________________
तृतीयः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । निषधानेरुत्तरतो, मेरोदक्षिणतोऽपि च । विद्युत्प्रभ-सौमनसौ, गिरी पश्चिम-पूर्वकौ ॥ ५८९ ॥ गजदन्ताकृती मूनों, स्तोकादस्पृष्टमेरुको । अनयोरन्तरे देवकुरवो भोगभूमयः ॥ ५९० ॥ तद्विष्कम्भो योजनानामेकादश सहस्रकाः। द्विचत्वारिंशदधिका, योजनाष्टशती तथा ॥ ५९१ ॥ तत्र च शीतोदाभिन्नहदपश्चकपार्श्वतः । स्वर्णशैला दश दश, ते मिथो मीलनाच्छतम् ॥ ५९२ ॥ तत्र नद्याः शीतोदायाः, पूर्वापरतटस्थितौ । शैलौ विचित्रकूटश्च, चित्रकूटश्च नामतः ॥ ५९३॥ 5 तयोः सहस्रमुत्सेधे, योजनानामधोऽपि च । तावानेव हि विस्तारस्तदर्थं चोर्द्धविस्तृतौ ॥ ५९४ ॥ मेरोरुत्तरतो नीलगिरेर्दक्षिणतो गिरी । गजदन्ताकृती गन्धमादनो माल्यवानपि ॥ ५९५ ॥ तयोरन्तः शीताभिन्नहदपञ्चकपार्श्वगैः । स्वर्णशैलैः शतेनाऽतिरम्याः कुरव उत्तराः ॥ ५९६ ॥ तेषु नद्या, शीतायास्तटयोर्यमकाभिधौ । सौवर्णों विचित्रकूट-चित्रकूटसमौ गिरी ॥ ५९७ ॥ देवोत्तरकुरुभ्यः प्राक्, प्राग्विदेहाः स्मृताश्च ते । पश्चिमेऽपरविदेहा, मिथः क्षेत्रान्तरोपमाः॥५९८॥ 10 परस्परमसञ्चारा, विभक्ताः सरिदद्रिभिः । चक्रिविजेया विजयास्तेषु षोडश पोडश ॥ ५९९ ॥ तत्र कच्छो महाकच्छः, सुकच्छः कच्छवानपि । आवर्तो मङ्गलावर्तः, पुष्कलः पुष्कलावती॥ प्राग्विदेहोत्तरा ह्येते, दक्षिणास्त्वथ वत्सकः । सुवत्सोऽथ महावत्सो, रम्यवान् रम्य रम्यकौ ॥ रमणीयो मङ्गलवानथाऽपरविदेहगाः । पद्मः सुपद्मोऽथ महापद्मः पद्मावती तथा ॥ ६०२॥ शङ्ख कुमुद-नलिने, नलिनवांश्च दक्षिणाः । वप्रः सुवप्रोऽथ महावप्रो वप्रावती तथा ॥६०३॥ 15 अथ वल्गुः सुवल्गुश्च, गन्धिला गन्धिलावती । अपरेषु विदेहेषूत्तरस्था विजया अमी ॥६०४॥
मध्ये च भरतस्याऽपागुत्तरार्धविभागकृत् । वैताड्याद्रिः प्रोगपरपयोधी यावदायतः ॥६०५॥ षड् योजनानि सक्रोशान्युा मग्नः स विस्तृतः । पश्चाशतं योजनानि, तदर्धं पुनरुच्छ्रितः ॥ ६०६ ॥ भूमितो दशयोजन्यां, दक्षिणोत्तरपार्श्वयोः । तत्र विद्याधरश्रेण्यौ, दशयोजनविस्तृते ॥ ६०७॥ तत्राऽपाच्यां सराष्ट्राणि, पञ्चाशनगराणि तु । उत्तरसां पुनः पष्टिविद्याधरमहीभुजाम् ॥ ६०८॥ 20 ऊर्द्ध विद्याभृच्छ्रेणिभ्यां, दशयोजन्यनन्तरम् । उभे च व्यन्तरश्रेण्यौ, व्यन्तरावासशोभिते ॥६०९॥ उपरि व्यन्तरश्रेण्योर्योजनेषु तु पञ्चसु । कूटानि नव वैताट्य, ईगैरवतेऽपि हि ॥ ६१०॥
प्राकारभूता द्वीपस्य, जम्बूद्वीपस्य तिष्ठति । जगती वज्रमय्यष्टौ, योजनानि समुच्छ्रिता ॥ ६११॥ तस्याश्च मूले विष्कम्भमाने द्वादशयोजनी । मध्यभागे योजनानि, चाऽष्टौ चत्वारि मूर्धनि ॥ ६१२ ॥ तदृर्द्ध जालकटको, गव्यूतद्वितयोच्छ्रयः । विद्याधराणामाक्रीडस्थानमेकं मनोहरम् ॥ ६१३ ॥ 25 ततोऽपि जालकटकादूर्द्ध पद्मवराभिधा । विद्यते वेदिका रम्या, भोगभूमिर्दिवौकसाम् ॥ ६१४ ॥ तस्या जगत्याः पूर्वादिदिक्षु द्वाराणि च क्रमात् । विजयं वैजयन्तं च, जयन्तमपराजितम् ॥६१५॥ अस्ति च क्षुद्रहिमवन्महाहिमवदन्तरे । शब्दापातीनामधेयाद्, वृत्तवैताठ्यपर्वतः ॥ ६१६ ॥ शैलस्तु विकटापाती, मध्ये शिवार-रुक्मिणोः । गन्धापाती पुनर्महाहिमवन्निषधान्तरे॥६१७॥ माल्यवानन्तराले च, शैलयोनील-रुक्मिणोः । सर्वेऽपि पल्याकृतयः, सहस्रयोजनोच्छ्रयाः॥६१८॥ 30
जबूद्वीपपरिक्षेपी, विस्तारे द्विगुणस्ततः । अवगाहो योजनानां, सहस्रमवनीतले ॥ ६१९ ॥ पश्चनवतियोजनसहलीं च क्रमात् कमात् । उभयतोऽप्युच्छ्रयेण, वर्धमानजलस्तथा ॥ ६२० ॥ मध्ये च योजनदशसहनीप्रमविस्तृतौ । योजनानां सहस्राणि, पोडशोच्छ्रयवच्छिवः ॥ ६२१॥ कालद्वये तदुपरि, गव्यूतद्वितयावधि । हास-वृद्धिधरो नाम्ना, लवणोदः पयोनिधिः ॥ ६२२ ॥
॥ चतुर्भिः कलापकम् ॥ 35 ५ उञ्चन्ये । २ पूर्वस्यां दिशि । ३ पूर्वविदेहाः । ४ चक्रिणा विजेतुं योग्याः । ५ पूर्वपश्चिमसमुद्रौ । ६ दक्षिणस्याम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org