________________
तृतीयः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम् ।
१९७
नाविर्भवन्ति यद् भूमौ मूषिकाः शलभाः शुकाः । क्षणेन क्षितिपक्षिप्ता, अनीतय इवैर्तयः ॥ ३८८ ॥ स्त्री-क्षेत्र - पेद्रादिभवो, यद् वैराग्निः प्रशाम्यति । त्वत्कृपापुष्करावर्तवर्षादिव भुवस्तले ॥ ३८९ ॥ त्वत्प्रभावे भुवि भ्राम्यत्यशिवोच्छेदडिण्डिमे । सम्भवन्ति न यन्नाथ !, माँरयो भुवनारयः ॥ ३९० ॥ कामवर्षिणि लोकानां त्वयि विश्वैकवत्सले । अतिवृष्टिरवृष्टिर्वा, भवेद् यन्नोपतापकृत् ॥ ३९९ ॥ खराष्ट्र - परराष्ट्रेभ्यो, यत् क्षुद्रोपद्रवा द्रुतम् । विद्रवन्ति त्वत्प्रभावात् सिंहनादादिव द्विपाः ।। ३९२ ॥ यत् क्षीयते च दुर्भिक्षं, क्षितौ विहरति त्वयि । सर्वाद्भुतप्रभावाट्ये, जङ्गमे कल्पपादपे ॥ ३९३ ॥ यन्मूर्भः पश्चिमे भागे, जितमार्त्तण्डमण्डलम् । मा भूद् वपुर्दुरालोकमितीवोत्पिण्डितं महः ॥ ३९४ ॥ स एष योगसाम्राज्यमहिमा विश्वविश्रुतः । कर्मक्षयोत्थो भगवन् !, कस्य नाऽऽश्चर्यकारणम् ? ।। ३९५ ।। अनन्तकालप्रचितमनन्तमपि सर्वथा । त्वत्तो नान्यः कर्मर्केशमुन्मूलयति मूलतः ॥ ३९६ ॥ तथोपाये प्रवृत्तस्त्वं क्रियासमभिहारतः । यथाऽनिच्छन्नुपेयस्य, परां श्रियमशिश्रियः || ३९७ ॥ मैत्री पवित्र पात्राय, मुदितामोदशालिने । कृषोपेक्षाप्रतीक्ष्याय, तुभ्यं योगात्मने नमः ॥ ३९८ ॥
इतश्च समवसृतं, जिनेन्द्रमजितप्रभुम् । उद्यानपालका गत्वाऽऽचख्युः सगरचक्रिणे ॥ ३९९ ॥ प्रभोः समवसरणोदन्तेन मुमुदे तथा । चक्रवर्ती चक्ररत्नोत्पत्तावपि यथा न हि ॥ ४०० ॥ तेभ्यश्च तपनीयस्य, सार्धा द्वादशकोटयः । भूभुजा परितुष्टेन, ददिरे पारितोषिके ।। ४०१ ॥ ततः स्नात्वा कृतप्रायश्चित्त कौतुकमङ्गलः । उदाराकाररलालङ्कारस्त्रिदशराडिव ।। ४०२ ॥
तस्कन्धहारः कराभ्यां नर्तयन् सृणिम् । सगरः कुञ्जरवरमासन्यारोहदग्रिमे ॥ ४०३ ॥ युग्मम् ॥ कुम्भिकुम्भस्थलेनोचेनाऽऽनाभि च्छन्नविग्रहः । अर्धोदित इवाऽऽदित्यो, दिद्युते मेदिनीपतिः ॥ ४०४ ॥ दिग्मुखप्रसृतैः शङ्ख-दुन्दुभिप्रभृतिखनैः । एयुः सैन्याः सुघोषादिघण्टाघोषैरिवाऽमराः ।। ४०५ ।। राज्ञां मुकुटवद्धानां सहस्रैः परिवारितः । विरेजे वैक्रियानेकरूपधारीव चक्रभृत् ॥ ४०६ ॥ मूर्धाभिषिक्तमूर्धन्यो, मूर्ध्नि च्छत्रेण पाण्डुना । अशोभिष्ट नभोगङ्गावर्त्तभ्रमविधायिना ॥ ४०७ ॥ पार्श्वतः सञ्चरिष्णुभ्यां, चामराभ्यामरोचत । सगर चन्द्रबिम्बाभ्यामिव काञ्चनपर्वतः ॥ ४०८ ॥ वाजिभिः स्वर्णसन्नाहैः, स्वर्णपक्षैः खगैरिव । रथैस्तुङ्गध्वजस्तम्भैः, पोतैखिँ सकूपकैः ॥ ४०९ ॥ क्षरन्मदैर्गजवरैः, शैलैरिव सनिर्झरैः । उदस्त्रैः पत्तिभिः सिन्धुतरङ्गैरिव सोरगैः ॥ ४१० ॥ परितश्छादयन्नुवमुवपतिरथ द्रुतम् । आससाद सहस्राम्रवणोपवनसन्निधिम् ॥ ४११ ॥
॥ त्रिभिर्विशेषकम् ॥
उद्यानद्वारसौवर्णवेद्यां सगर भूपतिः । उत्ततार द्विपात् तस्मान्मानादिव महामुनिः ॥ ४१२ ॥ उज्झाञ्चकार सगरः, स्वं छत्रं चामरे अपि । अप्यन्यराज्यचिह्नानि, विनीतानां क्रमो ह्ययम् ॥ ४१३ ॥ पादाभ्यां न ह्यलञ्चक्रे, विनयादप्युपानहौ । हस्तावलम्बनमपि, वेत्रिदत्तमुपैक्षत ॥ ४१४ ॥ ततः समवसरणाभ्यर्णे सगरभूपतिः । पद्भ्यां चलितवान् पौरनर-नारी गणैः समम् ॥ ४१५ ॥ उदग्द्वारेण समवसरणं प्राविशत् तदा । नृपो मकरसङ्क्रान्तौ, व्योमाङ्गणमिवाऽर्यमा ॥ ४१६ ॥ तत्र प्रदक्षिणीकृत्य, त्रिर्नत्वा च जगद्गुरुम् । सगरः स्तोतुमारेभे, सुधामधुरया गिरा ॥ ४१७ ॥
arrai युगान्तार्कः, सुदृशाममृताञ्जनम् । तिलकं तीर्थकुलक्ष्म्याः, पुरश्रकं तवैधते ॥ ४९८ ॥ एकोऽयमेव जगति, स्वामीत्याख्यातुमुच्छ्रिता । उच्चैरिन्द्रध्वजव्याजात्, तर्जनी जम्भैविद्विषा ॥ ४१९ ॥
१ क्षेत्रपाकविघ्नकरा उपद्रवाः । २ ग्रामः । ३ व्याधयः । ४ कर्मैव कक्षं वनम् । ५ प्रमोदभावनामोदशोभिताय । ६ कृपामाध्यस्थ्ययोः मुख्याय । ७ सुवर्णस्य । ८ अङ्कुशम् । ९ मूर्धाभिषिक्ता राजानस्तेषां मुख्यः । १० प्रवहणैः । ११ ससर्पैः । १२ नम्राणाम् । १३ इन्द्रेण ।
त्रिषष्टि. २६
Jain Education International
For Private & Personal Use Only
5
10
15
20
25
30
www.jainelibrary.org