________________
तृतीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
२०१ राक्षसानां पुनीमो, महाभीमश्च नायकः । किन्नराणामधीशौ किन्नर-किम्पुरुषौ पुनः ॥५२१॥ तथा सत्पुरुष-महापुरुषौ किम्पुरुषपौ । अतिकाय-महाकायौ, महोरगपुरन्दरौ ॥ ५२२ ॥ गन्धर्वाणां प्रभुर्गीतरतिीतयशा अपि । इत्थङ्कारं व्यन्तराणां, तत्रेन्द्राः सन्ति षोडश ॥ ५२३ ॥
रत्नप्रभायाः प्रथमे, योजनानां शते तथा । योजनानि परित्यज्य, दशाऽधो दश चोपरि ॥५२४ ॥ सन्त्यशीतौ योजनेषु, व्यन्तराष्टनिकायकाः । तत्राप्रज्ञप्तिकः पश्चप्रज्ञप्तिऋषिवादितः॥ ५२५॥ 5 भूतवादितः क्रन्दितो, महाक्रन्दित एव च । कूष्माण्डः पवकश्चेति, तेषु द्वौ द्वौ पुरन्दरौ ॥५२६॥ सन्निहितः समानश्च, तथा धातृ-विधातृको । ऋषिश्च ऋषिपालच, तथेश्वर-महेश्वरौ ॥५२७॥ सुवत्सक-विशालौ च, हास-हासरती तथा। तथा श्वेत-महाश्वेतो, पवकः पवकाधिपः॥५२८॥
रत्नप्रभातलादू , योजनानां शतेषु च । अष्टासु दशहीनेषु, ज्योतिष्काणामधस्तलम् ॥ ५२९ ॥ तदूर्द्ध दशयोजन्यां, सूर्यः सूर्यस्य चोपरि । भवत्यशीतियोजन्याः, प्रान्ते तुहिनदीधितिः ॥ ५३० ॥ 10 ततो विंशतियोजन्याः, प्रान्ते तारा ग्रहा इति । बाहल्ये योजनशतं, ज्योतिर्लोको दशोत्तरम् ॥ ५३१॥ एकविंशैर्योजनानामत्रैकादशभिः शतैः । द्वीपस्य जम्बूद्वीपस्य, मेरुशैलमसंस्पृशत् ॥ ५३२ ॥ आस्थितं मण्डलिकया, दिक्षु सर्वासु सन्ततम् । ज्योतिश्चक्रं बम्भ्रमीति, ध्रुव एकस्तु निश्चलः ॥ ५३३ ॥ योजनानामेकादशशतैरेकादशोत्तरैः । लोकान्तमस्पृशत् तद्धि, मण्डलेनाऽवतिष्ठते ॥ ५३४ ॥ अत्र सर्वोपरि स्वातिः, सर्वेषां भरणी त्वधः। सर्वेभ्यो दक्षिणो मूलोऽभीचिः सर्वोत्तरः पुनः॥ ५३५॥ 15 तत्र जम्बूद्वीपेऽमुष्मिन्, द्वौ चन्द्रौ द्वौ च भास्करौ । लवणोदे च चत्वारश्चन्द्रा दिनकरास्तथा ॥५३६॥ द्वादश धातकीखण्डे, चन्द्रा द्वादश भानवः । कालोदे द्विचत्वारिंशचन्द्रा दिनकरास्तथा ॥ ५३७ ॥ द्वासप्ततिः पुष्कराधे, चन्द्राश्च वयोऽपि च । एवं द्वात्रिंशमिन्दुनां, शतं दिनकृतां तथा ॥ ५३८ ॥ एकस्सैकस्य चन्द्रस्य, जायते च परिग्रहः । अष्टाशीतिग्रहाश्चैव, भान्यष्टाविंशतिस्तथा ।। ५३९ ॥ षट्रपष्टिश्च सहस्राणि, तथा नव शतानि च । तारकाकोठिकोटीनां, पञ्चसप्ततिरेव च ॥ ५४०॥ 20 इन्दोर्विमानं विष्कम्भा-ऽऽयामयोर्योजनस्य तु । एकपटयंशीकृतस्य, स्युः षट्पञ्चाशदंशकाः ॥५४१॥ अष्टचत्वारिंशदंशा, विमाने तु विवस्वतः । योजना ग्रहाणां तु, भानां गव्यूतमेककम् ।। ५४२ ॥ सर्वोत्कृष्टायुपस्तारकायाः क्रोशाधमेव तु । सर्वजघन्यायुष्कायाः, पञ्च धन्वशतानि तु ॥ ५४३ ॥ पिण्डः सर्वत्र दैयाध, मत्यक्षेत्रे भवन्ति ते । पञ्चचत्वारिंशल्लक्षयोजनप्रमिते खलु ॥ ५४४ ॥ पुरः सिंहा दक्षिणतो, गजा अपरतो वृषाः । उत्तरतोऽश्वाश्चन्द्रादिविमानवाहनान्यमी ॥ ५४५॥ 25 ते चाऽऽभियोगिकाश्चन्द्रांश्वोः सहस्राणि षोडश । ग्रह-नक्षत्र-ताराणामष्टौ चत्वायुभे कमात् ॥५४६॥ चन्द्रादीनां गतिजुषां, वरसेनैव सन्ततम् । वाहनत्वेनाऽवतिष्ठन्त्याभियोग्येन कर्मणा ॥ ५४७॥ मानुषोत्तरपरतो, योजनानां सहस्रकैः । पञ्चाशतेन्दवोऽश्चि, तिष्ठन्त्यन्तरिता मिथः ॥ ५४८ ॥ मनुष्यक्षेत्रचन्द्रा-ऽकमानादर्धप्रमाणकाः । क्रमशः क्षेत्रपरिधिवृद्ध्या वर्धिष्णुसङ्ख्यकाः ॥ ५४९॥ सुलेश्या ग्रह-नक्षत्र-तारकापरिवारिताः । सङ्ख्या विवर्जिता एवं, घण्टाकारमनोहराः ॥ ५५०॥ खयम्भूरमणाम्भोधिमवधीकृत्य ते सदा । तिष्ठन्ति योजनलक्षान्तरिताभिश्च पतिभिः ॥ ५५१॥ मध्यलोके जम्बूद्वीप-लवणाद्याः शुभाभिधाः। द्विगुणद्विगुणाभोगा, असङ्ख्या द्वीप-सागराः ॥५५२॥ पूर्वपूर्वपरिक्षेपकृतो वलयसन्निभाः । अन्त्यः स्वयम्भूरमप्यो, नाम तेषां महोदधिः ।। ५५३ ॥
जम्बूद्वीपान्तरे मेरुः, काश्चनस्थालवर्तुलः । अधो योजनसहस्रमवगाढो महीतले ॥ ५५४ ॥ १ चन्द्रः। २ परिवारः। ३ नक्षत्राणि । ४ सूर्यस्य । ५ नक्षत्राणाम् । ६ स्थूलत्वम् । ७ चन्द्र-सूर्ययोः। ८ पूर्व. पूर्वद्वीप-समुद्रपरिवृताः एकान्तरिता द्वीप-समुद्राः।
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org