________________
10
१९८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[द्वितीय पर्व यत्र पादौ पदं धत्तस्तव तत्र सुरा-ऽसुराः । किरन्ति पङ्कजव्याजाच्छ्रियं पङ्कजवासिनीम् ॥ ४२० ॥ दान-शील-तपो-भावमेदाद् धर्म चतुर्विधम् । मन्ये युगपदाख्यातुं, चतुर्वक्त्रोऽभवद् भवान् ॥ ४२१॥ त्वयि दोषत्रयात् त्रातुं, प्रवृत्ते भुवनत्रयीम् । प्राकारत्रितयं चक्रुस्त्रयेऽपि त्रिदिवौकसः ॥ ४२२॥ अधोमुखाः कण्टकाः स्युर्धाच्यां विहरतस्तव । भवेयुः सम्मुखीनाः किं, तामसास्तिग्मरोचिषः १ ॥४२३॥ केश-रोम-नख-श्मश्रु, तवाऽवस्थितमित्ययम् । बाह्योऽपि योगमहिमा, नाऽऽप्तस्तीर्थकरैः परैः॥ ४२४ ॥ शब्द-रूप-रस-स्पर्श-गन्धाख्याः पञ्च गोचराः । भजन्ति प्रातिकूल्यं न, त्वदने तार्किका इव ॥ ४२५ ॥ त्वत्पादावृतवः सर्वे, युगपत् पर्युपासते । आकालकृतकन्दर्पसाहायकमयादिव ॥ ४२६ ॥ सुगन्ध्युदकवर्षेण, दिव्यपुष्पोत्करेण च । भावित्वत्पादसंस्पर्शा, पूजयन्ति भुवं सुराः ॥ ४२७ ॥ जगत्प्रेतीक्ष्य ! त्वां यान्ति, पक्षिणोऽपि प्रदक्षिणाम् । का गतिमहतां तेषां, त्वयि ये वामवृत्तयः ? ॥४२८॥ पञ्चेन्द्रियाणां दो शील्यं, क भवेद् भवदन्तिके ? । एकेन्द्रियोऽपि यन्मुश्चत्यनिलः प्रतिकूलताम् ॥४२९॥ मूर्धा नमन्ति तरवस्त्वन्माहात्म्यचमत्कृताः । तत् कृतार्थ शिरस्तेषां, व्यर्थ मिथ्यादृशां पुनः॥४३०॥ जघन्यतः कोटिसङ्ख्यास्त्वां सेवन्ते सुरा-ऽसुराः । भाग्यसम्भारलभ्येऽर्थे, न मन्दा अप्युदासते ॥४३१॥ __भगवन्तमिति स्तुत्वाऽपक्रम्य विनयक्रमात् । पृष्ठे मघवतस्तस्थौ, नर-नारीगणश्च सः ॥ ४३२ ॥
इत्थं समवसरणस्योर्द्धवप्रान्तरावनौ । तस्थौ चतुर्विधः सङ्घो, ध्यानस्थ इव भक्तितः ॥ ४३३ ॥ 15 द्वितीयवप्रमध्ये तु, भुजङ्ग-नकुलादयः । तिर्यञ्चोऽस्थुस्त्यक्तवैरा, मित्राणीव परस्परम् ॥ ४३४ ॥
तृतीयवप्रमध्ये च, खामिसेवार्थमेयुषाम् । सुरा-सुर-मनुष्याणां, वाहनान्यवतस्थिरे ॥ ४३५ ॥ अथाऽऽयोजनगामिन्या, सर्वभाषास्पृशा गिरा । भगवानजितस्त्रामी, प्रारेभे धर्मदेशनाम् ॥ ४३६ ॥
असावसारः संसारः, सारबुद्ध्याऽवबुध्यते । काचो वैडूर्यबुद्ध्येव, धिगहो! मुग्धबुद्धिभिः ॥ ४३७ ॥ प्रतिक्षणभवैदेहभाजां विविधकर्मभिः । संवर्ध्यते च संसारः, पादपो दोहदैरिव ॥ ४३८ ॥ कर्माभावेन संसाराभावो न्यायभवः खलु । कर्मध्वंसाय सुधिया, यतितव्यं ततः सदा ॥ ४३९ ॥ कर्मध्वंसः शुभध्यानात्, तच्च ध्यानं चतुर्विधम् । आज्ञा-पाय-विपाकानां, संस्थानस्य च चिन्तनात् ॥४४०॥
आज्ञा स्यादाप्तवचनं, सा द्विधैव व्यवस्थिता । आगमः प्रथमा तावद्धेतुवादोऽपरा पुनः ॥ ४४१ ॥ शब्दादेव पदार्थानां, प्रतिपत्तिकृदागमः । प्रमाणान्तरसंवादाढेतुवादो निगद्यते ॥ ४४२॥
द्वयोरप्यनयोस्तुल्यं, प्रामाण्यमविगानतः । अदुष्टकारणारब्धं, प्रमाणमिति लक्षणात् ॥ ४४३ ॥ 25 दोषा राग-द्वेष-मोहाः, सम्भवन्ति न तेऽर्हति । अदुष्टहेतुसम्भूतं, तत् प्रमाणं वचोऽर्हताम् ॥ ४४४ ॥
नय-प्रमाणसंसिद्ध. पौर्वापर्याविरोधि च । अप्रतिक्षेप्यमपरैर्बलिप्रैरपि शासनैः ॥१४५॥ अङ्गोपाङ्ग-प्रकीर्णादिबहभेदापगाम्बुधि । अनेकातिशयप्राज्यसाम्राज्यश्रीविभपितम ॥४४६॥ सुदुर्लभं दूरभव्यैर्भव्यैस्तु सुलभं भृशम् । गणिपिटकतयोचैर्नित्यं स्तुत्यं नरा-ऽमरैः ॥ ४४७ ॥ इमामाज्ञां समालम्ब्य. स्याद्वादन्याययोगतः । द्रव्य-पर्यायरूपेण, नित्या-ऽनित्येषु वम्तए ॥४४८॥ स्वरूप-पररूपाभ्यां, सदसद्पशालिषु । यः स्थिरप्रत्ययो ध्यानं. तढाजाविचयायम ॥ ४४९॥
अस्पृष्टजिनमार्गाणामविज्ञातपरात्मनाम । अपरामष्टायतीनामपायाः स्यः सहस्रशः॥ ४५० ॥ माया-मोहा-ऽन्धतमसविवशीकृतचेतसा । किं किं नाऽकारि कलुपं?, कस्कोऽपायोऽप्यवापि न ? ॥४५१॥ यद् यद् दुःखं नारकेषु, तिर्यक्षु मनुजेषु च । मयाऽप्रापि प्रमादोऽयं, ममैव हि विचेतसः ॥ ४५२॥ प्राप्यापि परमां बोधि, मनो-चाकायकर्मजैः । दुश्चेष्टितर्मयवाऽऽन्मशिरसि ज्यालितोऽनलः ॥ ४५३ ॥
१सूर्यस्य । २ वृद्धिरहितम् । ३ इन्द्रियविषयाः। ४ हे जगापूज्य !। ५ प्रतिकूलवृत्तयः। प्रतिपादकः। ७ अविरोधितया। ८ अबाध्यम्। ९ अविचारितोत्तरकालानाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org