________________
२१० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ द्वितीय पर्व उद्दामदुन्दुभिध्वानध्वनिताशेषदि खः । उलूलुमुखरैश्वाऽनुगम्यमानो वधूजनैः ॥ ८२६ ॥ विष्वक् परिवृतः पौरैः, पद्मकोश इवालिभिः । बलिः समवसरणं, पूर्वद्वाराध्वनाऽविशत् ॥ ८२७॥ ततः प्रदक्षिणीकृत्य, जगत्रयपतिं बलिः । तैः पुरश्चिक्षिपे दिव्यपुष्पवृष्टिविडम्बकः ॥ ८२८ ॥ नभस्तः पततस्तस्याऽगृह्णन्नधं दिवौकसः । सगरो भूगतस्याऽधं, तच्छेषमपरे जनाः ॥ ८२९ ॥ बलेस्तस्य प्रभावेण, नश्यन्ति प्राग्भवा अपि । नोत्पद्यन्ते नूतनाच, षण्मासान यावदामयाः ॥ ८३०॥ सिंहासनात् समुत्थायाऽथोत्तरद्वारवर्मना । निर्वाणवर्त्मनोऽग्रेगूर्निर्जगाम जगत्पतिः ॥ ८३१॥ ऐशानदिश्यूद्ध-मध्यवप्रयोरन्तरस्थिते । देवच्छन्दे देवदेवो, विशश्राम ततः किल ॥ ८३२ ॥
सगरेणोपनीतेऽथ, तत्र सिंहासने स्थितः । अकरोद् देशनां सिंहसेनो गणधराग्रणीः ॥ ८३३ ॥ भगवत्स्थानमाहात्म्यात्, स तत्र गणभृद्वरः । सङ्ख्यातीतान् भवानाख्यद्, यच पप्रच्छ कश्चन ॥ ८३४ ॥ खामिपर्षदि तस्यां तं, सन्देहापोहकं तथा । छद्मस्थ इति नाऽज्ञासीद्, विना केवलिनं जनः ॥ ८३५ ॥ गुरोः खेदविनोदच, प्रत्ययश्च द्वयोरपि । गुरु-शिष्यक्रमश्चेति, गणभृद्देशनागुणाः ॥ ८३६ ॥ पौरुष्यां च द्वितीयायां, सम्पूर्णायां गणाग्रणीः । व्यरंसीद् देशनातः स, पथिको गमनादिव ॥ ८३७ ॥ देशनाविरते तसिन्, प्रणम्य परमेश्वरम् । चेलर्निजनिजस्थानं, प्रति सर्वे दिवौकसः ॥ ८३८ ॥
गत्वा नन्दीश्वरद्वीपं, पर्वतेष्वञ्जनादिषु । शाश्वतार्हत्प्रतिमानां, चक्रुस्तेऽष्टाह्निकोत्सवम् ॥ ८३९ ॥ 15 भूयो भूयोऽपि भूयान्नो, यात्रेदृगिति भाषिणः । ययुर्निजनिजं धाम, स्वर्धामानो यथागतम् ॥ ८४० ॥ भगवन्तं नमस्कृत्य, सगरश्चक्रवर्त्यपि । पुरं जगाम साकेतं, श्रीसङ्केतनिकेतनम् ॥ ८४१॥
ततश्च तीर्थे तत्रैवोत्पन्नो यक्षश्चतुर्मुखः । श्यामवर्णो गजरंथो,महायक्षोभिधानतः ॥ ८४२ ॥ वरदेन मुद्गरिणा, साक्षसूत्रेण पाशिना । चतुर्भिर्दक्षिणैर्हस्तैर्वामैस्तावद्भिरेव च ॥ ८४३ ॥
वीजपूरधरेणाऽभीदायिनाऽङ्कुशधारिणा । सशक्तिना शोभितोऽभूत्, स्वामिनः पारिपार्श्विकः ॥ ८४४ ॥ 20 देवताजितबला च, तदोत्पन्ना सुवर्णरुक् । भान्ती दक्षिणबाहुभ्यां, वरदेनाऽथ पाशिना ॥ ८४५ ॥ बीजपूरा-ऽङ्कुशभृद्भयां, वामदोभ्यां च शोभिता । लोहासनस्था पार्श्वेऽस्थान, भर्तुः शासनदेवता ॥८४६॥
चतुस्त्रिंशदतिशयशोभितो भगवानपि । व्यहार्षीत् सिंहसेनादिपरिवारवृतो महीम् ॥ ८४७ ॥ बोधयन् भव्यभविनः, प्रतिग्राम-पुरा-ऽऽकरम् । कृपारत्नाकरः प्राप, कौशाम्बी प्रभुरन्यदा ॥ ८४८ ॥
तस्याः पूर्वोत्तरदिशि, क्षेत्रे योजनमात्रके । प्रभोः समवसरणं, पूर्ववद् विदधे सुरैः ॥ ८४९ ॥ 25 तत्राऽशोकतले सिंहासनासीनो जगत्पतिः । ससुरा-ऽसुर-मायां, देशनां पर्षदि व्यधात् ॥ ८५० ॥
एकं द्विजन्ममिथुनमथैत्य त्रिजगद्गुरुम् । प्रदक्षिणीकृत्य नत्वा, यथास्थानमुपाविशत् ॥ ८५१ ॥ कथान्तरे जगन्नाथ, द्विजन्ममिथुनाद् द्विजः । पप्रच्छ साञ्जलिरिदं, कथं नु भगवन्निति ॥ ८५२ ॥ शशंस प्रभुरप्येवं, सम्यक्त्वमहिमा ह्ययम् । सर्वानर्थनिषेधा-ऽर्थसिद्ध्योरेकं निवन्धनम् ॥ ८५३ ।।
तेन शाम्यन्ति वैराणि, वृष्ट्येव दववह्नयः । नश्यन्ति व्याधयोऽशेषाः, सर्पा इव गरुत्मता ॥ ८५४ ॥ 30 दुष्कर्माणि विलीयन्ते, हिमानीवाहिमांशुनी । सिध्यत्यभीप्सितं चिन्तामणिनेव क्षणादपि ॥ ८५५ ॥
वार्येवं कुञ्जरवरो, देवायुःकर्म वध्यते । देवताः सन्निधीयन्ते, मत्रेणेव महौजसा ॥ ८५६ ॥ अथवा सर्वमप्येतत्, सम्यक्त्वफलमल्पकम् । महाफलं सिद्धिरपि, तीर्थकृत्त्वं च जायते ॥ ८५७ ॥
श्रुत्वेति मुदितो विप्रः, प्रणम्योचे कृताञ्जलिः । भगवन्नेवमेवेदं, न सर्वज्ञगिरोऽन्यथा ॥ ८५८ ॥ इत्युक्त्वा तत्र तूष्णीके, स्थिते गणधराग्रणीः । जाननपि जनज्ञानकृतेऽपृच्छजगद्गुरुम् ।। ८५९ ॥
गीतादिध्वनिः । २ रोगाः । ३ अग्रगामी । ४ सन्देहनाशकम् । ५ देवाः । ६ गजवाहनः। ७ फलविशेषः। ८ अभय. मुद्राहितेन । ९ वार्ताप्रस्तावे। १० महद् हिमम् । ११ सूर्येण । १२ गजबन्धनरजुना । १३ विप्रे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org