________________
२०८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ द्वितीयं पर्व रजवश्वाऽऽ सहस्रारं, पञ्च षट् चाऽच्युतावधि । लोकान्तमवधीकृत्य, जायन्ते सप्त रजवः ॥ ७५९ ॥ सौधर्मेशानकल्पौ तु, चन्द्रमण्डलवर्तुलौ । दक्षिणार्धे तत्र शक्र, ऐशानश्चोत्तरार्धके ॥ ७६० ॥ सनत्कुमार-माहेन्द्रावप्येवं तत्समाकृती । सनत्कुमारोऽपाच्याथै, माहेन्द्रस्तूत्तरार्धके ॥ ७६१ ॥ लोकपुंस्कूर्परसमप्रदेशेऽतः परं पुनः । लोकमध्यभागे ब्रह्मलोको ब्रह्मा च तत्प्रभुः ॥ ७६२ ॥ प्रान्ते सारखता-ऽऽदित्या-ऽन्यरुण-गर्दतोयकाः। तुषिता-ऽव्यावाध-मरुद्रिष्टा लोकान्तिकामराः॥ तदूद्धं लान्तकः कल्पस्तन्नामा तत्र वासवः । तस्योपरि महाशुक्र, इन्द्रस्तन्नामकोऽत्र च ॥७६४॥ तदूद्धं च सहस्रारस्तन्नामा तत्र वासवः । सौधर्मेशानंसंस्थानावानत-प्राणतो ततः ॥ ७६५ ॥ तयोः प्राणतकल्पस्थः, प्राणताख्यः पुरन्दरः। तदूर्द्ध च तदाकारी, द्वौ कल्पावारणाऽच्युतौ॥७६६॥
तयोरच्युतवास्तव्य, एक इन्द्रोऽच्युताभिधः । ग्रैवेयका-ऽनुत्तरेषु, त्वहमिन्द्रा दिवौकसः ॥ ७६७ ॥ 10 घनोदधिप्रतिष्ठानौ, कल्पौ तु प्रथमाविह । वायुकृतप्रतिष्ठानास्त्रयः कल्पास्ततः परम् ॥ ७६८ ॥
घनोदधि-धनवातप्रतिष्ठानास्ततस्त्रयः । ततस्तदूर्द्धमाकाशप्रतिष्ठानाः सुरालयाः॥ ७६९ ॥ इन्द्राः सामानिकास्त्रायस्त्रिंशाः पार्षद्य रक्षकाः। लोकपाला अनीकानि, प्रकीणों आभियोगिकाः ॥ ७७० ॥ किल्विपिकाश्चेति तेषु, दशभेदा दिवौकसः । इन्द्राः सामानिकादीनामधिपाः सर्वनाकिनाम् ॥ ७७१ ॥
सामानिकाश्चेन्द्रसमाः, परमिन्द्रत्ववर्जिताः । त्रायस्त्रिंशा मत्रि-पुरोहितप्राया हरेः पुनः ॥ ७७२ ॥ 15 वयसप्रायाः पार्षद्या, आत्मरक्षास्तु रक्षकाः । आरक्षकॉर्थनृचरस्थानीया लोकपालकाः ॥ ७७३ ॥
तत्रप्रायाण्यनीकानि, प्रकीर्णा ग्राम्य-पौरवत् । दासप्राया आभियोग्याः, किल्विषाश्चान्त्यजोपमाः ॥७७४॥ ज्योतिष्क-व्यन्तरास्त्रायस्त्रिंश-लोकपवर्जिताः । विमानलक्षाः सौधर्म, द्वात्रिंशत् त्रिदिवौकसाम् ॥७७५॥ ऐशान-सनत्कुमार-माहेन्द्र-ब्रह्मणामपि । अष्टाविंशतिद्वादशाऽष्टौ चत्वारः क्रमेण तु ॥ ७७६ ॥
लक्षार्धं लान्तके शुक्रे, चत्वारिंशत् सहस्रकाः । षट् सहस्राः सहस्रारे, युगले तु चतुःशती ॥७७७॥ 20 त्रिशत्यारणा-ऽच्युतयोराद्ये ग्रैवेयकत्रिके । शतमेकादशाग्रं तु, मध्ये सप्तोत्तरं पुनः ॥ ७७८ ॥
विमानानां शतं त्वेकमन्त्यग्रैवेयकत्रिके । अनुत्तरविमानानि, पश्चैव हि भवन्ति तु ॥ ७७९ ॥ एवं देवविमानानां, लक्षाशीतिश्चतुर्युता । सप्तनवतिः सहस्रास्त्रयोविंशतिरेव च ॥ ७८०॥ अनुत्तरविमानेषु, चतुषु विजयादिषु । देवा द्विचरमा एकचरमाः पञ्चमे पुनः॥ ७८१॥
सौधर्मकल्पादारभ्य, सर्वार्थ यावदेषु च । स्थित्या दीप्त्या प्रभावेण, विशुद्ध्या लेश्यया सुखैः ॥७८२॥ 25 इन्द्रियाणां विषयेणाऽवधिज्ञानेन चाऽमराः । भवन्ति पूर्वपूर्वेभ्योऽभ्यधिका उत्तरोत्तराः ।। ७८३ ॥
परिग्रहा-अभिमानाभ्यां, वपुषा गमनेन च । हीनहीनतरा एते, भवन्ति तु यथाक्रमम् ॥७८४ ॥ जायते सर्वजघन्यस्थितीनां त्रिदिवौकसाम् । सप्तस्तोकान्त उच्छास, आहारस्तु चतुर्थतः ॥ ७८५॥ पल्योपमस्थितीनां तु, भवति त्रिदिवौकसाम् । दिवसस्यान्तरुच्छास, आहारोहःपृथक्त्वतः ॥ ७८६ ॥
यावन्तः सागरा यस्य, तावन्मासार्धकैः पुनः । उच्छासस्तस्य तावद्भिराहारोऽब्दसहस्रकैः ॥ ७८७ ॥ 30 देवाः सवेदनाः प्रायो, यद्यसवेदनाः पुनः । अन्तर्मुहर्त्तकालं स्युर्मुहूर्तात् परतो न हि ॥ ७८८ ॥
आ ऐशानात् समुत्पत्तिर्देवीनां गतिराऽच्युतात् । उत्पद्यन्ते तापसास्तु, ज्योतिष्कत्रिदशावधि ॥ ७८९ ॥ आ ब्रह्मलोकाचरक-परिव्राजां तु सम्भवः । पञ्चेन्द्रियतिरश्थामा, सहस्रारं पुनर्जनिः॥ ७९० ॥ श्राद्धानामाऽच्युतं मिथ्यादृशां तु जिनलिङ्गिनाम् । सामाचारीपालकानामन्त्यप्रैवेयकावधि ॥ ७९१ ॥ ब्रह्मलोकादिसर्वार्थसिद्धान्तं पूर्णपूर्विणाम् । साधु-श्राद्धानां सौधर्मे, संद्वतानां जघन्यतः ॥ ७९२ ॥ __ * धर्मशा सङ्घ २ ॥ + ईशा सङ्घ २ ॥ १ सौधर्मशानकल्पसदृशौ । । कार्थचरपुंस्था सङ्घ ३॥ २ आरक्षकार्य चारपुरुषसाशाः। ३ सेनासदृशानि । ४ लोकपालाः। ५ मनुष्यभवदयेन सिद्धिगामिनः। ६ चतुर्दशपूर्विणाम्। सबता सक॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org