________________
10
२०० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीयं पर्व अशीतित्रिंशदष्टाविंशतिर्विंशतिस्तथा । अष्टादश षोडशाऽष्टौ, सहस्राश्च क्रमेण तु ॥ ४८७ ॥ रत्नप्रभाभुवोऽधोऽधः, क्रमात् पृथुतराश्च ताः । त्रिंशल्लक्षाणि नरकावासानां प्रथमावनौ ॥ ४८८ ॥ पञ्चविंशतिलक्षाणि, द्वितीयनरकावनौ । तृतीयायां पञ्चदश, तुरीयायां पुनर्दश ॥ ४८९ ॥ पञ्चम्यां त्रीणि पञ्चोनं, लक्षं षष्ठ्यां पुनर्भुवि । पञ्चैव नरकावासाः, सप्तम्यां नरकावनौ ॥ ४९० ॥ भुवां रत्नप्रभादीनामधस्ताच्च घनाब्धयः । मध्योत्सेधे योजनानां, सहस्राणि तु विंशतिः ॥ ४९१ ॥ तदधस्ताद् धनवाता, मध्योत्सेधे भवन्ति तु । योजनानामसङ्ख्यानि, सहस्राणि घनाब्धितः ।। ४९२ ॥ तनुवातास्त्वसङ्ख्यानि, तानि स्युर्घनवाततः । आकाशं तनुवातेभ्योऽप्यसवयेयानि तानि च ॥ ४९३ ॥ मध्योत्सेधादमुष्मात् तु, हीयमानाः क्रमेण च । घनाम्भोध्यादयः प्रान्ते, वलयाकारधारिणः ॥ ४९४ ॥ रत्नप्रभाया मेदिन्याः, परिधिस्थितिशालिनः। धनाम्भोधिवलयस्य, विष्कम्भो योजनानि पट् ॥ ४९५ ॥ महावातस्य वलयविष्कम्भे योजनानि तु । सार्धानि चत्वारि तनुवायोः सार्धं तु योजनम् ॥ ४९६ ॥ रत्नप्रभाया वलयमानस्योपरि जायते । शर्कराया घनाम्भोधौ, त्रिभागो योजनस्य तु ॥ ४९७ ॥ महावाते च गव्यूतमेकं भवति निश्चितम् । गव्य॒तस्य तृतीयांशस्तनुवातेऽपि वर्धते ॥ ४९८॥ शर्करावलयमानस्योपरि क्षेप एष च । तृतीयपृथ्वीवलयविष्कम्भेष्वपि जायते ॥ ४९९ ॥
एवं च प्राक्प्राग्वलयमानोर्बु क्षेप एप च । सप्तमी पृथिवीं यावद्, वलयेषु विधीयते ।। ५००॥ 15 घनाम्भोधि-महावाता-ऽल्पवातवलयानि तु । स्वस्त्रपृथ्वीगतोत्सेधसमोत्सेधानि सर्वतः ॥५०१॥
इत्थं च भृमयः सप्त, धनाम्भोध्यादिधारिताः । तास्वेव नरकावासा, भोगस्थानं कुकर्मणाम् ॥ ५०२॥ यातना-रुक्शरीरा-ऽऽयु-र्लेश्या-दुःख-भयादिकम् । वर्षमानं विनिश्चयमधोऽधावत्र भूमिषु ॥५०३॥ __ अथ रत्नप्रभाभूमेहल्ये जायते खलु । योजनानां लक्षमेकं, सहस्राशीतिसंयुतम् ॥ ५०४॥
त्यक्त्वा योजनसहस्रमेकमूर्द्धमघोऽपि च । तदन्तः सन्ति भवनपतीनां भवनानि तु ॥५०५॥ 20 ते च भवनपतयो, दक्षिणोत्तरयोर्दिशोः । श्रेणीद्वयेन तिष्ठन्ति, राजमार्गेऽट्टपतिवत् ॥ ५०६ ॥
तत्र चूडामणिचिह्ना, असुरा भवनाधिपाः।नागाः पुनः फणाचिह्ना, विद्युतो वज्रलाञ्छनाः ॥५०७॥ सुपर्णा गरुडचिह्ना, घटचिह्नाश्च वह्नयः । अश्वाङ्का वायवो वर्धमानाङ्काः स्तनिताः पुनः॥५०८॥ मकराङ्का उदधयो, हीपाः केसरिलाञ्छनाः । भवन्ति दिकुमारास्तु, सर्वे कुञ्जरलाञ्छनाः ॥५०९ ॥
तत्राऽसुराणां द्वाविन्द्रौ, चमरो बलिरित्यपि । धरणो भूतानन्दश्च, नागानां तु पुरन्दरौ ॥ ५१० ॥ 25 इन्द्रो विद्युत्क्रुमाराणां, हरिहरिसहस्तथा । वेणुदेवो वेणुदारी, सुपर्णानां तु वासवौ ॥५११॥
ईशावनिकमाराणामग्निशिग्वा-निमाणवी । इन्द्रो वायुमाराणां, वेलम्योऽथ प्रभञ्जनः॥५१२ सुघोपोऽथ महाघोषः, स्तनितानां तु वासवौ। इन्द्रावधिकुमाराणां, जलकान्त-जलप्रभो॥५१३॥ पूर्णो वशिष्ठश्च द्वीपकुमाराणामधीधरौ । अधिो दिमाराणाममिता-अमितवाहनौ ॥ ५१४॥
रत्नप्रभाया उपरि, योजनानां महत्तः । उपरिष्टादधस्ताच, त्यक्त्वैकां शतयोजनीम् ॥ ५१५ ॥ 30 वसन्ति योजनशतेष्वष्टवष्टविधाः खलु । दक्षिणोत्तरयोः श्रेण्योर्व्यन्तराणां निकायकाः ॥५१६ ॥
पिशाचव्यन्तरास्तत्र, कदम्बतरुलान्छनाः । भूताः सुलसवृक्षाङ्का, यक्षास्तु वटलाञ्छनाः ॥ ५१७॥ राक्षसास्तु खाजाका, अशोकाङ्कास्तु किन्नराबिम्पकाङ्काः किम्पुरूषा, नागढुङ्गा महोरगाः ॥५१८॥ गन्धर्वव्यन्तराश्चारुतुम्बुरुगुमलाञ्छनाः । तत्र काल-महाकालौ, पिशाचानामधीश्वरौ ॥५१९॥ सुरूपोऽप्रतिरूपश्च, भूतानामधिपो पुनः । यक्षाणां पूर्णभद्रश्च, माणिभद्रश्च वासवः ॥ ५२० ॥
१ रखप्रभावन।। २ नरकभूनिपु। ३ वर्द्धमानं सम्पुटकः पुरुषारूढपुरुषो वा। मेघकुमाराः । ५ नागद्रो. नागवृक्षस्य अङ्घ चिहं येषां ते नागदकाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org