________________
..
तृतीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
२०५ निविष्टः पुष्करस्याऽर्धे, सौवर्णः सैकविंशतिम् । योजनानां सप्तदशशतीं यावत् समुच्छ्रितः ॥ ६५६ ॥ चतुःशतीं योजनानां, त्रिंशां क्रोशं च भूमिगः । योजनानां सहस्रं द्वाविंशं विस्तीर्णवानधः ॥ ६५७ ॥ योजनानां सप्तशती, त्रयोविंशां च मध्यतः । उपरिष्टाच्चतुर्विशां, योजनानां चतुःशतीम् ॥ ६५८ ॥ नोत्पद्यन्ते न म्रियन्ते, मास्तत्परतः क्वचित् । न म्रियन्ते चारणाद्या, अपि तत्परतो गताः ॥६५९ ॥ मानुषोत्तरनामा च, तेनाऽयं परतोऽस्य च । बादराग्नि-मेघ-विद्युन्नदी-कालादयो न हि ॥ ६६०॥ 5 पञ्चत्रिंशति वर्षेषु, चैष्वर्वागू मानुषोत्तरात् । मनुष्याः सान्तरद्वीपेषूत्पद्यन्ते हि जन्मतः ॥ ६६१ ॥ संहार-विद्य-द्धियोगान्मेर्वादिशिखरेषु च । द्वीपेष्वर्धतृतीयेषु, समुद्रद्वितये च ते ॥ ६६२ ॥ ते च भारतका जम्बूद्वीप्या लावणका अपि । इत्येवमादयः क्षेत्र-द्वीपा-ऽम्भोधिविभागतः ॥६६३॥
द्विधाऽऽर्य-म्लेच्छभेदात् ते, तत्राऽऽर्याः षड्विधा इह । क्षेत्र-जाति-कुल-कर्म-शिल्प-भाषाविभेदतः॥६६४॥ क्षेत्रार्याः पञ्चदशसु, जायन्ते कर्मभूमिषु । तत्रे भारते सार्धपश्चविंशतिदेशजाः ॥ ६६५ ॥ 10 ते चाऽऽयंदेशा नगरेरुपलक्ष्या इमे यथा । राजगृहेण मगधा, अङ्गदेशस्तु चम्पया ॥ ६६६ ॥ वङ्गाः पुनस्ताम्रलिप्त्या, वाराणस्या च काशयः। काञ्चनपुर्या कलिङ्गाः, साकेतेन च कोसलाः॥ कुरवो गजपुरेण, शौर्येण च कुशार्तकाः। काम्पील्येन च पश्चाला, अहिच्छत्रेण जाङ्गलाः॥ विदेहास्तु मिथिलया, द्वारवत्या सुराष्ट्रकाः। वत्साश्च कौशाम्बीपुर्या, मलया भद्रिलेन तु ॥ नान्दीपुरेण सन्दर्भा, वरुणाः पुनरच्छया । वैराटेन पुनर्मत्स्याः , शुक्तिमत्या च चेदयः॥६७०।। 15 दशार्णा मृत्तिकावत्या, वीतभयेन सिन्धवः। सौवीरास्तु मथुरया, सूरसेनास्तु पापया ॥६७१॥ भङ्गयामासपुरीवर्ताः,श्रावस्त्या च कुणालकाः। कोटीवर्षेण लाटाच, श्वेतव्या केतकाधकम् ॥ आर्यदेशा अमी एभिर्नगरैरुपलक्षिताः । तीर्थकृच्चक्रभृत्कृष्ण-बलानां जन्म येषु हि ॥ ६७३ ॥ इक्ष्वाकवो ज्ञात-हरि-विदेहाः कुरवोऽपि च । उग्रा भोजा राजन्याश्च, जात्यार्या एवमादयः॥६७४ ॥ कुलार्यास्तु कुलकराश्चक्रिणो विष्णवो बलाः । तृतीयात् पञ्चमात् सप्तमाद् वा ये शुद्धवंशजाः ॥६७५ ॥20 यजनैर्याजनैः शास्त्राध्ययना-ऽध्यापनैरपि । प्रयोगैर्वार्तया वृत्तिमन्तः कार्यकाः स्मृताः ॥ ६७६ ॥ शिल्पार्याः स्वल्पसावद्यवृत्तयस्तन्तुवायकाः । तुन्नवायाः कुलालाच, नापिता देवलादयः ॥६७७॥ . भाषार्या नाम ते शिष्टभाषानियतवर्णकम् । पञ्चानामपि चाऽऽर्याणां, व्यवहारं वदन्ति ये ॥६७८॥ म्लेच्छास्तु शाका यवनाः, शबराबर्बरा अपि । काया मुँरुण्डा उड्राथ, गोड्राः पक्कणका अपि ॥ अरपाकाचहणाश्च, रोमकाः पारसा अपि । खसाश्च खासिका डौम्बिलिकाश्च लकुसा अपि ॥25 भिल्ला अन्ध्रावुकसाश्च, पुलिन्दाः क्रौञ्चका अपि । भ्रमररुताः कुञ्चाश्च, चीन-चञ्चक-मालवाः॥ द्रविडाश्च कुलक्षाश्च, किराताः कैकया अपि । ह्यमुखा गजमुखास्तुरगा-जमुखा अपि ॥६८२॥ हयकर्णा गजकर्णा, अनार्या अपरेऽपि हि । म, येषु न जानन्ति, धर्म इत्यक्षराण्यपि ॥ ६८३ ॥
॥पञ्चभिः कुलकम् ॥ धर्माःऽधर्मोज्झिता म्लेच्छा, अन्तरद्वीपज़ा अपि । भवन्ति चाऽन्तरद्वीपाः, षट्पश्चाशदमी यथा ॥६८४॥30 तेऽर्धे क्षुद्रहिमवतः, पूर्वा-ऽपरविभागयोः । पूर्वोत्तराप्रभृतिषु, विदिक्षु चतसृष्वपि ॥ ६८५ ॥ पूर्वोदीच्यां दिशि तत्राऽवगाढो लवणोदधिः । त्रियोजनशतीं तावानायामे विस्तृतावपि ॥ ६८६ ॥ प्रथमोऽस्त्यन्तरद्वीप, एकोरुरिति नामतः । पुरुषा द्वीपनाम्नेह, सर्वाङ्गोपाङ्गसुन्दराः॥ ६८७ ॥ न खल्वेकोरुका एव, द्वीपेष्वित्यपरेष्वपि । ज्ञातव्या वक्ष्यमाणेषु, द्वीपनाम्नैव पूरुषाः ॥ ६८८॥ आग्नेय्यादिषु तन्मात्रावगाहा-ऽऽयाम-विस्तृताः। द्वीपा आभाषिको लाङ्गुलिको वैषाणिकः क्रमात् ।। 35 १ देवाजीवाः। * मुरण्डा सङ्क २ ॥ लकुला सङ्ग ३ ॥
त्रिषष्टि, २७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org