________________
तृतीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
१९९ खाधीने मुक्तिमार्गेऽपि, कुमार्गपरिमार्गणैः । अहो! आत्मंस्त्वयैवैष, स्वात्माऽपायेषु पातितः॥४५४॥ यथा प्राप्तेऽपि सौराज्ये, भिक्षां भ्राम्यति वालिशः। आत्मायत्ते तथा मोक्षे, भवाय भ्रान्तवानसि ॥४५५॥ एवं राग-द्वेष-मोहैर्जायमानान् विचिन्तयेत् । यत्राऽपायांस्तदपायविचयध्यानमिष्यते ॥ ४५६ ॥ विपाकः फलमानातः, कर्मणां स शुभा-ऽशुभः । द्रव्य-क्षेत्रादिसामग्र्या, चित्ररूपोऽनुभूयते ॥ ४५७ ॥ शुभस्तबाङ्गना-माल्य-खाद्यादिद्रव्यभोगतः । अशुभस्त्वहि-शस्त्रा-ऽग्नि-विषादिभ्योऽनुभूयते ॥ ४५८ ॥ 5 क्षेत्रे सौध-विमानोपवनादौ वसनाच्छुभः । श्मशान-जाङ्गला-ऽरण्यप्रभृतावशुभः पुनः॥ ४५९ ।। काले त्वशीतला-ऽनुष्णे, वसन्तादौ रतः शुभः । उष्णे शीते ग्रीष्म-हेमन्तादौ भ्रमणतोऽशुभः ॥ ४६० ॥ मनःप्रसाद-सन्तोषादिभावेषु शुभो भवेत् । क्रोधा-ऽहङ्कार-रौद्रत्वादिभावेष्वशुभः पुनः ॥ ४६१ ॥ सुदेवत्व-भोगभूमिमनुष्यादिभवे शुभः । कुमर्त्य-तिर्यग्नरकादिभवेष्वशुभः पुनः॥ ४६२ ॥ अपि च-उँदय-क्षय-क्षयोपशमोपशमाः कर्मणां भवन्त्यत्र । द्रव्यं क्षेत्रं कालं, भावं च भवं च सम्प्राप्य॥४६३॥ 10 इति द्रव्यादिसामग्रीयोगात् कर्माणि देहिनाम् । खं खं फलं प्रयच्छन्ति, तानि त्वष्टैव तद्यथा ॥४६४॥ ___ जन्तोः सर्वज्ञरूपस्य, ज्ञानमात्रियते सदा । येन चक्षुः पटेनेव, ज्ञानावरणकर्म तत् ॥ ४६५ ॥ मति-श्रुता-ऽवधि-मनःपर्यायाः केवलं तथा । पञ्चाऽऽत्रियन्ते ज्ञानानीत्येता ज्ञानावृतेर्भिदः ॥ ४६६ ॥ पञ्च निद्रा दर्शनानां, चतुष्कस्याऽऽवृतिश्च या । दर्शनावरणीयस्य, विपाकः कर्मणः स तु ॥ ४६७ ॥ यथा दिदृक्षुः स्वामी खं, प्रतीहारनिरोधतः। न पश्यति तथाऽऽत्माऽपि, येन दृष्ट्यावृतिस्तु तत् ॥४६८॥ 15 मधुलिप्तासिधारामास्वादाभं वेद्यकर्म यत् । सुख-दुःखानुभवनखभावं तत् प्रकीर्तितम् ॥ ४६९ ॥ सुरापाणसमं प्राज्ञा, मोहनीयं प्रचक्षते । यदनेन विमूढात्मा, कृत्या-ऽकृत्येषु मुह्यति ॥ ४७० ॥ तत्रापि दृष्टिमोहाख्यं, मिथ्यादृष्टिविपाककृत् । चारित्रमोहनीयं तु, विरतिप्रतिषेधकम् ।। ४७१ ॥ नृ-तिर्यमारका-ऽमर्त्यभेदादायुश्चतुर्विधम् । स्वखजन्मनि जन्तूनां, धारकं गुप्तिसन्निभम् ॥ ४७२ ॥ गति-जात्यादिवैचित्र्यकारि चित्रकरोपमम् । नामकर्म विपाकोऽस्य, शरीरेषु शरीरिणाम् ॥ ४७३ ॥ 20 उच्चैर्नीचर्भवेद् गोत्रं, कर्मोच्चैर्नीचगोत्रकृत् । क्षीरभाण्ड-सुराभाण्डभेदकारि कुलालवत् ॥ ४७४ ॥ दानादिलब्धयो येन, न फलन्ति विबाधिताः । तदन्तरायं कर्म स्याद् , भाण्डागारिकसन्निभम् ॥ ४७५॥ इति मूलप्रकृतीनां, विपाकांस्तान् विचिन्वतः । विपाकविचयं नाम, धर्मध्यानं प्रवर्तते ॥ ४७६ ॥ अनाद्यन्तस्य लोकस्य, स्थित्युत्पत्ति-व्ययात्मनः । आकृति चिन्तयेद् यत्र, संस्थानविचयः स तु ॥४७७।। कटिस्थकरवैशाखस्थानकस्थनराकृतिः । द्रव्यैः पूर्णः स तु लोकः, स्थित्युत्पत्ति-व्ययात्मकैः ॥ ४७८ ॥ 25 वेत्रासनसमोऽधस्तान्मध्यतो झल्लरीनिमः । अग्रे मुरजसङ्काशो, लोकः स्यादेवमाकृतिः ॥ ४७९ ॥ स च त्रिजगदाकीर्णो, भुवः सप्तात्र वेष्टिताः । घनाम्भोधि-धनवात-तनुवातैर्महाबलेः ॥ ४८०॥ जगत्रयं त्वधस्तिर्यगूर्द्धलोकविभेदतः । अधस्तिर्यगूर्द्धभावो, रुचकापेक्षया पुनः ॥ ४८१ ॥ मेर्वन्तर्गोस्तनाकारचतुर्योमप्रदेशकः । रुचकोऽधस्तादृगूर्द्धमेवमष्टप्रदेशकः ॥ ४८२ ॥ तिर्यग्लोकस्तु रुचकस्योपरिष्टादधोऽपि च । योजनानां नव नव, शतानि भवति स्फुटम् ॥ ४८३ ॥ 30 तिर्यग्लोकस्य त्वधस्तादधोलोकः प्रतिष्ठितः । नवयोजनशत्यूनसप्तरजुप्रमाणकः ॥ ४८४ ॥ तत्राऽधोभागमासाद्याधोऽधःस्थाः सप्त भूमयः । यासु नारकपण्डानां, निवासाः सन्ति भीषणाः॥ ४८५ ।। रत्नशकरावालुकापङ्कधूमतमःप्रभाः। महातमाप्रभा चाऽऽसां, बोहल्ये लक्षयोजनी ॥ ४८६ ॥
मूर्खः । २ कथितः। ३ सुदेवत्वे भोगस्थानभूते मनुष्यादिभवे च । " इदं आर्यावृत्तम् । ४ ज्ञानावरणस्य भेदाः। ५ दर्शनावरणम् । ६ कारागृहसमानम् । ७ कोशागारिकतुल्यम् । ८ दधिमथकस्यासनभेदः। ९ मृदङ्गसदृशः । १० ताक् चतुःप्रदेश इत्यर्थः । ११ जैनागमेपु नारकाणां नपुंसकत्वं स्वीकृत मित्येवं प्रयोगः । १२ स्थूलत्वे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org