________________
२०४
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीयं पर्व पूर्वादिदिक्षु तत्रान्तः, प्रमाणे लक्षयोजनाः । वडवामुख-केयूप-यूपकेश्वरसंज्ञकाः ॥ ६२३ ॥ सहस्रयोजनीमानवनिर्मितकुड्यकाः । योजनानां सहस्राणि, दशाऽधोऽन्ते च विस्तृताः ॥ ६२४ ॥ वायुधृतव्यंशजला, महालिञ्जरसन्निभाः । पातालकलसाः सन्ति, चत्वारः प्राक् क्रमादमी ॥ ६२५ ॥
तेषु कालो महाकालो, वेलम्बोऽथ प्रभञ्जनः ।.वसन्ति क्रीडावासेषु, क्रमेणैव दिवौकसः ॥६२६॥ 5 सहस्रयोजनाश्चाऽन्ये, दशयोजनकुड्यकाः । अधस्ताच बँदने च, शतयोजनसम्मिताः ॥ ६२७ ॥
वायूँत्क्षिप्तमध्यमिश्रापाः शतान्यष्टसप्ततिः । चतुरशीतिश्च क्षुद्रपातालकलसा इह ॥ ६२८ ॥ द्विचत्वारिंशत्सहस्रसङ्ख्या नागकुमारकाः । अन्तर्वेलाधारिणोऽस्मिनायुक्ता इव सर्वदा ॥ ६२९ ॥ बाह्यवेलाधारिणां तु, सहस्राणि द्विसप्ततिः । तथा पष्टिः सहस्राणि, शिखावेलाप्रधारिणाम् ॥ ६३० ॥
गोस्तूप उदकाभासः, शङ्खोऽप्युदकसीमकः । हैमा-ऽङ्क-रौप्य-स्फाटिका, वेलाधारीन्द्रपर्वताः ६३१ 10 गोस्तूप-शिवक-शङ्ख-मनोहृदसुराश्रयाः। द्विचत्वारिंशत्सहस्रयोजन्यां दिग्भवाश्च ते ॥ ६३२ ॥
एकविंशसप्तदशशतयोजनिकोच्छ्याः । ते द्वाविंशयोजनानां, सहस्रं विस्तृतास्त्वधः ॥ ६३३ ॥ उपरिष्टाच्चतुर्विंशां, योजनानां चतुःशतीम् । तेषामुपरि सर्वेषां, प्रासादाः सन्ति शोभनाः ॥ ६३४ ॥ कर्कोटकः कार्दमकः, कैलाशश्चाऽरुणप्रभः । सर्वरत्नमयाचाणुवेलाधारीन्द्रपर्वताः ॥ ६३५ ॥
कर्कोटको विद्युजिह्वः, कैलाशोथारुणप्रभः । वसन्ति देवतास्तेषु, सर्वदैव यथाक्रमम् ॥ ६३६ ॥ 15 सहस्रेषु द्वादशसु, योजनानां विदिक्षु च । प्राच्यामिन्दुद्वीपौ तावद्विस्तारा-ऽऽयामशोभितौ ।। ६३७॥
विद्येते सवितद्वीपावपरेण च तावति । तथाऽस्ति गौतमद्वीपस्तावति सुस्थिताश्रयः॥ ६३८ ॥ अन्तर्बाह्यलावणकचन्द्रा-अर्काणां तथाऽऽश्रयाः । प्रासादास्तेषु लवणरसस्तु लवणोदधिः॥ ६३९ ॥
लवणोदपरिक्षेपी, ततो द्विगुणविस्तृतिः । धातकीखण्ड इत्यस्ति, नाना द्वीपो द्वितीयकः ॥६४०॥ जम्बूद्वीपे च ये मेरु-वर्ष-वर्षधराद्रयः । धातक्यां द्विगुणास्ते तु, ख्यावासरेव नाममिः ॥ ६४१॥ 20 इष्वाकारपर्वताभ्यां, दीर्घाभ्यामुदग्याम्ययोः । विभक्ता जम्बूद्वीपस्थसझनाः पूर्वापरार्धयोः ॥ ६४२ ॥
चक्राराभा निषधोच्चाः, कालोद-लवणस्पृशः । वर्षधराः सेष्वाकारा, वर्षास्त्वरान्तरखिताः ॥ ६४३ ॥ धातकीखण्डद्वीपस्य, परिक्षेपी पयोनिधिः । कालोदाख्यो योजनानामष्टौ लक्षाणि विस्तृतः ॥६४४॥ धातक्यां सेष्वाकाराणां, मेर्वादीनाममापि यः । सङ्ख्याविषयनियमः, पुष्कराधै स एव हि ॥ ६४५ ॥
धातकीखण्डक्षेत्रादिविभागाद् द्विगुणः पुनः । क्षेत्रादिकविभागोऽत्र, पुष्करार्धे प्रकीर्तितः ॥ ६४६ ।। 25 चत्वारो मेरवः क्षुद्रा, धातकी-पुष्करार्धयोः । योजनानां पञ्चदशसहरूया मेरुतोऽणवः ॥ ६४७॥
मेरोर्योजनषट्शत्या, हीनविष्कम्भकाः क्षितौ । तेषां च प्रथम काण्डं, महामेरोरेनूनकम् ॥ ६४८॥ द्वितीयं सप्तभिन्यूनं, योजनानां सहस्रकैः । तृतीयमष्टभिर्मेरुवद् भद्रशाल-नन्दने ॥ ६४९ ॥ सहार्धपञ्चपञ्चाशसहस्रयोजनोपरि । पश्चयोजनशत्या च, पृथु सौमनसं वनम् ।। ६५० ॥
अष्टाविंशतिसहरूया, योजनानामथोपरि । पडूनयोजनपञ्चशतविस्तारि पाण्डकम् ॥ ६५१ ॥ 30 उपरिष्टादधस्ताच, विष्कम्भोऽथाऽवगाहनम् । लहामेरुगिरेस्तुल्यं, तत्तुल्या चूलिकाऽपि च ॥ ६५२ ॥
तदेवं मानुषं क्षेत्रं, द्वीपावर्धतृतीयको । द्वावब्धी पश्चत्रिंशञ्च, वर्षाः पञ्च च मेरवः ॥ ६५३ ॥ त्रिंशद् वर्षधरा देवकुरवः पञ्च पञ्च च । उत्तराः कुरवः पष्ट्युत्तरं च विजयाः शतम् ॥ ६५४ ॥
ततः परं पर्वतोऽस्ति, नामतो मानुषोत्तरः । मर्त्यलोकपरिक्षेपी, पुरप्राकारवर्तुलः ॥ ६५५ ।।
१ उपरि। २ तृतीयभागो वायुपूरितो भागद्वये च जलमस्तीति तात्पर्यम् । ३ अलिअरो मृद्भाण्डविशेषः । ४ उपरि । ५ प्रमाणाः। ६ वायुनोक्षिप्ता मध्ये मिश्रा आपो येषां ते। ७ समुद्रे। नियुक्का इव । ९ सुस्थिताभिधानस्य देवस्थाश्रयः। १. लघवः। ११ समानम् । * शत्सह सङ्घ २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org