________________
२०२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीयं पर्व नवनवतिं योजनसहस्राणि समुच्छ्रितः । योजनानां सहस्राणि, भूतले दश विस्तृतः ॥ ५५५ ॥ एकं योजनसहस्रमुपरिष्टाच्च विस्तृतः । त्रिकाण्डश्च त्रिभिलोकः, प्रविभक्तवपुश्च सः ॥ ५५६ ॥ शुद्धपृथ्वी-ग्राव-वज्र-शर्कराबहुलं खलु । एकं योजनसहस्रं, सुमेरोः काण्डमादिमम् ॥ ५५७ ॥ जातरूप-स्फटिका-ऽङ्क-रजतैर्बहुलावनि । योजनानां सहस्राणि, त्रिषष्टिस्तु द्वितीयकम् ॥ ५५८॥ षत्रिंशच्च तृतीयं तु, जाम्बूनदशिलामयम् । वैडूर्यरत्नबहुला, चूलिका तस्य शोभना ॥ ५५९ ॥ चत्वारिंशद्योजनानि, पुनस्तस्याः समुच्छूये । मूलविष्कम्भमाने तु, तस्या द्वादशयोजनी ॥ ५६० ॥ अष्टौ तन्मध्यविष्कम्भे, चत्वार्युपरिविस्तृतौ । मेरोर्मूले भद्रशालं, वनं वलयसन्निभम् ॥ ५६१ ॥ भद्रशालात् पञ्चशतयोजन्यामधिमेखलम् । नन्दनं विस्तृतं पञ्च, योजनानां शतानि तु ॥ ५६२ ॥ सार्धद्विषष्टिसहस्रयोजनेष्वथ तादृशम् । मेखलायां द्वितीयस्थां, तावत् सौमनसं वनम् ॥ ५६३॥ वनात् सौमनसात् षट्त्रिंशद्योजनसहस्रतः। भवेदूद्ध तृतीयस्थां, मेखलाभुवि सुन्दरम् ॥ ५६४ ॥ चतुर्नवत्यग्रचतुःशतयोजनविस्तृतम् । वलयाकारमुद्यानं, मेरोः शिरसि पाण्डकम् ॥ ५६५ ॥ जम्बूद्वीपे त्विह द्वीपे, सप्त वर्षाणि भारतम् । हैमवतं हरिवर्ष, विदेहं रम्यकं तथा ॥ ५६६ ॥ हैरण्यवतैरवते, अमून्या दक्षिणोत्तरम् । विभागकारिणोऽमीपाममी वर्षधराद्रयः ॥ ५६७ ॥ हिमवन्महाहिमवन्निषधा नील-रुक्मिणौ । शिखरी चेति मूलोद्धृतुल्यविस्तारशालिनः ॥ ५६८॥ तत्राऽवगाढो मेदिन्यां, पञ्चविंशतियोजनीम् । हेममयोऽद्रिर्हिमवानुच्छ्रितः शतयोजनीम् ॥ ५६९ ॥ महाहिमवदद्रिस्तद्विगुणोऽर्जुननिर्मितः । ततोऽपि द्विगुणस्तापनीयो निषधपर्वतः ॥५७० ॥ नीलस्तु निषधतुल्यो, गिरिवैडूर्यनिर्मितः । महाहिमवता तुल्यो, रुक्मी रजतनिर्मितः ॥ ५७१ ॥ तापनीयस्तु शिखरी, समो हिमवदद्रिणा । सर्वेऽपि पार्श्वभागेषु, विचित्रमणिशालिनः ॥ ५७२ ॥ ___ सहस्रयोजनायामस्तदर्धेन तु विस्तृतः । अद्रौ क्षुद्रहिमवति, पद्मनामा महाहूदः ॥ ५७३ ॥ महाहिमवदद्रौ तु, महापद्माभिधो ह्रदः। विद्यते पद्मदतो, द्विगुणायाम-विस्तृतिः ॥ ५७४ ॥ महापद्मात् तु द्विगुणस्तिङ्गिच्छिनिषधे ह्रदः। तिङ्गिच्छितुल्यो नीलाद्रौ, हृदः केसरिसंज्ञकः॥५७५॥ महापुण्डरीको महापद्मतुल्यस्तु रुक्मिणि । पातुल्यः पुण्डरीकहदः शिवरिपर्वते ॥ ५७६ ॥ विकस्वराणि तिष्ठन्ति, पद्मादिषु ह्रदेषु तु । कमलान्यवगाढानि, जलान्तर्दशयोजनीम् ॥ ५७७ ।।
श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्यायुषोऽत्र तु । सामानिकपार्पद्याऽऽत्मरक्षानीकयुताः क्रमात् ॥५७८॥ 25 तत्र च भरतक्षेत्रे, गङ्गा-सिन्धू महापगे । रोहिता-रोहितांशे तु, क्षेत्रे हैमवताभिधे ॥५७९॥
हरिरिकान्ता नद्यौ, वर्षे तु हरिवर्षके । महाविदेहेषु गीता-शीतोदे सरिदुत्तमे ॥ ५८० ॥ नरकान्ता-नारीकान्ते, क्षेत्रे रम्यकनामनि । स्वर्णकला-रूप्यकूले, हैरण्यवतवर्षके ॥ ५८१ ॥ नद्यौ तु रक्ता-रक्तोदे, क्षेत्र ऐरवताभिधे । आद्याः पूर्वाब्धिगामिन्यो, द्वितीयाः पश्चिमाब्धिगाः॥५८२॥
आपगानां सहस्रेस्तु, चतुर्दशभिरुत्तमः । गङ्गा-सिन्धु महानद्यौ, प्रत्येकं परिवारिते ॥ ५८३ ॥ 30 द्विगुणद्विगुणनदीवृते द्वे द्वे परे अपि । यावच शीता-शीतोद, उत्तरा दक्षिणोपमाः ॥ ५८४ ॥
प्रत्येकं ते पुनः शीता-शीतोदे परिवारिते । द्वात्रिंशत्सहस्राधिकर्नदीलक्षस्तु पञ्चभिः ॥ ५८५ ॥ भरतोरुत्वे षड़विंशा, पञ्चयोजनशत्यथ । एकोनविंशत्यंशस्य, योजनस्य पडंशकाः ॥ ५८६ ॥
ततो द्विगुणद्विगुणविष्कम्भाश्च यथोत्तरम् । विदेहान्ता वर्षधराचल-वर्षा भवन्ति तु ॥ ५८७ ॥ उत्तरे वर्षधराद्रि-वर्यास्तुल्यास्तु दक्षिणैः । वर्षधराद्रि-वर्षाणां, प्रमाणमिदमेव हि ॥ ५८८ ॥
१ उच्चत्वे । २ मेखलायाम् । ३ श्वेतसुवर्णनिर्मितः। ४ सुवर्णमयः। ५ जलमध्ये दशयोजनपर्यन्तमवगाह्य स्थितानि । ६ महानद्यौ। ७ भरतस्य पृथुत्वे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org