________________
तृतीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
२०९ आ ऐशानाच्च भवनवास्याद्यास्त्रिदिवौकसः । भवन्त्यङ्गप्रवीचारास्ते हि सङ्किष्टकर्मकाः ॥ ७९३ ॥ तीव्रानुरागाः सुरते, लीयमाना मनुष्यवत् । सर्वाङ्गीणस्पर्शसुखात्, प्रीतिमासादयन्ति तु ॥७९४॥ युग्मम् ॥ शेषाः स्पर्श-रूप-शब्दप्रवीचारा द्वयोर्द्वयोः । मनःप्रवीचारभृतश्चतुषु चाऽऽनतादिषु ॥ ७९५ ॥ अमरेभ्यः प्रवीचारवट्योऽनन्तसुखात्मकाः । अपरेष्वप्रवीचारा, देवा अवेयकादिषु ॥ ७९६ ॥
इत्यधस्तात्तिर्यगूर्द्धभेदो लोकोऽस्य मध्यतः । वसनाड्यस्ति च चतुर्दशरज्जुप्रमाणिका ॥ ७९७ ॥ 5 ऊर्धा-ऽधोभागयो रज्जुप्रमाणायाम-विस्तृतिः । अन्तस्त्रसाः स्थावराश्च, स्थावरा एव तद्वहिः ॥ ७९८ ॥ विस्तारेऽधः सप्तरज्जुरेकरज्जुश्च मध्यतः । ब्रह्मलोके पञ्चरज्जुः, पर्यन्ते चैकरज्जुकः ।। ७९९ ॥ सुप्रतिष्ठाकृतिर्लोको, न केनापि कृतो धृतः। स्वयंसिद्धो निराधारो, व्योनि तिष्ठति किन्त्वसौ ? ॥८००॥
॥युग्मम् ॥ अमुं लोकं समस्तं वा, व्यस्तं वाऽपि हि चिन्तयेत् । धीमान् शुभेतरध्यानप्रतिषेधनिबन्धनम् ॥ ८०१॥10 धर्मध्याने भवेद् भावः, क्षायोपशमिकादिकः । लेश्याः क्रमविशुद्धाः स्युः, पीत-पद्म-सिताः पुनः ॥८०२॥ असिन् नितान्तवैराग्यव्यतिषङ्गतरङ्गिते । जायते देहिनां सौख्यं, स्वसंवेद्यमतीन्द्रियम् ।। ८०३ ।। त्यक्तसङ्गास्तनुं त्यक्त्वा, धर्मध्यानेन योगिनः । अवेयकादिस्वर्गेषु, भवन्ति त्रिदशोत्तमाः ॥ ८०४ ॥ महामहिमसौभाग्य, शरच्चन्द्रनिभप्रभम् । प्राप्नुवन्ति वपुस्तत्र, स्रग्भूषा-ऽम्बरभूषितम् ॥ ८०५॥ विशिष्टवीर्यबोधाढ्यं, कामार्तिज्वरवर्जितम् । निरन्तरायं सेवन्ते, सुखं चाऽनुपमं चिरम् ॥ ८०६॥ 15 इच्छासम्पन्नसर्वार्थमनोहारिसुखामृतम् । निर्विनमुपभुञ्जाना, गतं जन्म न जानते ॥ ८०७ ॥ दिव्यभोगावसाने च, च्युत्वा त्रिदिवतस्ततः । उत्तमेन शरीरेणाऽवतरन्ति महीतले ॥ ८०८॥ दिव्यवंशे समुत्पन्ना, नित्योत्सवमनोरमान् । भुञ्जते विविधान् भोगानखण्डितमनोरथाः ॥ ८०९॥ ततो विवेकमाश्रित्य, विरज्याऽशेषभोगतः । ध्यानेन ध्वस्तकर्माणः, प्रयान्ति पदमव्ययम् ॥ ८१०॥
एवं विश्वजनीनेन, तीर्थनाथेन निर्ममे ।-त्रिजगत्कुमुदानन्दकौमुदी धर्मदेशना ॥ ८११॥ 20 श्रुत्वा च देशनां भर्तुः, प्रतिबुद्धाः सहस्रशः । नरा नार्यश्च जगृहुर्दीक्षां मोक्षैकमातरम् ॥ ८१२॥ तदानीं च सुमित्रोऽपि, पिता सगरचक्रिणः । पुरा भावयतिर्दीक्षामाददे स्वामिनोऽन्तिके ॥ ८१३ ॥ ततश्च पश्चनवतेर्गणभृन्नामकर्मणाम् । संयतानां सिंहसेनप्रभृतीनां सुमेधसाम् ॥ ८१४ ॥ उत्पत्ति-विगम-ध्रौव्यरूपामूचे पदत्रयीम् । सर्वागमव्याकरणप्रत्याहारोपमा प्रभुः॥८१५ ॥ तत्रिपद्यनुसारेण, द्वादशाङ्गी सपूर्विकाम् । रेखानुसारेणाऽऽलेख्यमिव तेऽरचयन्नथ ॥ ८१६ ॥ 25 चूर्णपूर्णमथ स्थालमादायोत्थाय वासवः । स्वामिनः पादपद्मान्ते, तस्थौ सुरगणावृतः॥ ८१७॥ अथोत्थाय गणभृतां, चूर्ण मूर्धसु निक्षिपन् । क्रमेण सूत्रेणाऽर्थेन, तथा तदुभयेन च ॥ ८१८॥ द्रव्यैर्गुणैः पर्ययैश्च, नयैरपि जगत्पतिः । ददावनुयोगानुज्ञां, गणानुज्ञामपि खयम् ॥ ८१९ ॥ उपरिष्टाद् गणभृतां, वासक्षेपं दिवौकसः । नरा नार्यश्च विदधुर्दुन्दुभिध्वानपूर्वकम् ॥ ८२० ॥ पीयूषनिःस्यन्दमिव, रचिताञ्जलिसम्पुटाः । स्वामिवाचं प्रतीच्छन्तस्तस्थुर्गणधरा अपि ॥ ८२१॥ 30 भेजे सिंहासनं पूर्वाभिमुखः पूर्ववत् पुनः । अनुशिष्टिमयीं तेभ्यो, देशनां विदधे विभुः ॥ ८२२ ॥ __ अत्रान्तरे च प्रथमा, पर्यपूर्यत पौरुपी । पारयामास भगवानपि तां धर्मदेशनाम् ॥ ८२३ ॥ तदा विशालस्थालस्थश्चतुःप्रस्थप्रमाणकः । आपूर्णः शालिभिः शुद्धः, पद्मसौरभशालिभिः ॥८२४ ॥ उपसंवर्गितामोदो, दिविषद्गन्धमुष्टिभिः । कारितः सगरराजेनोत्क्षिप्तो वरपूरुषैः ॥ ८२५ ॥
१ सम्बन्धः। २ वैराग्यं प्राप्य। ३ विश्वहितकारिणा। ४ सर्वागमानां स्पष्टीकरणे प्रत्याहारसदशीम् । ५ सूत्रााम्याम् । शिक्षामयीम्। ७ संमिश्रित आमोदो मसिन् सः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org