________________
10
२०६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
| द्वितीयं पर्व ततः परं योजनानामवगाह्य चतुःशतीम् । तावदायामसहितास्तावद्विष्कम्भशोभिनः ॥ ६९० ॥ ऐशान्यादिविदिक्ष्वन्तीपाश्च हयकर्णकः । गजकर्णश्च गोकर्णः, शष्कुलीकर्णकः क्रमात् ॥६९१॥ ततः परं योजनानां, पञ्चशत्यवगाहिनः । तावदायाम-विष्कम्भा, अन्तरद्वीपका इमे ।। ६९२ ॥ तत्राऽऽदर्शमुखो मेषमुखो यमुखस्तथा । गजमुखश्च चत्वार, ऐशान्यादिषु पूर्ववत् ॥ ६९३ ॥ ततः षड्योजनसँतावगाहा-ऽऽयाम-विस्तृताः । अश्वमुखो हस्तिमुखः, सिंह-व्याघ्रमुखावपि ॥६९४॥ योजनानां सप्तशतावगाहा-ऽऽयाम-विस्तृताः । अश्व-सिंह-हस्तिकर्णाः, कर्णप्रावरणः क्रमात्॥६९५॥ ततोऽष्टयोजनशती, लवणोदेऽवगाहिनः । तावदायामसहितास्तावद्विष्कम्भशालिनः ॥ ६९६ ॥ द्वीपा उल्कामुखो विद्युजिह्वो मेषंमुखोऽपि च । विद्युद्दन्तश्च चत्वार, ऐशान्यादिविदिक्क्रमात् ॥६९७ योजनानां नवशतीं, ततोऽपि लवणोदधेः । अवगाह्य स्थितास्तावद्विष्कम्भा-ऽऽयामशालिनः ॥ ६९८ ॥ नाम्ना गूढदन्तो घनदन्तकः श्रेष्ठदन्तकः। शुद्धदन्तश्च चत्वारोऽन्तरद्वीपा विदिक्क्रमात् ॥६९९ ॥ अष्टाविंशतिरेवं च, शिखरिण्यपि पर्वते । एकत्र मेलिताः सर्वे, षट्पञ्चाशद् भवन्ति ते ॥ ७०० ॥ . मानुषोत्तरपरतः, पुष्कराधे द्वितीयकम् । पुष्करस्य परिक्षेपी, द्विगुणः पुष्करोदकः॥७०१॥ ततोऽपि वारुणिवरौ, नाम्ना द्वीप-पयोनिधी । ततः परं क्षीरवरौ, नामतो द्वीप-सागरौ ॥ ७०२॥ ततो घृतवरौ द्वीपा-ऽम्बुधी इक्षुवरौ ततः । ततो नन्दीश्वरो नाम्नाऽष्टमो द्वीपो घुसन्निभः ॥७०३॥ एतद्वलयविष्कम्भे, लक्षाशीतिश्चतुर्युता । योजनानां त्रिषष्टिश्च, कोट्यः कोटिशतं तथा ॥ ७०४ ॥ असौ विविधविन्यासोद्यानवान् देवभोगभूः । जिनेन्द्रपूजासंसक्तसुरसम्पातसुन्दरः ॥७०५ ॥ अस्य मध्यप्रदेशे तु, क्रमात् पूर्वोदिदिक्षु च । अञ्जनवर्णाश्चत्वारस्तिष्ठन्त्यानपर्वताः ॥ ७०६ ॥ दशयोजनसहस्रातिरिक्तविस्तृतारतले । सहस्रयोजनाचोद्ध, क्षुद्रा मेरूच्छ्याश्च ते ।। ७०७ ॥
तत्र प्राग् देवरमणो, नित्योद्योतश्च दक्षिणः । स्वयम्प्रभः प्रतीच्यस्तु, रमणीय उदक्स्थितः॥७०८॥ 20 शतयोजन्यायतानि, तदर्धं विस्तृतानि च । द्विसप्ततियोजनोचान्यर्हचैत्यानि तेषु च ॥ ७०९ ॥
पृथग्द्वाराणि चत्वार्युचानि षोडशयोजनीम् । प्रवेशे योजनान्यष्ट, विस्तारेऽप्यष्ट तेषु तु ॥ ७१०॥ तानि देवाऽसुर-नाग-सुपर्णानां दिवौकसाम् । समाश्रयास्तेषामेव, नामभिर्विश्रुतानि च ॥७११॥ पोडशयोजनायामास्तावन्मान्यश्च विस्तृतौ । अष्टयोजनिकोत्सेधास्तन्मध्ये मणिपीठिकाः ॥ ७१२ ॥
सर्वरत्नमया देवच्छन्दकाः पीठिकोपरि । पीठिकाभ्योऽधिकायामोच्छ्रयभाजश्व तेषु तु ॥७१३॥ 25 ऋषभा वर्धमानाच, तथा चन्द्राननाऽपि च । वारिषेणा चेति नाना, पर्यङ्कासनसंस्थिताः॥७१४॥
रत्नमय्यो युताः खस्वपरिवारेण हारिणा । शाश्वताहत्प्रतिमाः प्रत्येकमष्टोत्तरं शतम् ॥ ७१५ ॥ द्वे द्वे नाग-यक्ष-भूत-कुण्डभृत्प्रतिमे पृथक् । प्रतिमानां पृष्ठतस्तु, च्छत्रभृत्प्रतिमैकिका ॥ ७१६ ॥ तेषु धूपघटी-दाम-घण्टा-ऽष्टमङ्गली-ध्वजाः । छत्र-तोरण-चङ्गेयः, पटलान्यासनानि च ॥ ७१७॥
षोडश पूर्णकलसादीन्यलङ्करणानि च । सुपर्णरुचिररजोवालुकास्तलभूमयः ॥ ७१८ ॥ 30 आयतनप्रमाणेन, रुचिरा मुखमण्डपाः । प्रेक्षार्थमण्डपा अक्षवाटिका मणिपीठिकाः ॥ ७१९ ॥
रम्याश्च स्तूप-प्रतिमाचैत्यवृक्षाच सुन्दराः । इन्द्रध्वजाः पुष्करिण्यो, दिव्याः सन्ति यथाक्रमम् ॥ ७२०॥ प्रत्येकमञ्जनाद्रीणां, ककुप्सु चतसृष्वपि । क्रमादमूः पुष्करिण्यो, मानतो लक्षयोजनाः ॥ ७२१ ॥ नन्दिषेणा चाऽमोघा च, गोस्तृपाऽथ सुदर्शना । तथा नन्दोत्तरा नन्दा, सुनन्दा नन्दिवर्धना
भद्रा विशाला कुमुदा, पुण्डरीकिणिका तथा । विजया वैजयन्ता च, जयन्ता चाऽपराजिता 35 प्रत्येकमासां योजनपञ्चशत्याः परत्र च । योजनानां पञ्चशती, यावत् विस्तारमाञ्जि तु ॥ ७२४॥
* शत्यव सङ्घ १॥ + मेघमु° ढंसं०॥ १ पुष्करार्धाद् द्विगुणः। २ स्वर्गसरशः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org