयमयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं, शासनं चेतनाऽस्ति पेत् ॥ ८९३ ॥ ये स्त्री-शस्त्रा-ऽक्षसूत्रादिरागाद्यङ्ककलङ्किताः । निग्रहा-ऽनुग्रहपरास्ते देवाः स्युन मुक्तये ॥ ८९४ ॥ - समीपस्थम् । ५ भिक्षुकः। ३ साध्वीसमूहानेसरा । * °पूर्विणं मद्वि सङ्घ १ ॥ ४ ज्ञानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org