________________
२०७
तृतीयः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । लक्षयोजनदीर्घाणि, महोद्यानानि तानि तु । अशोक-सप्तच्छदक-चम्पक-चूतसंज्ञया ॥ ७२५ ॥ मध्ये पुष्करिणीनां च, स्फाटिकाः पल्यमूर्तयः । ललाम-वेद्युद्यानादिचिह्ना दधिमुखाद्रयः ॥ ७२६ ॥ चतुःषष्टिसहस्रोच्चाः, सहस्रं चाऽवगाहिनः । विस्तृता दशसहस्त्रीं, योजनानामुपर्यधः ॥ ७२७॥ अन्तरे पुष्करिणीनां, द्वौ द्वौ रतिकराचलौ । ततो भवन्ति द्वात्रिंशदेते रतिकराचलाः ॥ ७२८॥ शैलेषु दधिमुखेषु, तथा रतिकरादिषु । शाश्वतान्यर्हचैत्यानि, सन्त्यञ्जनगिरिष्विव ॥ ७२९ ॥ चत्वारो द्वीपविदिक्षु, तथा रतिकराचलाः । दशयोजनसहस्रायाम-विष्कम्भशालिनः ॥ ७३० ॥ योजनानां सहस्रं तु, यावदुच्छ्रयशोभिताः । सर्वरत्नमया दिव्या, झल्लाकारधारिणः ॥ ७३१ ॥ तत्र द्वयो रतिकराचलयोर्दक्षिणस्थयोः । शक्रस्पैशानस्य पुनरुत्तरस्थितयोः पृथक् ॥ ७३२ ॥ अष्टानां महादेवीनां, राजधान्योऽष्टदिक्षु ताः । लक्षाबाधा लक्षमाना, जिनायतनभूषिताः ॥ ७३३ ॥ सुजाता सौमनसा चार्चिमाली च प्रभाकरा । पद्मा शिवा शुच्यअने, भूता भूतावतंसिका 10 गोस्तूपा-सुदर्शने अप्यमला-अप्सरसौ तथा। रोहिणी नवमी चाऽथ, रत्ना रत्नोचयापि च।।७३५॥ सर्वरत्ना रत्नसश्चया वसुर्वसुमित्रिका । वसुभागाऽपि च वसुन्धरानन्दोत्तरे अपि ॥ ७३६ ॥ नन्दोत्तरकुरुर्देवकुरुः कृष्णा ततोऽपि च । कृष्णराजी-रामा-रामरक्षिताः प्राक्क्रमादमूः॥७३७॥ सर्वर्द्धयस्तासु देवाः, कुर्वते सपरिच्छदाः । चैत्येष्वष्टाह्निकाः पुण्यतिथिषु श्रीमदर्हताम् ॥ ७३८ ॥
नन्दीश्वरपरिक्षेपी, ततो नन्दीश्वरोर्णवः । ततः परोऽरुणद्वीपोऽस्त्यरुणोदश्च सागरः ॥ ७३९ ॥15 ततोऽरुणवरो द्वीपस्तन्नामा च पयोनिधिः । ततः परोऽरुणाभासोऽरुणाभासश्च सागरः॥ ७४०॥ ततश्च कुण्डलद्वीपः, कुण्डलोदश्च वारिधिः । ततश्च रुचकद्वीपो, रुचकश्च पयोनिधिः ॥ ७४१॥ एवं प्रशस्तनामानो, द्विगुणद्विगुणाः क्रमात् । द्वीपाः समुद्रास्तेष्वन्त्यः, स्वयम्भूरमणोऽम्बुधिः ॥ ७४२॥
द्वीपेष्वर्धतृतीयेषु, देवोत्तरकुरून् विना । भरतैरावत-महाविदेहाः कर्मभूमयः ।। ७४३ ॥ कालोदः पुष्करोदश्च, स्वयम्भूरमणस्तथा । पानीयरसा लवणरसस्तु लवणोदधिः॥ ७४४॥ 20 वारुणोदश्चित्रपानहृयः क्षीरोदधिः पुनः । खण्डमिश्र-घृतचतुर्भागगोक्षीरसन्निभः ॥ ७४५ ॥ घृतोदः सद्यःक्वथितगोघृताभोऽपरे पुनः । चतुर्जातकवत्पर्वान्तच्छिन्नेक्षुरसोपमाः ॥ ७४६ ॥ लवणोदोऽथ कालोदः, स्वयम्भूरमणोऽपि च । मत्स्य-कूर्मादिसङ्कीर्णाः, सागरा नाऽपरे पुनः ॥७४७॥
चत्वारस्तत्र तीर्थेशाश्चक्रिणो विष्णवो बलाः । सदा भवन्ति द्वीपेऽसिन्, जम्बूद्वीपे जघन्यतः ॥७४८॥ उत्कर्षेण चतुस्त्रिंशजिनास्त्रिंशच्च पार्थिवाः । भवन्ति द्विगुणाश्चैते, धातकी-पुष्करार्धयोः ॥ ७४९ ॥ 25
तिर्यग्लोकादितश्चोर्द्धमूर्द्धलोको महर्द्धिकः । नवयोजनशत्यूनसप्तरजुप्रमाणकः ॥ ७५० ॥ तत्र सौधर्म ईशानः, सनत्कुमार इत्यपि । माहेन्द्रो ब्रह्मलोकश्च, लान्तकः शुक्रसंज्ञकः ॥७५१॥ सहस्रारा-ऽऽनत-प्राणता-ऽऽरणा अच्युतोऽपि च । कल्पा इति द्वादशाऽमी, नवौदेयका इमे।।७५२॥ आदौ सुदर्शनं नाम, सुप्रबुद्धं मनोरमम् । सर्वभद्रं सुविशालं, सुमनश्च ततः परम् ॥ ७५३ ॥ सौमनसं प्रीतिकरमादित्यमथ तत्परम् । अनुत्तराभिधानानि, पञ्च सन्ति ततः परम् ॥ ७५४ ॥ 30 विजयं वैजयन्तंच, जयन्तं चाऽपराजितम् । प्राक्क्रमेण विमानानि, मध्ये सर्वार्थसिद्धकम् ॥७५५॥ ततो द्वादशयोजन्या, ऊर्दू सिद्धिशिलाऽस्ति तु । पञ्चचत्वारिंशल्लक्षयोजनायाम-विस्तृता ॥ ७५६ ॥
ततोऽप्युपरि गव्यूतत्रितयात् समनन्तरम् । तुर्यगव्यूतषष्ठांशे, सिद्धा लोकाग्रतावधि ॥ ७५७ ॥ __ आ सोधर्मेशानकल्पं, साधो रसुः समावनेः। सनत्कुमार-माहेन्द्री, साधे रज्जुद्वयं पुनः ॥७५८ ॥
पल्याकृतयः । * योजनानि दशाधस्तादुपरिष्टाच विस्तृताः सङ्घ ३ विना ॥ २ रतिकरालक्षयोजनदूरे। 1 चूता चूता स स ॥ ३ राजधानीषु । ४ देवलोकाः। सिद्धिकम् सङ्घ २॥ धर्मेशा सङ्घ २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org